________________
उद्देशक : १, मूलं-१९, [भा. २४२५] चातापकस्तस्मिन् ग्रामे नगरे वा भिक्षां न हिण्डते, ‘मा मरुकादयः प्रद्विष्टा अभ्याख्यानं विषगरादि वा दधु' इति कृत्वा । यश्चातापकस्य पुष्पादीन्यालगयति तमप्यसौ सहायो वारयति ।
म. (२०) नो कप्पइनिग्गंधाण वा निग्गंथीण वा सचित्तकम्मे उवस्सए वत्थए। मू. (२१) कप्पइ निग्गंधाण वा निग्गंधीण वा अचित्तकम्मे उवस्सए वस्थए।। वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.२४२६] पढम-चउत्थवयाणं, अतिचारो होज दगसमीवम्मि।
इह विय हुज्ज चउत्थे, सचित्तकम्मेस संबंधो॥ दृ-प्रथम-चतुर्थव्रतयोरप्कायपान-स्त्रीपशसंसर्गादिभिरतिचारो दकसमीपे तिष्ठतां भवेदिति कृत्वा तत्र न तिष्ठतीत्युक्तम् । इहापि च सचित्रकर्मणि प्रतिश्रये तिष्ठतां चतुर्थव्रतस्यातिचारो भवेदिति कृत्वा तत्र न तिष्ठतीत्यनेन प्रतिपाद्यते । एष सम्बन्धः ।। प्रकारान्तरेण तमेवाह[भा.२४२७] नो कप्पइ जागरिया, चिट्ठणमाई पया य दगतीरे।
चित्तगयमानसाणं, जागरि-झाया कुतो अहवा ॥ वृ-अनन्तरसूत्रेनो कल्पते 'जागरिका' धर्मध्यानं स्थानादीनिच पदानि दकतीरेकर्तुमित्यक्तम्। इह तु चित्रगतमानसानां कुतो जागरिका-स्वाध्यायौ सम्भवतः ? इत्ययम् ‘अथवा' द्वितीयः सम्बन्धः । अनेन सम्बन्धद्वयेनायातस्यास्य व्याख्या-नो कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा 'सचित्रकर्मणि' चित्रकर्मणा संयुक्त उपाश्रये वस्तुम् ।। कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अचित्रकर्मणि उपाश्रये वस्तुमिति सूत्रार्थ ।। अथ भाष्यविस्तरः[भा.२४२८] निद्दोस सदोसे वा, सचित्तकम्मे उ दोस आणादी।
सइकरणं विकहा वा, बिइयं असतीए वसहीए। वृ-निर्दोषे वा सदोषे वा सचित्रकर्मणि प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः । ये च ताशे चित्रकर्मखचिते वेश्मनि पूर्वं भोगान् बुभुजिरे तेषां स्मृतिकरणम्, उपलक्षणत्वादितरेषां कौतुकमुपजायते, विकथा वा तत्र वक्ष्यमाणलक्षणा भवेत् । द्वितीयपदं चात्र-वसतावसत्यां तत्रापि वसेत् ।। अथैनामेव नियुक्तिगमथां व्याख्याति[भा.२४२९] तरु गिरि नदी समुद्दो, भवणा वल्ली लयावियाणा य ।
निद्दोस चित्तकम्म, पुत्रकलस-सोत्थियाई य ।। वृ- तरवः-सहकारादयः, गिरयः-हिमवदादयः, नद्यः-गङ्गा-सिन्धुप्रभृतयः, समुद्रःलवणोदादिकः, भवनानि-चतुःशालादीनि गृहाणि, वल्लयः-नागवल्लयादयः, लताः-माधवीचम्पकलतादयः तासां वितानं-निकुरुम्बम्, तथा पूर्णकलश-स्वस्तिकादयश्चये माङ्गलिकाः पदार्था, एतेषां रूपाणि यत्रालिखितानि तच्चित्रकर्म निर्दोषं ज्ञातव्यम् ।। अथ सदोषमाह[भा.२४३०] तिरिय-मनुय-देवीणं, जत्थ उ देहा भवंति भित्तिकया।
सविकार निविकारा, सदोस चित्तं हवइ एयं ।। वृ-'तिर्यङ्-मनुज-देवीनाम्' इति तिरश्चीनां मानुषीणां देवीनां चेत्यर्थः, एतासांदेहाः सविकारा निर्विकारा वा यत्र भित्तौ कृताः-आलिखिता भवन्ति एतत् चित्रकर्म सदोषं भवति ।।
अथात्रैव तिष्ठतां प्रायश्चित्तमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org