________________
७८
बृहत्कल्प-छेदसूत्रम् -२-१/१९
जोग्गाए वा असती, चिट्ठे दगतीरऽनोयारे ॥ कृ-ग्लानो वैद्यस्य समीपंनीयमानो द्रव्यम्-औषधंतदर्थवाऽन्यत्र नीयमानोऽन्यत्र वसतेरभावे दकतीरेऽपि तिष्ठेत् । अथवा विद्यते वसति परं न ग्लानयोग्या ततो योग्याया वसतेरसति तत्र वसेत्।अथवा विश्रामणार्थदकतीरे मुहूर्तमानं ग्लानस्तिष्ठेत् । तमपि मनुष्य-तिरश्चाम् अनवतारे' अप्रवेशमार्गेऽवतारयेत् ॥ तत्र च स्थितानामियं यतना[भा.२४२२] उदगंतेण चिलिमिणी, पडियरए मोत्तु सेस अन्नत्य ।
पडियर पडिसंलीना, करिज सव्वाणि वि पयाणि ॥ वृ- उदकं येनान्तेन-पार्वेन भवति ततश्चिलिमिली कटको वा दीयते, ये च ग्लानस्य प्रतिचरकास्तान् मुक्त्वा शेषाः सर्वेऽप्यन्यत्र तिष्ठन्ति।प्रतिचरका अपिप्रतिसंलीनास्तथातिष्ठन्ति यथा सम्पातिमा-ऽसम्पातिमसत्त्वानां सन्त्रासो न भवति । एवं सर्वाण्यपि स्थान-निषदनादीनि पदानि कुर्यात् ।। गता दकतीरयतना । अथ यूपकयतनामाह[भा.२४२३] अद्धाणनिग्गयादी, संकम अप्पाबहुं असुन्नं च।
गेलन-सेहभावो, संसद्यसिणं व निव्वविउं ।। वृ-अध्वनिर्गतादयः साधवोऽन्यस्या वसतेरभावे यूपके तिष्ठन्ति । तत्राल्पबहुत्वं ज्ञात्वा य एकाङ्गिकोऽचलो अरिशाटी निष्प्रत्यपायश्चसक्रमस्तेन गन्तव्यम्। दिवा च रात्रौच वसतिमशून्यां कुर्वन्ति । तत्र स्थितानां ग्लानस्य वा शैक्षस्य वा यदि 'पानीयं पिबामः' इत्यशुभो भाव उत्पद्यते ततस्तौ प्रज्ञाप्यते। तथाप्यस्थिते भावे तयोः संसृष्टपानकमुष्णोदकं वा 'निर्वाप्य' सुशीतलं कृत्वा दातव्यम् ।। अथातापनायतनामाह[भा.२४२४] ओलोयण निग्गमणे, ससहाओ दगसमीवे आयावे।
उभदढो भोगजढे, कजे आउट्ट पुच्छणया ।। कृ-चैत्यविनाश-तद्रव्यविनाशादिविषयंकिमपि कार्य राजाधीनंततोराज्ञआवर्जनार्थदकसमीपे आतापयेत् । तच्च दकतीरं राज्ञोऽवलोकनपथे निर्गमनपथेवा भवेत्। तत्र चातापयन् ‘ससहायः' नैकाकी ‘उभयतः धृत्या संहननेन च बलवान् “भोगजढे'त्ति ग्रामेयका-ऽऽरण्यकानांतिर्यङ्मनुष्याणामवतरणमार्ग मनुजानांचस्नादिभोगस्थानं वर्जयित्वा अपरिभोग्ये प्रदेशे आतापयति। ततः स राजा तं महातपोयुक्तमातापयन्तं दृष्ट्वा आवृत्तः सन् कार्यं पृच्छेत्-भगवन् ! किमेवमातापयसि ? आज्ञापय, करोम्यहं युष्मदभिप्रेतं कार्यम्, भोगान् वा भगवतां प्रयच्छामि। मुनिराह-महाराज! न मे कार्य भोगादिभिवरैः, इदं सङ्घकार्यं चैत्यविनाशनिवर्तनादिकं विदधातु महाराज इति । अथ तस्य कीशः सहायो दीयते? इत्याह[भा.२४२५] भाविय करणो तरुणो, उत्तर-सिंचणपहे य मुत्तूणं ।
मजणमाइनिवारणा, न य हिंडइ पुष्फ वारेइ॥ वृ- ‘भावितो नाम परिणतजिनवचनः तस्य ह्यप्कायपाने परिणामो न भवति, “करणु"त्ति इषुशास्त्रे संयमे वा कृतकरणः, 'तरुणः समर्थ, ईशः सहायस्तस्य नातिदूरे वृक्षच्छायायामुपविष्टस्तिष्ठति । स चातापकस्तिर्यङ्-मनुष्याणामुत्तरणपथं सिञ्चनपथं च मुक्त्वा आतापयति । तथाप्यातापयन्तं यदि कोऽपि मज्जयति वा सिञ्चयति वा ततस्तं सहायो निवारयति । त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org