________________
७७
उद्देशक ः १, मूलं-१९, [भा. २४१७]
तण्हुण्हपरिगयस्स व, परिणामोण्हाण-पियणेसु ॥ वृ."गं" इति तमातापकं प्रत्यनीकतया अनुकम्पया वा केचिद् ‘मज्जयन्ति वा' स्नपयन्ति 'सिञ्चन्ति वा' शृङ्गच्छटादिभिरञ्जलीभिर्वा निर्वापयन्ति । यद्वा तस्यातापकस्य ‘तृषितोऽहम्' इत्येवंतृष्णापरिगतस्य धर्माभिभूतगात्रोऽहम्' इत्येवमुष्णपरिगतस्यवा स्नान-पानयोः परिणामः सञ्जायते ॥ वृत्तिद्वारं प्रान्तदेवताद्वारं चाह[भा.२४१८] आउट्टजणे मरुगाण अदाने खरि-तिरिक्खिछोभादी।
पञ्चक्खदेवपूयण, खरियाऽऽवरणं व खित्ताई। वृ. तस्यातापनया आवृत्तः-आवर्जितो जनो मरुकाणां दानं न ददाति, ततस्तेषामदाने खरीयक्षरिका तिरश्ची-महाशब्दिकाप्रभृतिका तद्विषयं छोभम्-अभ्याख्यानं तदादयो दोषा भवेयुः । तथा 'प्रत्यक्षदेवताऽयम्' इति कृत्वा तस्य साधोः पूजनं देवतायाश्चापूजनम्, ततः "खरियाऽऽवरण"ति संयतवेषमावृत्य तप्रतिरूपं कृत्वा व्यक्षरिकांप्रतिसेवमानं देवता दर्शयेत्, क्षिप्तचित्तादिकं वा तं श्रमणं सा देवता कुर्यादिति ।। अथैनामेव नियुक्तिगाथां स्पष्टयति[भा.२४१९] आयावण साहुस्सा, अनुकंपं तस्स कुणइ गामो उ।
मरुयाणं च पओसो, पडिनीयाणं च संका य ।। वृतस्य साधोर्दकतीरे आतापनांकुर्वतोग्रामजनः सर्वोऽप्यावृत्तः, ततश्चानुकम्पांतस्य करोति, पारणकदिवसे भक्तादिकं सविशेषंददातीत्यर्थः, 'अयं प्रत्यक्षदेवः, किम्माकमन्येषां मरुकादीनां दत्तेन? एतस्य दत्तं बहुफलं भवति' इति कृत्वा । ततो मरुकाणामदीयमाने प्रद्वेषः सातेः, ततस्ते व्यक्षरिका-महाशब्दिकादिविषयमयशः प्रदधु, यथा-एष संयतोऽस्माभिव्यक्षरिकां महाशब्दिकां वा प्रतिसेवमानो इष्ट इति । तत्र ये प्रत्यनीकास्तेषां शङ्का भवति तत्र चतुर्गुरु, निशड़िते मूलम्; अथवा ये प्रत्यनीकास्तेशन्ते-कस्मादेष तीर्थस्थाने आतापयति? किंस्तैन्यार्थी? उत मैथुनार्थी ? इति ॥ गतं वृत्तिद्वारम् । अथ “पञ्चक्खदेव" इत्यादि पश्चाद्ध भाव्यते-यत्रासावातपयति तत्रप्रत्यासन्ना देवता वर्तते तस्यालोकः सर्वोऽपि पूर्वं पूजापर आसीत् । तं च साधु तत्रातापयन्तं दृष्ट्वा अयं प्रत्यक्षदैवतमिति कृत्वा लोकस्तं पूजयितुं लग्नः । ततः सा देवता अपूज्यमाना प्रद्विष्टा सती व्यक्षरिकाद्यभ्याख्यानं दद्यात् । अथवा साधुरूपमावृत्य तत्प्रतिरूपं द्व्यक्षरिकां तिरश्धी वा प्रतिसेवमानं दर्शयेत्, क्षिप्तचित्तं वा कुर्यात्, अपरां वा अकल्पप्रतिसेवनादिकामक्रियां दर्शयेत्।यस्मादियन्तोदोषास्तस्माद्दकतीरे यूपके वान स्थानादीनि पदानि कुर्यात्, द्वितीयपदे कुर्यादपि । कथम् ? इत्याह[भा.२४२०] पढमे गिलाणकारण, बीए वसहीए असइए वसइ।
रायणियकजकारण, तइए बिइयपय जयणाए॥ वृ-प्रथम-दकतीरंतत्र ग्लानकारणात् तिष्ठेत् । द्वितीयं-यूपकंतत्र निर्दोषाया वसतेः 'असति' अभावे वसति' तिष्ठति । 'तृतीयम्' आतापनापदं तत्र रानिकः-राजा तदायत्तं यत् कुल-गणसङ्घकार्यं तत्कारणे तिष्ठेत् । एवं त्रिष्वपि दकतीरादिषु 'यतनया' वक्ष्यमाणलक्षणया 'द्वितीयपदं' तत्रावस्थानलक्षणं सेवेत ।। अथैनामेव नियुक्तिगाथां भावयति
[भा.२४२१] विज-दवियट्ठयाए, निजंतो गिलाणो असति वसहीए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org