________________
बृहत्कल्प-छेदसूत्रम् -२-१/१९
तदेव तपः कालविशेषितम्, तृतीयं छेदान्तम्, चतुर्थं चारणिकाप्रायश्चित्तम्।।गतं दकतीरद्वारम्। अथ यूपकस्यावसरः, तमेवाभिधित्सुराह[भा.२४१३] संकम जूवे अचले, चले य लहुगो य हुँति लहुगा य।
तम्मि विसो चेव गमो, नवरि गिलाणे इमं होइ । वृ-यूपकं नाम-बेटकाख्यं जलमध्यवर्तितटम्, तत्र देवकुलिका वा गृहं वा भवेत् तत्र वसतिं गृह्णतश्चतुर्लघुकाः । तच्च यूपकं सङ्कमेण वा गम्येत जलेन वा । सङ्क्रमो द्विविधः- चलोऽचलश्च। अचलेन गच्छतो मासलघु । चलो द्विविधः-सप्रत्यपायो निष्प्रत्यपायश्च । सप्रत्यपायेन गच्छतश्चतुर्गुरुकम्, निष्प्रत्यपायेन व्रजतश्चत्वारो लघुकाः । तस्मिन्नपि यूपके स एव गमः' सैव वक्तव्यता या दकतीरे भणिता "अधिकरणमन्तरायः" इत्यारभ्य यावद् “एकैकस्मिन् पदे चत्वार आदेशाः" इति । नवगं ग्लानं प्रतीत्य इदमभ्यधिकं दोषजालं भवति । [भा.२४१४] दलूण व सइकरणं, ओभासण विरहिए य आइयणं ।
परितावण चउगुरुगा, अकप्प पडिसेव मूल दुगं ।। वृ. ग्लानस्य तदुदकं दृष्टवा ‘स्मृतिकरणम्' ईशी स्मृतिरुत्पद्यते-पिबाम्यहमुदकम् । ततोऽसाववभाषणंकरोति, यदि दीयतेतत-संयमविराधना, अथन दीयतेततोग्लानः परित्यक्तः। विरहितेच कारणतः साधुभिप्रतिश्रये उदकस्य “आइयणं'"तिपानं कुर्यात्, यदि स्वलिङ्गेनापिबति ततश्चतुर्लघुकम्।अथ "दुर्ग तिगृहिलिङ्गमन्यतीर्थिकलिङ्गंचतेन ‘अकल्पम् अप्कायं प्रतिसेवते ततो मूलम्, तेन चापथ्येनानागाढपरितापनादयो दोषाः, तन्निष्पन्नमाचार्यस्य प्रायश्चित्तम् । अथवा "अकप्पपडिसेवमूल दुगं"तिअकल्पंप्रतिसेव्यभग्नव्रतोऽहमिति कृत्वा यद्येको ग्लानोऽवधावते तत आचार्यस्य मूलम्, द्वयोरनवस्थाप्यम्, त्रिषु पाराञ्चिकम् ॥ [भा.२४१५] आउक्काए लहुगा, पूयरगादीतसेसु जा चरिमं ।
जे गेलने दोसा, धिइदुब्बले सेहे ते चेव ॥ वृ-अप्काये प्रतिसेविते चतुर्लघुकाः । पूतरकादित्रसेषु 'चरम' पाराश्चिकं यावन्नेतव्यम् । तत्र पूतरकादिषु द्वीन्द्रियेषु षड्लघुकम्, त्रीन्द्रियेषुषड्गुरुकम्, चतुरिन्द्रियेषुच्छेदः पञ्चेन्द्रिये मत्स्यादौ उदकेन सह गिलिते एकस्मिन् मूलम्, द्वयोरनवस्थाप्यम्, त्रिषुपाराञ्चिकम् ।येच ग्लान्ये ग्लानस्य स्मृतिकरणा-कायपानादयो दोषा उक्ताः 'धृतिदुर्बले' मन्दश्रद्धे शैक्षे त एव द्रष्टव्याः ॥ गतं यूपकद्वारम् । अथातापनाद्वारमाह नियुक्तिकारः[भा.२४१६] आयावण तह चेव उ, नवरि इमं तत्थ होइ नाणत्तं ।
मञ्जन सिंचन परिणाम वित्ति तह देवया पंता ।। वृ-येदकतीरेऽधिकरणा-ऽन्तरायादयोदोषा उक्तास्ते यथासम्भवंदकतीरे यूपकेवाआतापनां कुर्वतस्तथैव गणितव्याः, नवरमिदं नानात्वं विशेषोभवति-तत्रातापयतो मञ्जनं वा सिञ्चनंवा कश्चित् कुर्यात्, परिणामो वा तस्य स्नानादिविषयो भवेत्, 'वृत्तिर्वा' आजीविका मरुकाणां व्यवच्छिद्येत, प्रान्ता वा देवता लोकेनापूज्यमाना साधोरुपसर्ग कुर्यात् ॥
तत्र मज्जन-सिञ्चन-परिणामद्वाराणि व्याख्यानयति-- [भा.२४१७]. मज्जति व सिंचंति व, पडिनीयऽनुकंपया वणं केई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org