________________
उद्देशक : १, मूलं- १९, [ भा. २४०८ ]
७५
मूलं 'द्विकं चैव' अनवस्थाप्य पाराञ्चिकयुगम्, एवं विंशति प्रायश्चित्तस्थानानि भवन्ति ॥ अथामीषामेव पदानां चारणिकां कुर्वन्नाह[ भा. २४०९]
पनगाइ असंपाइम, संपाइमऽ दिट्ठमेव दिवे य । गुरुएठाइ खुड्डी, सेसाणं वुड्डि एकैकं ।।
वृ- असम्पातिमे यथालन्दमध्ष्टा क्षुल्लिका तिष्ठति लघुपञ्चकम्, दृष्टा तिष्ठति गुरुपञ्चकम्, पौरुषीमष्टा तिष्ठति गुरुपञ्चकम्, दृष्टा तिष्ठति लघुदशकम् अधिकं पौरुषीमध्टा तिष्ठति लघुदशकम्, दृष्टायां गुरुदशकम् । सम्पातिमे यथालन्दमध्ष्टा तिष्ठति गुरुपञ्चकम्, दृष्टा तिष्ठति लघुदकम्, पौरुषीमध्टा तिष्ठति लघुदशकम् दृष्टायां गुरुदशकम्, समधिकां पौरुषीमध्ष्टायां तिष्ठन्त्यां गुरुदशकम्, ष्टायां लघुपञ्चदशकम्। एवमूर्द्धवस्थानमाश्रित्योक्तम् । निषीदन्त्यास्तु गुरुपञ्चरात्रिन्दिवेभ्यः प्रारब्धं गुरुपञ्चदशरात्रिन्दिवेषु, त्वग्वर्तनं कुर्वत्या लघुदशरात्रिन्दिवादारब्धं लघुविंशतिरात्रिन्दिवेषु, एवं निद्रायमाणाया गुरुविंशतिरात्रिन्दिवेषु, प्रचलायमानाया लघुपञ्चविंशतिरात्रिन्दिवेषु, अशनाद्याहारमाहरन्त्या गुरुपञ्चविंशतिरात्रिन्दिवेषु, उच्चारप्रश्रवणे आचरन्त्या लघुमासे, स्वाध्यायं विदधानाया मासगुरुके, धर्मजागरिकया जाग्रत्याश्चतुर्लघुके, कायोत्सर्गं कुर्वत्याश्चतुर्गुरुके तिष्ठति । एवं क्षुल्लिकायाः प्रायश्चित्तमुक्तम् । शेषाणां तु स्थविरादीनामेकैकं स्थानमुपरि वर्द्धते अधस्ताचैकैकं स्थानं हीयते । तद्यथा स्थविराया गुरुपञ्चकादारब्धं षड्लघुकं यावद्, भिक्षुण्या लघुदशकादारब्धं पङ्गुरुकान्तम्, अभिषेकाया गुरुदशकादारब्धं छेदपर्यन्तम्, प्रवर्त्तिन्या लघुपञ्चदशकादारब्धं मूलान्तमवसातव्यम् । एतदेवाह[ भा. २४१०] छल्लहुए ठाइ थेरी, भिक्खुणि छग्गुरुए छेद गणिणी उ । मूले पवत्तिनी पुन, जह भिक्खुणि खुड्डए एवं ।।
वृ- स्थविरा षड्लघुके, भिषुणी षड्गुरुके, 'गणिनी' अभिषेका सा छेदे, प्रवर्त्तिनी पुनर्मूले तिष्ठतीति । यथा च भिक्षुण्यां एवं क्षुल्लकेऽपि द्रष्टव्यम्, दशभ्यो लघुरात्रिन्दिवेभ्यः षड्गुरुकान्तमसम्पातिम- सम्पातिमादिषु प्रायश्चित्त भवतीत्यर्थः ॥
[भा. २४११] गणिणिसरिसो उ थेरो, पवत्तिणिविभागसरिसओ भिक्खू । अड्डोकंती एवं सपदं सपदं गणि-गुरूणं ॥
वृ-गणिनी - अभिषेका तस्याः सद्दशः स्थविरः, यथा अभिषेकाया गुरुदशकमादौ कृत्वा च्छेदान्तं भणितं तथा स्थविरस्यापि भणनीयमिति भावः । प्रवर्त्तिन्याः प्रायश्चित्तविभागेन सदृशो भिक्षुर्भवति, लघुपञ्चदशकात् प्रभृति मूलान्तं प्रायश्चित्तं तस्यापि ज्ञेयमिति हृदयम् । एवम् 'अर्द्धापक्रान्त्या ' अधस्तनैकपदह्नासोपरितनपदैकवुध्यात्मिकया गणी उपाध्यायो गुरु आचार्यस्तयोरपि स्वपदं स्वपदं यावत् प्रायश्चित्तं नेतव्यम्. तत्रोपाध्यायस्य गुरुपञ्चदशकमादौ कृत्वा स्वपदमनवस्थाप्यम्, आचार्यस्य लघुविंशतिरात्रिन्दिवादारभ्य स्वपदं पाराञ्चिकं यावद् द्रष्टव्यम्
[भा. २४१२] एवं तु चिट्टणादिसु सव्वेसु पदेसु जाव उस्सग्गो । पच्छित्ते आदेसा, इक्किक्कपयम्मि चत्तारि ॥
वृ- 'एवम्' अमुना प्रकारेण स्थान-निपदनादिषु सर्वेष्वपि पदेषु कायोत्सर्गं यावदेकैकस्मिन् पदे प्रायश्चित्तविषयाश्चत्वार आदेशा भवन्ति । तद्यथा - एकं तावदौधिकं प्रायश्चित्तम्, द्वितीयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org