SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -२-१/१९ असम्पातिमे पौरुषीमध्ष्टस्तिष्ठति मासलघु, ६ष्टस्तिष्ठति मासगुरु, अधिकां पौरुषीमध्ष्टस्तिष्ठति मासगुरु, ध्ष्टस्तिष्ठति चतुर्लघु । एवमसम्पातिमे दकतीरे भणितम् ॥ संपाइमे वि एवं मासादी नवरि ठाइ चउगुरुए। भिक्खू-वसभा ऽऽयरिए, तव कालविसेसिया अहवा || [मा. २४०४] ७४ वृ- सम्पातिमेऽप्येवमेवार्द्धापक्रान्त्या प्रायश्चित्तं द्रष्टव्यम् । नवरं लघुमासादारब्धं चतुर्गुरुके तिष्ठति, एतदोघतः प्रायश्चित्तम् । अथवैतान्येव भिक्षु वृषभा ऽभिषेकाऽऽचार्याणां तपःकालविशेषितानि भवन्ति । तथाहि पूर्वोक्तं सर्वमपि प्रायश्चित्तं भिक्षोस्तपसा कालेन च लघुकम्, वृषभस्य कालगुरु तपोलघु, अभिषेकस्य तपोगुरु काललघु, आचार्यस्य तपसा कालेन च गुरुकम्। अत्र चाभिषेकपदं गाथायामनुक्तमपि “तन्मध्यपतितस्तद्रहणेन गृह्यते" इति न्यायात् प्रतिपत्तव्यम् । एष द्वितीय आदेशः || [ भा. २४०५] अहवा भिक्खुरसेयं, वसभे लहुगाइ ठाइ छल्लहुए । अभिसे गुरुगादी, छग्गुरु लहु छेदो आयरिए । वृ- अथवा यदेतत् प्राश्चित्तमुक्तं तद् भिक्षोर्द्रष्टव्यम् । वृषभस्य तु मासलघुकादारब्धं षड्लघुके तिष्ठति, तत्रासम्पातिमे यथालन्द- पौरुषी-समधिकपौरुषीषु ध्य-दृष्टयोर्मासलघुकादारब्धं चतुर्गुरुके तिष्ठति । सम्पातिमे एतेष्वेव स्थानेषु मासगुरुकादारब्धं षड्लघुके पर्यवस्यति । 'अभिषेकस्य' उपाध्यायस्यासम्पातिमे मासगुरुकादारब्धं षड्लघुके तिष्ठति, सम्पातिमे चतुर्लघुकादारब्धं षड्गुरुके तिष्ठति । आचार्यस्य चतुर्लघुकादारब्धमसम्पातिमे षड्गुरुके सम्पातिमे चतुर्गुरुकादारब्धं छेदे निष्ठामुपगच्छति । एष तृतीय आदेशः । अथ चतुर्थमादेशमाह [भा. २४०६] अहवा पंच संजईण समणाण चेव पंचण्हं । पनगादी आरद्धं, नेयव्वं जाव चरिमपदं ॥ कृ- अथवा क्षुल्लिकादिभेदात् पञ्चानां संयतीनां श्रमणानां चैव पञ्चानां पञ्चकादेरारब्धं प्रायश्चित्तं तावद् नेतव्यं यावत् 'चरमपदं' पाराञ्चिकम् । एतदेव सविशेषमाह [भा. २४०७ ] संजइ संजय तह संपऽसंप अहलंद पोरिसी अहिया । चिट्ठाई अट्ठेि, दिट्ठे पनगाइ जा चरिमं ॥ वृ- संयत्यः क्षुल्लिका स्थविरा भिक्षुणी अभिषेका प्रवर्त्तिनी चेति पञ्चविधाः संयता अपि क्षुल्लक- स्थविर- भिक्षुको-पाध्याया ऽऽचार्यभेदात् पञ्चधा, “संपऽसंपत्ति सूचकत्वात् सूत्रस्य सम्पातिममसम्पातिमं वा दकतीरम्, यथालन्द- पौरुषी- अधिकपौरुषीलक्षणं कालत्रयम्, स्थाननिषदनादीनि च दश पदानि, अदृष्टे दृष्टे चेति पदद्वयम् । एतेषु पदेषु पञ्चकादिकं चरमं प्रायश्चित्तं यावद् नेतव्यम् ॥ कियन्ति पुनः प्रायश्चित्तस्थानानि भवन्ति ? इति दर्शयति [भा.२४०८] पण दस पनरस वीसा, पनवीसा मास चउर छ च्चैव । लहु गुरुगा सव्वेते, छेदो मूलं दुगं चेव ॥ वृ- पञ्चरात्रिन्दिवानि दशरात्रिन्दिवानि पञ्चदशरात्रिन्दिवानि विंशतिरात्रिन्दिवानि पञ्चविंशतिरात्रिन्दिवानि मासिकं चत्वारो मासाः षण्मासाश्च, एतानि सर्वाणि लघुकानि गुरुकाणि च, तद्यथा-लघुपञ्चरात्रिन्दिवानि गुरुपञ्चरात्रिन्दिवानि इत्यादि, एतानि षोडश सञ्जातानि, छेदो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy