________________
बृहत्कल्प-छेदसूत्रम् -१गतं निरुक्तद्वारम् । अधुना विधिद्वारावसरः, तत्र प्रथमतो विधेरेकाथिकान्याह[भा.२०८] अनुपुव्वी परिवाडी, कमो य नायो ठिई यमज्जाया।
होइ विहाणं च तहा, विहीए एगट्ठिया हुंति ।। वृ-आनुपूर्वी परिपाटी क्रमो न्यायः स्थिति मर्यादा विधानमित्येतानि विधेरेकाथिकानि भवन्ति ।। तत्र येन विधिनाऽनुयोगः कर्त्तव्यस्तमाह[भा.२०९]सुत्तत्थो खलु पढमो, बिइओ निज्जुत्तिमीसिओ भणिओ ।
तइओ य निरवसेसो, एस विही भणिय अनुयोगे॥ वृ-प्रथमस्य श्रोतुः प्रथमं तावत् सूत्रार्थ कथनीयः । यथा-"नो कप्पइ निग्गंथाण वा निग्गंधीणवाआमे तालपलंबे अभिन्ने पडिगाहित्तए" इति सूत्रम्।अस्यार्थ-नइति प्रतिषेधे, 'न कल्पते' नवर्तते इत्यर्थः, नैषां ग्रन्थो विद्यत इति निर्ग्रन्थाः तेषाम्, वा विभाषायाम्, निर्ग्रन्थीनां वा, 'आमम्' अपक्वम्, तलो वृक्षः, तले भवं तालं फलमित्यर्थः, प्रलम्ब-मूलम्, तदपि तस्यैव तलवृक्षस्य प्रतिपत्तव्यम्, ततः समाहारः, 'अभिन्नम्' अव्यपगतजीवं प्रतिग्रहीतुमिति । एवं तावत् कथयितव्यं यावदध्ययनपरिसम्पाति । ततो द्वितीयस्या परिपाट्यां नियुक्तिमिश्रितः' पीठिकया सूत्रस्पर्शिकनियुक्त्या च समन्वितः, सोऽपियावदध्ययनपरिसमाप्तिस्तावत्कथनीयः। 'तृतीयः तृतीयस्यांपरिपाट्यामनुयोगोनिरवशेषोवक्तव्यः, पद-पदार्थ-चालना-प्रत्यवस्थानादिभि सप्रपञ्चं समस्तं कथयितव्यमिति भावः । एष विधिरनुयोगे ग्रहण-धारणादिसमर्थान् शिष्यान् प्रति वेदितव्यः ।। मन्दमतीन प्रति प्रकारान्तरेणाऽनुयोगविधिमाह[भा.२१०] मूयं हुंकारं वा, बाढक्कार पडिपुच्छ वीमंसा ।
तत्तो पसंगपारायणंच परिनिट्ठ सत्तमए॥ वृ-प्रथमतो मूकं शृणुयात्, किमुक्तं भवति ? प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत । ततो द्वितीये श्रवणे हुङ्कारं दद्यात्, वन्दनं कुर्यादित्यर्थः । तृतीये 'बाढकारं कुर्यात्' 'बाढमेवमेतत्, नान्यथा' इति प्रशंसेदित्यर्थः । चतुर्थे गृहीतपूर्वा-ऽपरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात्, यथा 'कथमेतद् ?' इति । पञ्चमे गृहीतपूर्वा-ऽपरसत्राभिप्रायो मनाक् तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चाऽस्य भवति । ततः सप्तमे परिनिष्ठा, गुरुवदनुभाषत इत्यर्थः। यत एवं मन्दमेघसां श्रवणपरिपाट्या विवक्षिताध्ययनार्थावगमः ततस्तान् प्रति सप्तवारान् अनुयोगो यथाप्रतिपत्ति कर्तव्यः ।। अत्र परावकाशमाह[भा.२११] चोएइ राग-दोसा, समत्थ परिणामगे परूवणया।
एएसिं नाणत्तं, वुच्छामि अहानुपुब्बीए॥ वृ-शिष्यः ‘नो (घो] दयति' प्रश्नयति-'समर्थे'-ग्रहण-धारणासमर्थे तथा परिणामके, उपलक्षणमेतत्, ग्रहण-धारणाऽसमर्थेऽतिपरिणामकेऽपरिणामके चयाप्ररूपणा तया युष्माकं रागद्वेषौ प्रसजतः । तथाहि-तिसृभिः परिपाटीभिरेकान् ग्राहयतो रागः, अपरान् सप्तभिः परिपाटीभिर्दाहयतोद्वेषः; तथा परिणामकान्ग्राहयतोरागः, इतरानतिपरिणामका-ऽपरिणामकान् परिहरतश्च द्वेषः । एतेषां' ग्रहण-धारणासमर्था-ऽसमर्थानांपरिणामकादीनां च यथाऽऽनुपूर्व्या क्रमेण नानात्वं वक्ष्ये ।। तत्र प्रतिज्ञातमेव निर्वाहयन् प्रथमतो ग्रहण-धारणासमर्था-ऽसमर्थान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org