________________
पीठिका - [भा. २०३]
कृ-यथा विषमदेहाअपि तीर्थकृतो धृति-संहनने केवलभावेच तुल्याः तथा प्ररूपमायामपि तुल्याः । यतः 'चरमेऽपि' भगवति वर्धमानस्वामिनि तदेव केवलज्ञानं त एव च प्रज्ञापनीया भावा ये ऋषभादीनाम्, ततः कथं न तुल्या प्ररूपणा? |यस्तु विशेषस्तमुपदर्शयति[भा.२०४] नायज्झयणाहरणा, इसिभासियमो पइनगसुया य।
एए हुंति अनियया, निययं पुण सेसमुस्सन्नं ।। वृ- ज्ञाताध्ययनेषु यानि आहरणानि-दृष्टान्ताः ते हि कदाचित्त एव भवेयुर्ये ऋषभादिभिरुपन्यस्ताः, केचिदन्यथा वा ये प्रत्युत्पन्ना इति । तथा यानि ऋषिभाषितानि प्रकीर्णकश्रुतानि च एतानि अनियतानि' कदाचिद्भवन्ति कदाचिन भवन्ति; यानि च भवन्ति तान्यपि कदाचित् तथार्थयुक्तानि कदाचिद् अन्यथार्थोपेतानि । शेषं पुन 'उत्सन्नं' प्रायेण नियतम् ।। आह कः पुनरत्र दृष्टान्तो यथा वर्धमानस्वाम्यपि तथैवाख्याति ? इति दृष्टान्तमाह[भा.२०५] जह सव्वजनवएसुं, एक्कं चिय सगडवत्तिणिपमाणं ।
विसमाणि यवत्थूणी, सगडाईणं तह निरुत्ता ।। वृ- यथा शकटादीनाम्, आदिशब्दाद्, गन्त्र्यादिपरिग्रहः, यद्यपि 'विषमाणि वस्तूनि' केषाञ्चिन्महान्ति केषाञ्चित् क्षुल्लकानि तथापि सर्वेष्वपिजनपदेषु एकमेवतदा तदा शकटवर्त्तिन्याः प्रमाणम्, सर्वत्राक्षाणां चतुर्हस्तप्रमाणत्वात् तथा निरुक्तानि, उपलक्षणमेतत्, निक्षेपादीनि च प्ररूपणामधिकृत्य तुल्यानि । आह नन्ववश्यंपूर्वरथानां सम्प्रतिरथनां च विस्तरस्यास्ति विशेषः, एवं महाप्रमाणानांपूर्वमनुष्याणामल्पप्रमाणानामधुनातनमनुष्याणांचविशेषो भवति, तत आह[भा.२०६] जइ विय वत्थू हीना, पुब्विल्लरहेहिं संपयरहाणं ।
तह वि जुगम्मि जुगम्मी, सहत्यचउहत्थगा अक्खा ।। वृ-यद्यपिपूर्वतनरथेभ्यः साम्प्रतरथानांवस्तूनि हीनानितथापियुगेयुगे सर्वत्राऽऽत्महस्तेन चतुर्हस्तका अक्षाः, ततः सर्वेष्वपि जनपदेष्वेकं शकटवर्त्तिन्याः प्रमाणम् । तथा यद्यपि पूर्वकाले महाप्रमाणा मनुष्याः सम्प्रतिकाले त्वल्पप्रमाणाः, तथापि सर्वेषां तदेव केवलज्ञानं तदेव संहननं तएवच प्रज्ञापनीया भावा इतितुल्याप्ररूपणा ।। ननु पञ्चधनुःशतिकप्रभृतीनां महान्ति इन्द्रियाणि, तेन तेषांप्रभूततरक्षेत्रे विषयोपलम्भविशेषः तथा केवलोपलम्भविशेषोऽपि स्याद् ? अत आह[भा.२०७] पुरिमेहि जइ वि हीना, इंदियमाना उ संपयनराणं ।
तह विय सिं उवलद्धी, खित्तविभागेण तुल्ला उ॥ वृ. 'पूर्वेभ्यः' पूर्वकालभाविभ्यः पुरुषेभ्यो यद्यपि ‘साम्प्रतनराणां' सम्प्रतिमनुष्याणामिन्द्रियमानानि हीनानि तथाप्यात्माङ्गुलमधिकृत्य क्षेत्रविभागेनैषां तुल्या उपलब्धि । तथाहिश्रोत्रादीन्द्रियप्रमाणं श्रोत्रादीन्द्रियविषयप्रमाणं चाऽऽत्माङ्गुलतः, तच्च यथा पूर्वमनुष्याणां द्वादशयोजनादिकं क्षेत्रप्रमाणं तथाऽधुनातनमनुष्याणामपि । तथा चोक्तम्- सोइंदियस्स णं भंते! केवइए विसएपन्नत्ते? गोयमा! जहन्नेणंअंगुलस्सअसंखिज्जइभागाओ उक्कोसेणं बारसहिंतो जोयणेहितो अच्छिन्नेपोग्गले पुढेपविट्ठातिसदातिसुणेति इत्यादिएवंहीना-ऽधिकशरीरप्रमाणत्वेऽपि केवलेनोपलम्भस्तुल्य एवेति न कश्चिद्दोषः । अन्यच्च शरीराश्रितानीन्द्रियाणि, ततः शरीरप्रमाणविषये तदाश्रितानामिन्द्रियाणामपि प्रमाणविशेषभावात् तद्विषयक्षेत्रोपलम्भविशेषः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org