________________
५६
बृहत्कल्प-छेदसूत्रम् - १
वृ तथा चाह-य एकस्मिन् द्वि-त्रादीनर्थान् वक्ति, यथाऽश्नातीत्यश्वः, यदि वाऽऽशु धावति न च श्राम्यतीत्यश्चः, एष विभाषकः, तस्य भाषणं विभाषा । तृतीयशिष्यसदृशो व्यक्तिकरः । उक्तञ्च- पढमसरिच्छो भासगो, बिइय विभासो य तइय वित्तिकरो । इति । सम्प्रति मध्ष्टान्तोपेतं वार्त्तिकद्वारमाह ।
[भा.१९९] सामाइयस्स अत्यं, पुव्वधर समत्तमो विभासेइ । चउरो खलु मंखसुया, वत्तीकरणम्मि आरणा ।।
वृ- यः सामायिकस्यार्थं 'पूर्वधरः' चतुर्दशपूर्वधारी सन् समस्तम् 'ओ' इति पादपूरणे विभाषते, यतः परं किमपि न वक्तव्यमस्ति स व्यक्तिकरो वार्त्तिककर इत्येकार्थौ । तस्मिंश्च व्यक्तिकरणे चत्वारः खलु मङ्खसुता आहरणानि ॥ तान्येवाह
[ भा. २०० ] फलगिक्को गाहाहिं, बिइओ तइओ य वाइयत्थेणं । तित्रि वि अकुटुंबभरा, तिगजोग चउत्थओ मरइ ॥
वृ- चत्वारो मङ्काः । तेषामेकः फलकं गृहीत्वा हिण्डते, न गाथा उच्चरति, नापि वाचा कमप्यर्थं भाषते स न किञ्चिल्लभते । द्वितीयो न फलकं गृह्णाति, केवलं गाथाः पठन् हिण्डते सोऽपि न किञ्चिल्लमते । तृतीयो न फलकं गृह्णाति, नापि गाथा उच्चरति, परं वाचा कमप्यर्थं भाषते सोऽपि न किञ्चिल्लभते । चतुर्थस्तु फलकं गृहीत्वा गाथाः पठन् तासामर्थं च भाषमाणो हिण्डते, सर्वत्र लभते । आद्यास्त्रयोऽकुटुम्बभराः, चतुर्थ 'त्रिकयोगे' त्रिकयोगसम्प्रयुक्तः कुटुम्बभरः । एष दृष्टान्तः, अयमर्थोपनयः व्यक्तावपि चत्वारो भङ्गाः- एकस्य सूत्रमायाति नार्थ, द्वितीयस्यार्थो न सूत्रम्, तृतीयस्य सूत्रमप्यायाति अर्थोऽपि चतुर्थस्य न सूत्रं नाऽप्यर्थः । अत्र द्वावाद्यौ चतुर्थश्च आद्यत्रिमङ्खपुरुषवन्न मोक्ष लक्षणस्वकार्यप्रसाधकाः, तृतीयस्तु चतुर्थमङ्कवदात्मनो मोक्षप्रसाधकः ।। आह सम्प्रति कीदृशो व्यक्तिकरः ? इत्यत आह
[भा. २०१] जे जम्मि जुगे पवरा, तेसि सगासम्मि जेन उग्गहियं । परिवाडीण पमाणं, वुच्छं वत्तीकरो स खलु ॥
वृ- ये यस्मिन् युगे 'प्रवराः' प्रधानाः तेषां 'सकाशे' समीपे 'येन' ग्रहण-धारणासमर्थेन अवगृहीतम्, कतिभि परिपाटीभिः ? इत्यत आह-परिपाटीनां परिमाणमग्रे वक्ष्ये, स खलु तदा व्यक्तिकरः ॥ अत्र शिष्यः प्राह
[भा.२०२] निक्खेचा य निरुत्ताणि जाय कहणा भवे पगासस्स । जह रिसभाईयाऽऽहंसु किमेवं वद्धमाणो वि ।।
वृ-ये निक्षेपाः चतुष्क-सप्तकादयः, यानि च निरुक्तानि सूत्रा - ऽर्थयोरनन्तरमुक्तानि, यो च चतुर्भिरनुयोगद्वारैः 'प्रकाशस्य' अर्थस्य कथना, चशब्दादेकार्थिकानामपि या च कथना, एतानि यथा 'ऋषभादयः' त्रयोविंशतिस्थीर्थकरा आख्यातवन्तः तथा किमेवं भगवान् वर्धमानस्वाम्यप्याख्याति ? किं वाऽन्यथा ? इति उच्यते - तथैव ।। ननु ते उच्चतराः, भगवान् वर्धमानस्वामी पुनः सप्तरनिप्रमाणः, ततः कथं तस्य तथैवाख्यानम् ? अत आह[ भा. २०३ ] धिय संघयणे तुल्ला, केवलभावे य विसभदेहा वि । केवलनाणं तं चिय, पन्नवणिज्जा य चरमे वि ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org