________________
पीठिका - [भा. १९४]
इति चेद् उच्यते - सूत्रस्यार्थेन । आधिक्येन योगस्य किं फलम् ? इति चेद् अत आह-अर्थेन सममाधिक्येन नियुक्तं सूत्रं 'चरणं' चारित्रं प्रसूते, यतः संसाराद् मोक्षः । अत्रैव प्रसवने दृष्टान्तमाह[ भा. १९५ ] चच्छनियोगे खीरं, अत्थनियोगेण चरणमेवं तु । पत्तग दंडियमुभयं दंडियसरिसो तहिं अत्थो ।
वृ-यथा गौर्वत्सेन नियुक्ता सती क्षीरं प्रसूते, एवमर्थेन समं नियुक्तं सूत्रं चरणं प्रसूते । यदि पुनरेकं केवलं सूत्रं स्यात् नार्थस्तेन सङ्ग हीतो भवेत् ततश्चरणप्रसवस्याभावः, यथा वत्सनियोगाभावे गोः क्षीरप्रसवस्याभावः । अर्थोऽपि केवलः सूत्रविहीनो न कार्यसाधकः, यथा केवलो वत्सः । अत्रैव दृष्टान्तान्तरमाह "पत्तग दंडिय उभयं' 'ति ' पत्रकं' लेखः 'दण्डिका' लेखस्योपरि मुद्रानियोगः 'उभयं' पत्रकं दण्डिका च । इयमत्र भावना
तिन्नि पुरिसा रायाणमोलग्गंति । राया तुट्ठो । कम्मिइ नगरे पसाओ कओ । तत्थ एगेण पुरिसेन जे तम्मि नयरे रायपुरिसा तेसिं जोग्गं पत्तयमाणीयं परं मुद्दारहियं । बिइएण दंडिया चेव केवला । तइएणोभयं । तत्थ जेण मुद्दारहियं पत्तयमाणीयं सो रायपुरिसेहिं भणिओ-नत्थि पत्तगस्सोपरि मुद्दाविणिओग त्ति न मन्नेमो । बिइओ भणिओ-अत्थि इयं मुद्दा, परं को रन्ना पसाओ कओ ? को वा न कउ ? त्ति न जाणामो त्ति, तम्हा न देमो त्ति । तइएणोभयं दरिसियं । सव्वं जहत्थियं लद्धं । एवं ध्ष्टान्तः ॥ अयमर्थोपनयः-पत्रसद्दशं सूत्रम्, दण्डिकास ६शोऽर्थः । यथा पत्रकं केवलं दण्डिका वा न कार्यस्य प्रसाधिका, उभयं तु प्रसाधकम्, एवं सूत्रमर्थश्च पृथग् न चरणप्रसाधकः, उभयं तु प्रसाधकम् ।। सम्प्रति प्रतिश्रुतदृष्टान्तोपेतं भाषाद्वारमाह[भा. १९६ ] पडिसद्दगस्स सरिसं, जो भासइ अत्थमेगु सुत्तस्स । सामइय बाल पंडिय, साहु जईमाइया भासा ।।
वृ-यथा गिरिकुहर - कन्दरादिषु यादृशः शब्दः क्रियते तादृशः प्रतिशब्द उत्तिष्ठति, एवं यो यादृशं सूत्रं तस्य तादृशमर्थमेकं भाषते तस्य तद् भाषणं भाषा । यथा समभावः सामायिकम्, द्वाभ्यां बुभुक्षया तृषा वाऽऽगलितो बालः साधयति मोक्षमार्गमिति साधुः, यतते सर्वात्मना संयमानुष्ठानेष्विति यति, आदिशब्दात् तपतीति तपन इत्यादिपरिग्रहः ॥ साम्प्रतमभ्रपटलध्ष्टान्तसमन्वितं विभाषाद्वारमाह[भा. १९७]
एक्केणं एक्कदलं, तहिं कथं बिईएण बहुतरगा । तइएण छाइयंतं, तिल्लं - बिलमादुवाएहिं ॥
५५
वृ- एकेन च्छत्रकारेण त्रयाणामात्मीयशिष्याणां चत्राच्छादनार्थमभ्रपटलानि दत्तानि 'छत्राण्याच्छादयत' । तत्रैकेन शिष्येण एकमभ्रपटलदलं तत्र च्छत्रे कृतम्, द्वितीयेनाऽऽत्मीयच्छत्रे बहुतराणि द्वि-त्रि- चतुःप्रभृतीनि अभ्रपटलानि लापितानि तृतीयेन च बहून्यभ्रपटलानि दत्त्वा तैला -ऽम्लादिभिरुपायैस्तच्छत्रं सर्वात्मनाऽऽच्छादितम् । किमुक्तं भवति ? - तान्यभ्रपटलदलानि लापितानि तैला -ऽम्लादिभिस्तीमित्वा सर्वथा निर्भेदं कृतम् । एष दृष्टान्तः, अयमर्थोपनयःप्रथमशिष्यसदृशो भाषकः, द्वितीयशिष्यसदृशो विभाषकः ॥
[ भा. १९८] एगपए उ दुगाई, जो अत्थे भणइ सा विभासा उ । असइ य आसु य धावइ, न य सम्मइ तेन आसो उ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org