________________
५४
बृहत्कल्प-छेदसूत्रम् - १
'अनुना' स्तोकेन योगः अनुयोगः । तथा चाह- अनु इति पश्चाद्भावे स्तोके च । यस्मात् पश्चात् 'अभिहितं' कृतं सूत्रं स्तोकं च तेन अउ इति भण्यते । अर्थ पुनरननुः, पूर्वमुक्तत्वात्, बादरश्च, बहुत्वात् ।। एवमाचार्येणोक्ते शिष्यः प्राह
[ भा. १९१] पुव्वं सुतं पच्छा, य पगासो लोइया वि इच्छंति ! पेलासरिसे सुत्ते, अत्थपया हुंति बहुया वि ॥
वृ- ननु पूर्वं सूत्रं त्युत्पत्तेः, सूत्राभावे तु स
पश्चात् 'प्रकाशः' अर्थ, 'तान् तान् भावान् प्रकाशयतीति प्रकाशः' इति कस्य स्यात् ? ; अपि च लौकिका अप्येवमेवेच्छन्ति, तथा चोक्तं तैरेवपूर्वं सूत्रं ततो वृत्तिर्वृत्तेरपि च वार्त्तिकम् । सूत्र - वार्त्तिकयोर्मध्ये, ततो भाष्यं प्रवर्त्तते ॥
ततो यद्वदथ यूयं 'पूर्वमर्थ पश्चात्सूत्रम्' इति तन्न घटां प्राञ्चति । यदपि च ब्रूथ 'सूत्रमनुः, अर्थो बादरः' इति तदपि न सम्यक्, यत एकस्यां पेडायां बहूनि वस्त्राणि मान्ति तत्र पेडाया एव बादरत्वं युज्यते, तद्वशाद् बहूनि वस्ताणि मान्ति स्मः एवमत्रापि 'पडास शे' पेडास्थानीये सूत्रे बहून्यर्थपदानि वर्त्तन्ते, ततः सूत्रमेव बादरीभवितुमर्हति नार्थ इति ।।
न च महत्त्वमेकान्तेनार्थस्य, कस्मात् ? इत्याह
[भा. १९२] इक्कं वा अत्थपयं, सुत्ता बहुगा वि संपयंसंति । उक्खित्त नायमाइसु, अयमवि तम्ह अनेगंतो ॥
वृ- एकमर्थपदं बहूनि सूत्राणि सम्प्रदर्शयन्ति, यथा उत्क्षिप्तज्ञाते 'अनुकम्पा कर्तव्या' इत्यर्थो बहुभिः सूत्रैर्वर्णितः । आदिशब्दात् सङ्घाटादिषु ज्ञातेषु 'न वहितोराहारयितव्यम्' इत्यादिपरिग्रहः । तस्मादयमनेकान्तो यत् 'अर्थो महान्' इति ।। आचार्यप्राह-यत्त्वयोक्तं 'पूर्वं सूत्रं पश्चादर्थः' इति तन्न भवति, कथम् ? इत्याह
[ भा. १९३] अत्यं भासइ अरिहा, तमेव सुत्तीकरेंति गणधारी । अत्यं च विना सुत्तं, अनिस्सियं केरिसं होज्जा ।।
वृ-अर्थं भाषतेऽर्हन् । 'तमेव' अर्हद्भाषितमर्थं सूत्रीकुर्वन्ति गणधारिणः । अर्थं च विना सूत्रम् 'अनिश्रितम्' अर्थनिश्रारहितं कीशं स्यात् ? असम्बद्धं स्यात्, “दशदाडिमे” त्यादिवाक्यवदिति भावः । अपि च लौकिका अपि शास्तारः प्रथमतोऽर्थं दृष्ट्वा सूत्रं कुर्वन्ति, अर्थमन्तरेण सूत्रस्यानिष्पत्तेः । यदप्युक्तं 'पेडावद्वादरं सूत्रम्, अर्थोऽणुः' इति तदप्यश्लीलम्, यतस्तस्या एव पेडाया एकं वस्त्रमादाय तेनानेकाः पेडा बध्यन्ते, तथैकस्मादर्थाद्वहूनि सूत्राण्यर्वाक् तेनैव बध्यन्ते । एवं च वस्त्रस्थानीयस्यार्थस्य महत्त्वम्, पेडास्थानीयस्य तु सूत्रस्यानुत्वमेव । यदप्युक्तं 'नच महत्त्वमेकान्तेनार्थस्य' इत्यादि तदप्यपरिभावितपरिभाषितम्, यत उत्क्षिप्तज्ञातादिषु सत्त्वानुकम्पादिकोऽर्थस्तावन्मात्रस्य सूत्रस्य, अशेष्य तु शेषोऽर्थः ॥
उक्तोऽनुयोगः, अधुना नियोगमाह
[भा. १९४] अहिगो जोगी निजोगो, जहाऽइदाहो भवे निदाहो त्ति । अत्थनिउत्तं सुत्तं, पसवइ चरणं जओ मुक्खो ॥
- 'नि' आधिक्ये, अधिको योगोनियोगः, यथाऽतिदाहोनिदाहः । कस्य केन सहाधिक्यम् ?
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International