________________
५३
पीठिका - [भा. १८५]
____ ५३ ज्ञानादिकमाराधयति अजीवस्य घटादेर्वर्णादिकं सा नोआगमतो भाववाक् ।।
साम्प्रतमुपदेश-प्रज्ञापना-ऽऽगमानाह[भा.१८६] दव्वाण दव्वभूओ, दव्वट्ठाए व विजमाईया ।
अह दव्वे उवएसो, पन्नवणा आगमे चेव ।। वृ-द्रव्याणां द्रव्यभूतो द्रव्यार्थं वा वैद्यादय उपदेशादि कुर्वन्ति एष द्रव्यतो नोआगमतो व्यतिरिक्त उपदेशः प्रज्ञापना आगमश्च । इयमत्र भावना-यद्वैद्य आतुरस्यौषधद्रव्याणामुपदेशं करोति, यंवा साधुरनुपयुक्त उपदेशं कथयति, अथवा यद्वैद्य 'एष मम द्रव्यं दास्यति' इति द्रव्यनिमित्तमौषधद्रव्याणामुपदेशं करोति एष नोआगमतो व्यतिरिक्तो द्रव्योपदेशः । तथा यः कश्चिद्रव्याणि प्रज्ञापयति, भावं वा प्रज्ञापयन् अनुपयुक्तः, यदि वा 'एष मम किञ्चिद्दास्यति' इति द्रव्यनिमित्तं प्रज्ञापनां द्रव्यादीनां करोत एषा नोआगमतो व्यतिरिक्ता द्रव्यप्रज्ञापना । तथा यद्धिरण्यादीनामागमं सङ्गहं करोति, यो वा साधुरनुपयुक्त आगमं पठति, यं वाऽऽगमं वैद्यो वृत्तिनिमित्तंपठतिस नोआगमतो व्यतिरिक्तो द्रव्यागमः। तथा य उपयुक्त उपदिशतिप्रज्ञापयति पठति वाऽऽगमम् एतेनोआगमतो भावत पदेश-प्रज्ञापनाऽऽगमाः।।साम्प्रतमर्थैकार्थिकान्याह[भा.१८७) अनुयोगो य नियोगो, भास विभासा य वत्तियं चेव।
एए अनुओगस्स उ, नामा एगट्ठिया पंच ॥ वृ-अनुयोगो नियोगो भाषा विभाषा वार्तिकं च, एतानि पञ्चानुयोगस्यैकार्थिकानि । तत्रानुकूलः सूत्रस्यार्थेन योगोऽनुयोगः । निश्चितो योगो नियोगः । अर्थस्य भाषणं भाषा । विविधप्रकारैर्भाषणं विभाषा । वृत्तौ भवं वार्तिकम्, यदेकस्मिन्पदे यदर्थापन्नं तस्य सर्वस्यापि भाषणम्।।.
उक्तान्यैकार्थिकानि, सम्प्रति निरुक्तद्वारमाह[भा.१८८] निच्छियमुत्त निरुत्तं, तं पुन सुत्ते य होइ अत्थे य ।
सुत्ते उवरिं वुच्छं, अत्यनिरुत्तं इमं तत्थ ॥ वृ-निश्चितमुक्तंनिरुक्तम् । तच्च द्विधा-सूत्रस्यार्थस्य च। तत्रसूत्रस्योपरि “नेरुत्तियाणि तस्स इत्यादिना ग्रन्थेन वक्ष्ये अर्थनिरुक्तंपुनः 'इदं वक्ष्यमाणम्॥तदेवविवक्षुप्रतमतस्तद्विषयान् दृष्टान्तान् वक्तव्यान् सूचयति[भा.१८९] अनु बायरे य उंडिय, पडिंसुया चेव अब्भपडले य।
वत्तिय चउक्कभंगो, निरुत्तादी वत्तणी व जहा ॥ कृ-अनुयोगेअनुत्वेवादरत्वेच दृष्टान्तोवक्तव्यः ।नियोगे उण्डिका उण्डिकापत्रकदृष्टान्तः, उण्डिका-मुद्रा । भाषायां प्रतिश्रुतहष्टान्तः । विभाषायामभ्रपटलः । वार्तिके चत्वारो भङ्गाः, तत्र मङ्खष्टान्तः । तथा निरुक्तादीनि यथा वर्द्धमानस्वाम्याख्यातवान् तथा किमृषभादयोऽपि ? उतान्यथा ? उच्यते-तथेति, केवलज्ञानस्य तुल्यत्वात्; यथा 'वर्तनी' मार्ग सा सर्वजनपदेषु प्रमाणत एकैव भवति ।। तत्र प्रथममनुयोगद्वारमाह[भा.१९०] अनुना जोगो अनुजोगो, अनुपच्छाभावओ य थेवे य ।
जम्हा पच्छाऽभिहियं, सुत्तं थोवं च तेनानू ॥ वृ-इह अनुयोग इति वा शब्दसंस्कारः। तत्र 'अनुना' पश्चाद्भूतेन योगोऽनुयोगः, अथवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org