________________
पीठिका- [भा. २११] प्रति राग-द्वेषावाह[भा.२१२] मच्छरया अविमुत्ती, पूयासक्कार गच्छइय खिनो।
दोसो गहणसमत्थे, इयरे रागो उ वुच्छेयो॥ वृ-ग्रहण-धारणासमर्थं शिष्यं तिसृभिः परिपाटीभिग्रहियत एतावन्ति कारणानि स्युःएष बहुशिक्षितो मम सपनो भविष्यति, ततो मत्सरतया तिसृभिः परिपाटीभिस्तस्य ग्रहणम्, अन्यथा एकया परिपाट्या तं ग्राहयेत् । 'अविमुक्ति' इति एष सूत्रा-ऽर्थेषु समाप्तेषु मां मोक्ष्यते, इतरथातुशिष्यपरिवारत्वेन वर्तत इत्यविमुक्तिकारणम्। अथवा गृहीतसूत्राऽर्थस्यास्य पूजासत्कारो भविष्यति। खिन्नोवा परिश्रान्तोऽन्यं गणं गमिष्यति। “वोच्छेय(यो)"त्तिमद्वसतौचानुयोगस्य व्यवच्छेदो भविष्यति, अन्यस्य तथाविधशिष्यस्याभावात्।एवं कारणानि चानुयोगस्य व्यवच्छेदो भविष्यति, अन्यस्य तथाविधशिष्यस्याभावात् । एवं कारणानि सम्भाव्य ग्रहण-धारणासमर्थे तिसृभिः परिपाटीभिरनुयोगं वदतो द्वेषः । 'इतरस्मिन्' जडे रागः, यथातदवबोधमनुयोगस्य प्रवर्तनात् ।। अत्राऽऽचार्य प्राह[भा.२१३] निरवयवो न हु सक्को, सयं पगासो उ संपयंसेउं।
कुंभजले विहु तुरिउज्झियम्मि नहु तिम्मए लिटू ।। वृ-'न हु' नैव सूत्रस्य प्रकाशः' अर्थ 'सकृद्' एकया परिपाट्या 'निरवयवः' समस्तः सम्प्रदर्शयितुं शक्यः, तस्य ग्रहण-धारणासमर्थस्यापि तथाऽवधारयितुमशक्यत्वात् । एतदेव प्रतिवस्तूपमया द्रढयति-नहि कुम्भजलेऽपि त्वरितमुज्झिते लेष्टुसर्वात्मना तिम्यते, एवमेषोऽपि, ग्रहण-धारणासमर्थोऽपि नैकया परिपाट्याऽवधारयितुमीश इति तिसृभि परिपाटीभिरनुयोगकथनमित्यदोषः ।। साम्प्रतमतिपरिणामका-ऽपरिणामकान् परिहरतो द्वेषाभावमाह[भा.२१४] सुत्त-ऽत्थे कहयंतो, पारोक्खी सिस्समावमुवलब्भ।
अनुकंपाए अपत्ते, नितहइ मा विणस्सिज्जा । वृ-'परोक्षी' परोक्षजानोपेतः शिष्येभ्यः सूत्रा-ऽौँ कथयन् विनया-ऽविनयकरणादिना तेषांशिष्याणां भावम्-अभिप्रायमुपलभ्य अपात्राणि' अपात्रभूता शिष्यान्अनुकम्पया निर्मूहयति' अपवदति-न तेभ्यः सूत्राऽौँ कथयति, श्रुताशातनादिना मा विनश्येयुरिति कृत्वा ।। अत्रैवार्थे दृष्टान्तमा(न्ताना)ह[भा.२१५] दारुं धाउं वाही, बीए कंकडुय लक्खणे सुमिणे।
एगतेण अजोग्ग, एवमाई उदाहरणा ।। वृ-'एकान्तेनायोग्ये' अपरिणामकेऽतिपरणामकेच दारुधातुः व्याधि बीजानि काङ्कटको लक्षणं स्वप्न इत्येवमादीनि 'उदाहरणानि' दृष्टान्ताः । तत्र दारुष्टान्तमाह[भा.२१६] को दोसो एरंडे, जं रहदारुंन कीरए तत्तो।
को वा तिनिसे रागो, उवजुज्जइरहंगेसु ॥ वृ-'एरण्डे' एरण्डद्रुमे को द्वेषो यत् तस्मात् 'रथदारु' रथयोग्यं दारु न क्रियते?, को वा तिनिशे रागो यदुपयुज्यते स रथाङ्गेषु? ।। ___ [भा.२१७] जंपि य दारुंजोगं, जस्स उ वत्थुस्स तं पि हुन सक्का ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org