________________
७१
उद्देशक : १, मूलं-१९, [भा. २३९०] मकरादिभिः कवलीक्रियन्ते, तया “जइघुटे"त्तिअन्यतीर्थेनातीर्थेन वा साधुनिमित्तमवतीर्णाप्तिरहितेऽकाये यावतो घुण्टान् कुर्वन्ति तावन्ति चतुर्लघूनि । “तसे य"त्ति अचित्तेऽ'काये यदि द्वीन्द्रियमश्नाति ततः षड्लघुकम्, त्रीन्द्रिये षड्गुरुकम्, चतुरिन्द्रिये च्छेदः, पञ्चेन्द्रिये एकस्मिन् मूलं द्वयोरनवस्थाप्यं त्रिषु पञ्चेन्द्रियेषु पाराञ्चिकम् । “दुहओ वि''त्ति यत्राप्कायोऽपि सचित्तः द्वीन्द्रियादयश्चतत्र त्रसास्तत्र द्वाभ्याम्-अप्काय-त्रसविराधनाभ्यां निष्पन्नं प्रायश्चित्तम् । सर्वत्रापि च द्वीन्द्रियेषु षट्सु त्रीन्द्रियेषु पञ्चसु चतुरिन्द्रियेषु चतुर्यु पञ्चेन्द्रियेषु त्रिषु पाराञ्चिकम् । एते तावदारण्यकतिर्यक्समुत्था दोषा उक्ताः । अथ ग्रामेयकतिर्यक्समुत्थान् दोषानुपदर्शयति[मा.२३९१] गामेय कुच्छियाऽकुच्छिया य एक्कक्क दुट्ठऽदुट्ठा य।
दुट्ठा जह आरण्णा, दुगुंछियऽदुगुंछिया नेया ।। वृ-ते ग्रामेयकास्तिर्यञ्चो द्विविधाः- कुत्सिताः' जुगुप्सिताः 'अकुत्सिताः' अजुगुप्सिताः । जुगुप्सिता गर्दमादयः, अजुगुप्सिता गवादयः।पुनरेकैकेद्विविधाः-दुष्टा अदुष्टाश्च।तत्र येजुगुप्सिता वा दुष्टास्ते द्वयेऽपि यथा आरण्यकास्तथैव दोषानाश्रित्य ज्ञेयाः। ये अजुगुप्सिता अदुष्टास्तेष्वपि यथासम्भवं दोषा उपयुज्य वक्तव्याः ॥ये पुनर्जुगुप्सिता अदुष्टास्तेषु दोषानाह[भा.२३९२] भुत्तियरदोस कुच्छिय, पडिनीय च्छोभ गिण्हणादीया।
आरण्णमनुय-थीसुवि, ते चेव नियत्तणाईया ।।। वृ-येन साधुना महाशब्दिकाद्या जुगुप्सिता तिरश्ची गृहस्थकाले भुक्ता तस्य तां तत्र दृष्टवा स्मृति, इतरस्य कौतुकम्, एवं भुक्ता-ऽभुक्तसमुत्था दोषा भवन्ति । अथवा तासु जुगुप्सितासु तिरश्ची पार्श्ववर्तिनीषु प्रत्यनीकः कोऽपि “छोभ"त्ति अभ्याख्यानं दद्यात्-मयैष श्रमणको महाशब्दिको प्रतिसेवमानो इष्ट इति, तत्र ग्रहणा-ऽऽकर्षणप्रभृतयो दोषाः । एवं ग्रामेयकाऽऽरण्यकेषुतिर्यक्षुदोषाउपदर्शिताः । अथ मनुष्येष्वभिधीयन्ते-“आरण्ण" इत्यादि, मनुष्या द्विविधाःआरण्यका ग्रामेयकाश्च। तत्रारण्यकेषुपुरुषेषुत एव दोषाः, स्त्रीष्वप्यारण्यकासुत एव निवर्त्तनाऽन्तरायादयो दोषा ये तिर्यक्षु भणिताः । एते चान्येऽभ्यधिकाः[भा.२३९३] पायं अवाउडाओ, सबराईओ तहेव नित्थक्का ।
आरियपुरिस कुतूहल, आउभयपुलिंद आसुवहो । वृ- 'प्रायः' बाहुल्येन शबरीप्रभृतय आरण्यका अनार्यस्त्रियः ‘अपावृताः' वस्त्रविरहिताः "नित्थक्का" इति निर्लज्जाश्च भवन्ति, ततः साधुं ध्ष्ट्वा आर्योऽयं पुरुष इति कृत्वा कौतूहलेन तत्रागच्छेयुः, ताश्च दृष्ट्वा साधोरांत्योभयसमुत्था दोषा भवेयुः, तदीयपुलिन्दश्चतांसाधुसमीपायातां विलोक्य ईष्याभरण प्रेरितः साधोः पुलिन्द्या उभयस्य वा आशु-शीघ्रं वधं कुर्यात् ।। [भा.२३९४] थी-पुरिसअनायारे, खोभो सागारियं ति वा पहणे ।
गामित्थी-पुरिसेहि वि, ते च्चिय दोसा इमे अने।। वृ- अथवा स पुलिन्द्रः पुलिन्द्या सहानाचारमाचरेत् ततः स्त्रीपुरुषानाचारे दृष्टे चित्तक्षोभो भवेत्, क्षुभितेच चित्ते प्रतिगमनादयो दोषाः । यद्वा स पुलिन्द्रस्तां प्रतिसेवितुकामः ‘सागारिक' वक्ष्यमाणलक्षणमिति कृत्वा तं साधुं प्रहण्यात् । एते आरण्यकेषु स्त्री-पुरुषेषु दोषा उक्ताः । ग्रामेयकस्त्री-पुरुषेष्वपित एव दोषाः । एते चान्येऽधिका भवन्ति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org