________________
७२
बृहत्कल्प-छेदसूत्रम् -२-१/१९
[भा. २३९५ ]
चकमणं निल्लेवण, चिट्ठित्ता तम्मि चैव तूहम्मि ।
अच्छंते संकापद, मज्जण दहुं सतीकरणं ॥
वृ- चङ्क्रमणं निर्लेपनं वा तत्र गृहस्थः कर्तुकामोऽपि साधुं दृष्ट्वा कश्चिदन्यत्र गत्वा करोति, कश्चिच्च तत्रैव तीर्थे साधुसमीपे गत्वा करोति । तथा "चिट्ठित' 'त्ति कश्चिद् गृहस्थः साधुना सह गोष्ठीनिमित्तं स्थित्वा पश्चादन्यत्र गच्छति । एवमधिकरणं भवेत् । तथा दकतीरे तिष्ठति साधौ 'शङ्कापदं' वक्ष्यमाणलक्षणमगारिणां जायते । मज्जनं च विधीयमानं दृष्ट्वा स्मृतिकरणं भुक्तभोगिनाम् उपलक्षणत्वादमुक्तभोगिनां च कौतुकमुपजायते ।।
अथैनामेव नियुक्तिगाथां विवृणोति -
[मा. २३९६] अनत्य व चंकमती, आयमणऽन्नत्थ वा वि वोसिरइ । कोनाली चंकमणे, परकूलाओ वि तत्थेइ ॥
वृ- कश्चिद् 'दकतीरे चङ्क्रमणं करिष्यामि' इत्यभिप्रायेणायातः साधुं दृष्ट्वा ततः स्थानादन्यत्र चङ्क्रम्यते, वाशब्दात् कश्चिदन्यत्र चङ्क्रम्यमाणः साधुं विलोक्य तत्रागत्य चङ्क्रम्येत । एवम् 'आचमनं ' निर्लेपनं तत् कर्त्तुकामः संज्ञां वा व्युत्टुकामः साधुं दृष्ट्वा अन्यत्र गत्वा अन्यतो वा तत्रागत्य निर्लेपयति व्युत्सृजति वा । तथा कश्चिदगारो गन्तुकामः परकूले चङ्क्रम्यमाणं साधुं निरीक्ष्य "कोनालि ” त्ति गोष्ठी तां साधुना सह करिष्यामीति मत्वा तदर्थं चङ्क्रमणं कर्त्तुपरकूलादपि तत्रागच्छति । सर्वत्र साधुनिमित्तमागच्छन्नागतस्तिष्ठश्च षट् कायान् विराधयेत् ॥
" अच्छंते संकापय'त्ति पदं व्याख्यानयति
[भा. २३९७]
- मेहुणकाए, लहुगा गुरुगा उ मूल निस्संके । दगतूर कोंचवीरग, पवंस कैसादलंकारे ।
वृ- साधुं दकतीरे तिष्ठन्तं दृष्ट्वा कश्चिदगारः शङ्कां कुर्यात् किमेष उदकपानार्थं तिष्ठति ? उत मैथुने दत्तसङ्केतां काञ्चिदागच्छन्तीं प्रतीक्षते ? । तत्रोदकपानशङ्कायां चतुर्लघु, निशङ्किते चतुर्गुरु; मैथुनशङ्कायां चतुर्गुरु, निशङ्किते मूलम् । “मज्जण दहं सईकरणं" ति पदं व्याख्यायते कोऽपि मज्जनं कुर्वन् तथा कथञ्चिद् जलमास्फालयति यथा 'दकतूर्यम्' उदके मुखादितूर्याणां शब्दो भवति । यद्वा कोऽपि क्रोञ्चवीरकेण जलमाहिण्डते । क्रोञ्चवीरको नाम पेटासदृशो जलयानविशेषः । "पघंस "त्ति स्नात्वा पटवासादिभि स्वशरीरं कोऽपि प्रधर्षयति । यद्वा "केसादलंकारे "त्ति केशवस्त्र-माल्या ऽऽभरणा-ऽलङ्कारैरात्मानमलङ्करोति । एतद् मञ्जनादिकं दृष्ट्वा भुक्ता ऽभुक्तसमुत्थाः स्मृत्यादयो दोषाः । एवं पुरुषेषु भणितम् । अथ स्त्रीषु दोषान् दर्शयति
[ भा. २३९८ ] मञ्जणवहणड्डाणेसु अच्छते इत्थिमं ति गहणादी । एमेव कुच्छितेतर, इत्थि सविसेस मिहुनेसु ।।
वृ-सपरिग्रहस्त्रीणां वसन्तादिपर्वण्यन्यत्र वा या जलक्रीडा यद्वा सामान्यतो मल-दाहोपशमनार्थं स्नानं तद् मज्जनमुच्यते, तस्य जलवहनस्थानेषु स्त्रीणां सम्बन्धिषु तिष्ठन्तं साधुं दृष्टवा तदीयो ज्ञातिवर्गश्चिन्तयति अस्मदीयस्त्रीणां मज्जनादिस्थाने एष श्रमणः परिभवेन कामयमानो वा तिष्ठति, ततो दुष्टशील इति कृत्वा ग्रहणा-ऽऽकर्षणादीनि कुर्यात् । याः पुनरपरिग्रहस्त्रियस्ताः 'कुत्सिताः' रजक्यादयः 'इतराः' अकुत्सिता ब्राह्मण्यादयः तास्वप्येवमेवात्मपरोभयसमुत्थादयो दोषाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org