________________
৩০
बृहत्कल्प-छेदसूत्रम् -२-१/१९
वृ-दकतीरे तिष्ठतः साधोः अधिकरणं' वक्ष्यमाणलक्षणंबहूनां च प्राणिनामन्तरायं भवति। तथा साधोः सम्बन्धिनीनां पादरेणूनां 'छेदनकाः' सूक्ष्मावयवरूपाउड्डीय पानीये निपतेयुः, यद्वा 'छेदनं नाम' ते प्राणिनः साधुं दृष्ट्वा प्रतिनिवृत्ताः सन्तो हरितादिच्छेदनं कुर्वन्तो ब्रजन्ति । "उस्सासे"ति उच्छ्वासविमुक्ताः पुद्गला जले निपतन्ति ततो अप्कायविराधना, यदि वा तेषां प्राणिनां तृषार्तानाम् ‘उच्छ्वासः' च्यवनं भवेत्मरणमित्यर्थः । “अनहियासेय"त्ति अनधिसहाः' तृषामसहिष्णवस्तेऽतीर्थेन जलमवतरेयुः, साधु कश्चिद् 'अनधिसहः' तृषात्तः पानीयं पिबेत्। दुष्टगवा-ऽश्वादिना वातस्याहननं भवेत् । दकतीरस्थितंवा अनुकम्पयाप्रत्यनीकतया वा कश्चिद् दृष्ट्वा सिञ्चनं कुर्यात् । जलचर-खचर-स्थलचरप्राणिनां च वित्रासो भवेत् ॥
तत्राधिकरणं व्याचिख्यासुराह[भा.२३८८] दटूण वा नियत्तण, अभिहननं वा वि अन्नतूहेणं ।
गामा-ऽऽरन्नपसूणं, जा जहि आरोवणा भणिया ।। वृ-साधुं दृष्ट्वाऽऽरण्यकादिप्राणिनां निवर्त्तनं भवति, अभिहननं वा परस्परं तेषां भवेत्, "अन्नतूहेणं"ति अन्यतीर्थेन वा ते जलमवतरेयुः, तेषां च ग्रामा-ऽऽरण्यपशूनां निवर्तनादौ षट्कायोपमर्दसम्भवात् “छक्काय चउसुलहुगा" इत्यादिना या यत्रारोपणाभणितासा तत्र द्रष्टव्या। एष नियुक्तिगाथासमासार्थः ॥अथैनामेव विवृणोति- .. [भा.२३८९] पडिपहनियत्तमाणम्मि अंतरायं च तिमरणे चरिमं ।
सिग्घगइतन्निमित्तं, अभिघातो काय-आयाए। -आरण्यकाः तिर्यञ्चः तिर्यविस्तयो वा 'पानीयं पिबामः' इत्याशया तीर्थाभिमुखमायान्तः साधुंदकतीरस्थितं दृष्ट्वा प्रतिपथेन निवर्तन्ते, निवर्तमानेच तत्रारण्यकप्राणिगणे साधीरधिकरणं भवति । तेषां च तृषार्तानामन्तरायंचशब्दात् परितापना च कृता भवति । तत्रैकस्मिन् परितापिते च्छेदः, द्वयोस्तु मूलम्, त्रिष्वनवस्थाप्यम्, चतुर्पु परितापितेषु पाराञ्चिकम्, एतेनान्तरायपदं व्याख्यातम् । “तिमरणेचरिमं" तियघकस्तृषार्तोप्रियतेततोमूलम्, द्वयोम्रयमाणयोरनवस्थाप्यम्, त्रिषु म्रियमाणेषु साधोः पाराञ्चिकम्, एतेनोच्छ्वासपदं विवृतम् । तथा तं साधुं दृष्ट्वा ते तिर्यञ्चो भीताः शीघ्रगत्या पलायमाना अन्योऽन्यवाअभिघातयेयुः, षट्कायानांवातन्निमित्तं शीघ्रंधावमाना अभिघातं विदध्यु, तत्र “छक्काय चउसु लहुगा' इत्यादिकं कायविराधनानिष्पन्न प्रायश्चित्तम् । हप्ता वा तिर्यञ्चस्तस्यैव साधोराहननादिनाऽऽत्मविराधनां कुर्युः । अनेनाहननपदं व्याख्यातम् ।। "अनहियासे अन्नतूहेणं "ति पदद्वयं भावयति[भा.२३९०] अतड-पवातो सो चेव यमग्गो अपरिभुत्त हरियादी ।
ओवग कूडे मगरा, जइ धुंटे तसे यदुहतो वि ।। वृ-अथ तृषामसहिष्णवस्ते गवादयो अतटेन वा-अतीर्थेन अन्यतीर्थेन वाऽवतरेयुः छिन्नटङ्के वा प्रपातं दधु ततः परितापनाद्युत्या सैवारोपणा । अथवा ‘स एव' अभिनवो मार्ग प्रवर्तते तत्र चापरिभुक्तेनावकाशेन गच्छन्तो हरितादीनां छेदनं कुर्युतत्र तन्निष्पन्न प्रायश्चित्तम् । एतेनच्छेदनपदं व्याख्यातम् । “ओवग"त्ति गर्ता तस्यां वा अतीर्थेनावतीर्णा सन्तः ते प्रपतेयुः, अतीर्थे वा केनचिल्लुब्धकेन कूटं स्थापितं भवेत्तेन कूटेन बद्धा विनाशमश्नुवते, अतीर्थेन वा जलमवतीर्णा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org