SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-१९, [भा. २३८२] खु-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.२३८३] मा मं को इच्छिइ, दच्छं व अहं ति चिलिमिली तेनं । दगतीरे विन चिट्ठइ, तदालया मा हु संकेज्जा । वृ-मा मां कोऽपि' सागारिको द्रक्ष्यति, अहं वातंसागारिकमा द्राक्षमिति कृत्वा चिलिमिली क्रियते । अत्रापि दकतीरेऽनेनैव कारणेन न तिष्ठति यत् 'तदालयाः' दकतीराश्रिता जन्तवो मा शकन्तामिति ।। अनेन सम्बन्धेनायातस्यास् व्याख्या- नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'दकतीरे' उदकोपकण्ठे स्थातुंवा' ऊध्वंस्थितस्यासितुं 'निषत्तुंवा' उपविष्टस्यस्थातुं त्वग्वर्तयितुं वा' दीर्घ कार्य प्रसारयितुं निद्रायितुं वा' सुखप्रतिबोधावस्थया निद्रया शयितुं 'प्रचलायितुं वा' स्थितस्य स्वप्तुम्, अशनं वा पानं वा खादिमंवा स्वादिमं वाऽऽहारयितुम्, उच्चारं वा प्रश्रवणं वा खेलं वा सिङ्घानं वा परिष्ठापयितुम्, 'स्वाध्यायं वा वाचनादिकं कर्तुम्, 'धर्मजागरिकां वा' धर्मध्यानलक्षणां 'जागरितुं' कर्तुम् धातूनामनेकार्थत्वात्, अत्र पाठान्तरम्-"झाणं वा झाइत्तए" धर्मध्यानमनुस्मत्त मिति, 'कायोत्सर्ग वा' चेष्टा-ऽभिभवभेदाद् द्विविधकायोत्सर्गलक्षणं स्थानं 'स्थातुं' कर्तुमित्यर्थः । एष सूत्रार्थः ।।अथ नियुक्तिविस्तरः[भा.२३८४] दगतीर चिट्ठणादी, जूयग आयावणा य बोधव्वा । . लहुओ लहुया लहुया, तत्थ विआणाइणो दोसा ।। वृ-दकतीरे स्थानादीनि कुर्वतः प्रत्येकं लघुको मासः । 'यूपके वक्ष्यमाणलक्षणे वसतिगृह्णाति चतुर्लघुकाः । 'आतापनां' प्रतीतामपि दकतीरे कुर्वतश्चतुर्लधुकाः प्रायश्चित्तं बोद्धव्याः । तत्रापि प्रत्येकमाज्ञादयो दोषाः ।। अत्र दकतीरस्य प्रमाणे बहव आदेशाः सन्ति तानेव दर्शयति[भा.२३८५] नयने पूरे दिढे, तडि सिंचण वीइमेव पुढे य । अच्छंते आरण्णा, गाम पसु-मणुस्स-इत्थीओ।। वृ-नोदकः प्राह-“नयनि"ति उदकाकरायत्रोदकं नीयते तद्दकतीरम्, यदि व यावन्मात्रं नदीपूरेणाक्रम्यते तद् दकतीरम्, यद्वा यत्र स्थितैर्जलं दृश्यतेतद्दकतीरम्, अथवा यावन्नद्यास्तटी भवति, यदि वा यत्र स्थितो जलस्थितेन शृङ्गकादिना सिच्यते, अथवा यावन्तं भूभागं वीचयः स्पृशन्ति, यदि वायावान्प्रदेशोजलेन स्पृष्ट एतद्दकतीरम्।सूरिराह-यानित्वया दकतीरलक्षणानि प्रतिपादितानि तानिनभवन्ति, किन्वारण्यका ग्रामेयकावा पशवोमनुष्याः स्त्रियो वा जलार्थिन आगच्छन्तः साधुंयत्र स्थितं दृष्ट्वा तिष्ठन्तिनिवर्तन्तेवातदकतीरमुच्यते ।। एतदेव सविशेषमाह[भा.२३८६] सिंचण-वीई-पुट्ठा, दगतीरं होइन पुन तम्मत्तं । ओतरित्तरिउमणा, जहि दटुं तसंतितं तीरं ।। कृनयन-पूरप्रभृतीनांसप्तानामादेशानांमध्याच्चरमाणित्रीणि सिञ्चन-वीचि-स्पृष्टक्षणानिदकतीरं भवन्ति, न पुनस्तावन्मात्रमेव, किन्वारण्यका ग्रामेयका वा तिर्यङ्-मनुष्या जलपानाद्यर्थमवतरीतुमनसः पीत्वा वा उत्तरीतुमनसो जलचरा वा यत्र स्थितं साधुं दृष्टवा 'त्रस्यन्ति' बिभ्यति चलन्ति वा तदव्यभिचारि दकतीरमुच्यते । तत्र च स्थान-निषदनादिकरणे दोषान् दर्शयति[भा.२३८७] अहिगरणमंतराए, छेदन ऊसासअनहियासे अ । आहनन सिंच जलचर-खह-थलपाणाण वित्तासो ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy