________________
उद्देशक : १, मूलं-१७, [भा. २३६५] शिष्येषु देशविशेषेषु वा । एतदुत्तरत्र भावयिष्यते अथ किमर्थमत्र चतुर्लघु प्रायश्चित्तमुक्तम् ? अत्रोच्यते[भा.२३६६] दुविहपमाणतिरेगे, सुत्तादेसेन तेन लहुगा उ।
मज्झिमगंपुन उवहिं, पडुच्च मासो भवे लहुओ॥ कृद्विविधं-द्विप्रकारंगणना-प्रमाणभेदाद्यत्प्रमाणंततोऽतिरिक्ते उपधौ सूत्रादेशेन चतुर्लघुका भवन्ति । यतं उक्तं निशीथसूत्रे-जे भिक्खू गणनाइरित्तं वा पमाणाइरित्तं वा उवहिं घरेइ से आवजइचाउम्मासियंपरिहारट्ठाणंउग्धाइयं इति।अतः सूत्रादेशेनचतुर्लघुकम्। यदा तूपधिनिष्पन्न चिन्त्यते तदा अयं घटीमात्रको मध्यमोपधिभेदेष्ववतरतीति कृत्वा मध्यमं पुनरुपधिं प्रतीत्य लघुको मासो भवति । अथ "धारयितुंवा परिहर्तुंवा" इति पदद्वयव्याख्यानमाह[भा.२३६७] धारणया उ अभोगो, परिहरणा तस्स होई परिभोगो।
दुविहेन वि सो कप्पई, परिहारेणं तु परिभोत्तुं ।। वृ-इह द्विधा परिहारः, तद्यथा-धारणा परिहरणा च । तत्र धारणा 'अभोगः' अव्यापारणम्, संयमोपबृंहणार्थं स्वसत्तायां स्थापमित्यर्थः । परिहरणा नाम 'तस्य' घटीमात्रकादेरुपकरणस्य 'परिभोगः' व्यापारणम् । एतेन द्विविधेनापि परिहारेण स घटीमात्रको निर्ग्रन्थीनां परिभोक्तुं कल्पते । स च दिवसं यावत् पानकपूर्णस्तिष्ठति । अथ किमर्थमयं गृह्यते ? इत्याह[भा.२३६८] उड्डाही वासिरणे, गिलाणआरोपणा य धरणम्मि।
बिइयपयं असईए, भिन्नोऽवह अद्धलित्तो वा ।। वृ-संयतीमिरुत्सर्गतो द्रव्यप्रतिबद्धायांवसतीस्थातव्यम्।तत्र घटीमात्रकाग्रहणे सागारिकाणां पश्यतांबहि कायिकीव्युत्सर्जन उड्डाहः प्रवचनलाघवमुपजायते।अथ कायिक्या वेगंधारयन्ति ततोधरणे ग्लानारोपणा' परिताप-महादुःखादिकाभवति । यत एवमतो ग्रहीतव्योघटीमात्रकः संयतीभिः । द्वितीयपदमत्र-'असति' अविद्यमाने घटीमात्रके यदि वा विद्यते घटीमात्रकः परं 'भिन्नः' भग्न अर्द्धलिप्तो वा अत एव 'अवहः' अव्याप्रियमाणः ततो बहिर्गत्वा कायिकी यतनया व्युत्सर्जनीया । निर्ग्रन्थाः पुनरप्रतिबद्धोपाश्रये तिष्ठन्ति अतस्तेघटीमात्रकं न गृह्णन्ति, कारणे तु गृह्णन्त्यपि । यत आह[भा.२३६९] लाउय असइ सिनेहो, ठाइ तहिं पुव्वभाविय कडाहो।
सेहे व सोयवायी, धरंतिदेसिंवते पप्प ।। वृ-अलाबुपात्रकस्याभावे ग्लानार्थं च स्नेहे ग्रहीतव्ये पूर्वभावितं कटाहकं घटीमात्रकं वा ग्रहीतव्यम् । यतस्तत्र गृहीतः ‘स्नेहः' धृतं तिष्ठति' न परिश्रवति । शैक्षो वा कश्चित् साधूनां मध्येऽत्यन्तं शौचवादी सशौचार्थं घटीमात्रकं गृह्णीयात् । 'देशी वा देशविशेषं शौचवादिबहुलं प्राप्य घटीमात्रकं धारयन्ति, यथा गोल्लविषये । अथास्यैव ग्रहणे विधिमाह[भा.२३७०] गहणं तु अहागडए, तस्सऽसई होइ अप्पपरिकम्मे ।
तस्सऽसइ कुंडिगादी, घेत्तुंनाला विउज्जति ॥ वृ-प्रथमतो यथाकृतस्य घटीमात्रकस्य ग्रहणकर्त्तव्यम्। तस्यासत्यल्पपरिकर्मणि ग्रहणं भवति [19/5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org