________________
बृहत्कल्प-छेदसूत्रम् -२-१/१६
वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.२३६२] ओहाडियचिलिमिलिए, दुक्खं बहुसो अईति निति विय।
आरंभो षडिमत्ते, निसिं व दुत्तं इमं तु दिवा ।। घृ-चिलिमिलिक्या उपलक्षणत्वात् कटद्वयेन च 'अवघाटिते' पिनंढे सति द्वारे रजन्यां मात्रकपन्तरेण बहि कायिक्यादिव्युत्सर्जनार्थं बहुशो निर्गम-प्रवेशेषु दुःखमार्यिका निर्गच्छन्ति प्रविशन्ति च, अतोऽयं घटीमात्रकसूत्रस्यारम्भः । यद्वा 'निशायां' रात्रौ मात्रके यथा कायिकी व्युत्सृज्यते तथाअनन्तरसूत्रेऽर्थतः प्रोक्तम्, इदं तुसुत्रं दिवा मात्रकविधिमधिकृत्योच्यत इति।।
अनेन सम्बन्धेनायातस्यास्यव्याख्या-कल्पते 'निर्ग्रन्थानां' व्रतिनीनामन्तर्लिप्तं घटीमात्रक' घटीसंस्थानं मृन्मयभाजनविशेषंधारयितुंबापरिहत्तुंवा । धारयितुंनाम' स्वसत्तायां स्थापयितुम्। 'परिहर्त' परिभोक्तुम् । एव सूत्रार्थः ।। अथ नियुक्ति[भा.२३६३] घडिमत्तंतो लितं, निग्गंथीणं अगिण्हमाणीयं ।
चउगुरुगाऽऽयरियादि, तत्थ वि आणआइणो दोसा ।। वृ- 'अन्तः' मध्ये 'लिप्तं' लेपेनोपदिग्धं घटीमात्रकं निर्ग्रन्थीनामगृह्णतीनां चतुर्गुरुकाः । "आयरियाई"त्ति आचार्य एतत् सूत्रं प्रवर्त्तिन्या न कथयति चतुर्गुरु, प्रवर्तिनी आर्यिकाणां न कथयति चतुर्गुरु, आर्यिका न प्रतिशृण्वन्ति मासलघु । 'तत्रापि' घटीमात्रकस्याग्रहणे तद्विधिप्रतिपादकस्य च प्रस्तुतसूत्रस्यअकथनेऽप्रतिश्रवणे चाज्ञादयो दोषाःआह सघटीमात्रकः कीशो भवति? इत्याह[भा.२३६४] अपरिस्साई मसिणो, पगासवदणो स मिम्मओ लहुओ।
सुइ-सिय-दद्दरपिहणो, चिट्ठइ अरहम्मि वसहीए ।। वृ-'सः' इतिघटीमात्रकः पानकेनात्यन्तभावितत्वादवश्यं नपरिश्रवतीत्यपरिश्रावी, मसृणः' सुकुमारः, प्रकाश-प्रकटं वदनं मुखमस्येति प्रकासवदनः, 'मृन्मयः' मृत्तिकानिष्पन्नः, 'लघुकः' स्वल्पभारः, शुचि-पवित्रंचोक्षमित्यर्थः सितं-श्रवेतंन कृष्णवर्णाधुपेतंदर्दरपिधानं-वस्त्रमयंबन्धनं यस्य स शुचि-सित-दर्दरपिधानः । एवंविधः 'अरहसि' प्रकाशप्रदेशे वसत्यां तिष्ठति
म. (१७) नो कपई निग्गंधाणं अंतोलितं घडिमत्तयं धारित्तए वा परिहरित्तए वा ।। [भा.२३६५] साहू गिण्हइ लहुगा, आणाइ विराधना अनुवहि त्ति।
बिइयं गिलाणकारण, साहूण वि सोअवादीसु ॥ वृ-यदि साधुर्घटीमात्रकं गृह्णाति तदा चत्वारो लधुकाः, आज्ञादयश्रच दोषाः, विराधना च संया-ऽऽत्मविषया । तत्र “अनुवहि' त्ति साधूनामयमुपधिन भवति । किमुक्तं भवति ? यत् किल साधूनामुपकारे न व्याप्रियते तद् नोपकरणं किन्त्वधिकरणम्,
जं जुञ्जइ उवयारे, उवगरणं तं सि होइ उवगरणं ।
अइरेगं अहिगरणं, (ओधनियुक्ति गा०] इति वचनाद्, यच्चाधिकरणं तत्र परिस्फुटैव संयमविराधना । आत्मविराधना त्वतिरिक्तोपधिभारवहनादनागाढपरितापनादिका । “बिइयं" ति द्वितीयपदमत्र भवति । किं पुनः तत्? इत्याह-ग्लानकारणे समुत्पन्ने साधूनामपिघटीमात्रकग्रहणं भवेत्, अथवाशौचवादिषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org