________________
उद्देशक : १, मूलं-१५, [भा. २३५६]
६३
[भा.२३५७] अहवा जिनप्पमाणा, कारणसेवी अदोसवं होई।
थेरा वि जाणग च्चिय, कारण जयणाए सेवंता ॥ वृ-अथवा "जिण जाणग" त्ति नियुक्तगाथापदमन्यथा व्यारुवायते-जिनः-तीर्थकरस्तस्य प्रामाण्यात् कारणे द्वारपिधानसेवी अदोषवान् भवति । जिनानां हि भगवतामियमाज्ञा-कारणे यतनया द्वारपिधानं सेवमानाः स्थविरकल्पिका अपि 'ज्ञायका एव' सम्यग्विधिज्ञा एव॥
आह किं तत् कारणं येन द्वारं पिधीयते? उच्यते[मा.२३५८] पडिनीय तेन सावय, उब्भामग गोण साणऽणप्पज्झे ।
सीयं च दुरधियासं, दीहा पक्खी व सागरिए। कृउद्घाटितेद्वारेप्रत्यनीकः प्रविश्याहननमपद्दावणंवाकुर्यात् । 'स्तेनाः' शरीरस्तेना उपधिस्तेना वा प्रविशेयुः । एवं 'श्रवापदाः' सिंह-व्याघ्रादयः 'उद्भामकाः' पारदारिकाः 'गौः' बलीवर्द 'श्रवानः' प्रतीताः, एतेवाप्रविशेयः। “अणप्पज्झे"त्ति 'अनात्मवशः' क्षिप्तचित्तादिसद्वारेऽपिहिते सति निर्गच्छेत् । शीत्तं वा दुरधिसहं हिमकणानुषक्तं निपतेत् । 'दीर्धा वा' सर्पा 'पक्षिणो वा' काक-कपोतप्रभृतयः प्रविशेयुः । सागारिको वा कश्रिचत्प्रतिश्रयमुद्धाटद्वारं दृष्ट्वा तत्र प्रविश्य शयीत वा विश्रामं वा गृह्णीयात् ॥ [भा.२३५९] . एकेक्कम्मि उ ठाणे, चउरो मासा हवंति उग्धाया।
आणाइणो य दोसा, विराधना संजमा-ऽऽयाए । वृ-द्वारमस्थगयतामनन्तरोक्ते एकैकस्मिन्' प्रत्यनीकप्रवेशादौ स्थाने चत्वारोमासाः 'उद्धाताः' लघवः प्रायश्चित्तं भवति, आज्ञादयश्रवात्र दोषाः विराधनाच संयमा-ऽऽत्मविषया भावनीया यदुक्तम् “चत्वारो मासा उद्धाताः" इति तदेंवद् बाहुल्यमङ्गीकृत्य द्रष्टव्यम्, अतोऽपवदन्नाह[भा.२३६०] अहि-सावय-पच्चत्थिसु, गुरुगा सेसेसु होति चउलहुगा ।
तेणे गुरुगा लहुगा, आणाइ विराधना दुविहा ।। वृ-अहिषु श्रवापदेषु प्रत्यर्थिषु च-प्रत्यनीकेषु द्वारेऽपिहिते सत्युपाश्रयंप्रविशत्सुप्रत्येकं चत्वारो गुरुकाः। शेषेषु' उभामकादिषुसागारिकान्तेषु चतुर्लघुकाः । स्तेनेषु गुरुका लघुकाश्रव भवन्ति। तत्र शरीरस्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लघुकाः । आज्ञादयश्रच दोषाः । विराधना च द्विविधा-संयमविराधना आत्मविराधना च । तत्र संयमविराधना स्तेनैरुपधावपहृते तृणग्रहणमग्निसेवनं वा कुर्वन्ति, सागारिकादयो वा तप्तायोगोलकल्पाः प्रविष्टाः सन्तो निषदन-शयनादि कुर्वाणाबहूनां प्राणजातीयानामुपम कुर्यु । आत्मविराधनातुप्रयत्नीकादिषुपरिस्फुटैवेतिआह ज्ञातमस्माभिरपिधानकारणं परं काऽत्र यतना? इति वाद्यापि वयं जानीमः उच्यते[भा.२३६१] उवओगं हेटुवरिं, काऊण ठक्तिऽवंगुरते अ।
पेहा जत्थ न सुज्झइ, पमजिउं तत्थ सारिति ।। वृ-श्रोत्रादिभिरिन्द्रियैरधस्तादुपरिचोपयोगं कृत्वा द्वारं स्थगयन्ति वा अपावृण्वन्ति वा । यत्र चान्धकारे 'प्रेक्षा' चक्षुषा निरीक्षणं न शुध्यति तत्र रजोहरणेन दारुदण्डकेन वा रजन्यां प्रमृज्य 'सारयन्ति' द्वारं स्थगयन्तीत्यर्थः, उपलक्षणत्वादुद्धाटयन्तीत्यपि द्रष्टव्यम् ॥ . मू. (१६) कप्पइ निग्गंधीणं अंतो लित्तं घडिमत्तयंधारित्तए वा परिहरित्तए वा ।।
For Private & Personal Use Only
Jain Education International
For
www.jainelibrary.org