SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५८ बृहत्कल्प-छेदसूत्रम् -२-१/१४ [भा.२३३२] असई य कवाडस्सा, विदलकडादी अदो कडा उभओ। फरमुट्ठियस्स सरिसो, बाहिरकडयम्मि बंधोउ ।। वृ-यदि द्वारं कपाटसहितं भवति ततः सुन्दरमेव । अथ कपाटं नास्ति ततः कपाटस्यासति प्रस्तारः क्रियते । प्रस्तारः-कटः, स च 'द्विदलकटादि द्विदलं-वंशदलं तन्मयः कटो द्विदलकटः, आदिशब्दात् शरकटः परिगृह्यते। ईशौ द्वौ कटौ द्वारस्यौभयतः क्रियेते, एकोऽभ्यन्तरे द्वितीयो बहिरित्यर्थः । ततः स्फरकस्ययामुष्टि-ग्रहणस्थानं तस्य सहशोबन्धोबाह्यकटेऽभ्यन्तरतोदातव्यः।। सच बन्धः किम्मयः कर्त्तव्यः ? इत्याहमा.२३३३] सुत्ताइरजुबंधो, दुछिडु अभितरिल्लकडयम्मि। हेट्ठा मज्झे उवरिं, तिन्नि व दो वा भवे बंधा ॥ वृ-सूत्रस्य आदिशब्दावल्कस्य वा ऊर्णाया वा या रज्जु-दवरकः परिस्थूरो द्धश्च तस्य बन्धो बाह्यकटे स्फरमुष्टिकसशोदातव्यः, अभ्यन्तरकटेच द्वे छिद्रे कर्तव्ये कथम्? इति अत आह"हेट्टामझे उवरिं"ति मध्ये स्फरकमुष्टेरनुश्रेण्यामेवाधस्तादुपरिच च्छिद्रद्वयं कर्तव्यम्, ततो बाह्यकटस्य स्फरकमुष्टौ दवरको वढं प्रवेश्य पश्चादभ्यन्तरकटस्य द्वयोरपि च्छिद्रयोः प्रक्षिप्य ततोऽभ्यन्तरेण निष्काश्यनिबिडंबन्धनीयः,ईशा द्वौवात्रयोवाबन्धाबध्यन्ते।अभ्यन्तरप्रस्तारस्य चोपरि चिलिमिली बध्यते, सा च तान् बन्धान् गोपयति । तथा च ते बन्धा बध्यन्ते यथा प्रतिहारी मुक्त्वा अन्या काचिन्न जानाति ॥आहसा प्रतिहारी कीगुणान्विता स्थापनीया? इति उच्यते[भा.२३३४] काएण उवाचया खलु, पडिहारी संजईण गीयत्था । परिनय भुत्त कुलीणा, अभीरु वायामियसरीरा।। वृ-कायेनोपचिता न कृशशरीरा, 'गीतार्थाः' सम्यगधिगतसूत्रार्था, परिणता वयसा बुध्या च, “भुत्त"त्ति भुक्तभोगिनी, 'कुलीना' विशुद्धकुलोत्पन्ना, 'अभीरु' न कुतश्चिदपि स्तेनोद्रामकादेर्विविधां बिभीषिकां दर्शयतोऽपि बिभेति, “वायामियसरीर"त्ति व्यायामःखेदस्तत्सहशरीरा समर्थदेहा इत्यर्थः, ईशी खलु संयतीनां प्रतिहारी स्थापयितव्या ।। सा च किं करोति? इत्याह[भा.२३३५] आवासगंकरित्ता, पडिहारी दंडहत्य दारम्मि । तिन्नि उ अप्पडिचरिउं, कालं घेत्तूण य पवेए॥ वृ-'आवश्यक' प्रतिक्रमणं कृत्वा प्रतिहारी दण्डकहस्ता अग्रद्वारे तिष्ठति । ततश्च “तिन्नि उ"त्ति तिः संयत्यः कालप्रत्युपेक्षणार्थं निर्गच्छन्ति । “अपडिचरियं"ति प्रादोषिकं कालं यथा साधवः प्रतिजागरितं गृह्णन्ति तास्तथा न इति गृहीत्वा च कालं ततः प्रवर्त्तिन्या निवेदयन्ति । निवेद्य च स्वाध्याये प्रस्थापिते सर्वा अपि स्वाध्यायं कुर्वन्ति ।। कथम् ? इत्याह[भा.२३३६] ओहाडियदाराओ, पोरिसिकाऊण पढमए जामे । पडिहारि अग्गदारे, गणिणी उ उवस्सयमुहम्मि। वृ-अवघाटितं-चिलिमिलिकया पिहितं द्वारम्-अग्रद्वारंयासांता अवघाटितद्वाराः सर्वा अपि प्रथमेयामे सूत्रपौरुषीं कृत्वा ततो मध्ये प्रविशन्तीति वाक्यशेषऋ । पौरुषीं कुर्वाणानांचप्रतिहारी अग्रद्वारे तिष्ठति, 'गणिनी तु' प्रवर्तिनी उपाश्रयस्य मुखे-मूलद्वारे स्थिता स्वाध्यायं करोति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy