________________
उद्देशक : १, मूलं- १४, [भा. २३२६]
५७
'अवघाटितचिलिमिलिकाके' अवघाटिता-बद्धा चिलिमिलिका यत्र स तथा ईशे उपाश्रये 'एवम्' अनन्तरोक्तेन विधिना “णं" इति वाक्यालङ्कारे कल्पते वस्तुमिति सूत्रसङ्क्षेपार्थः । विस्तरार्थं तु
4
भाष्यकृदाह
[मा. २३२७] दारे अवगुयम्मी, निग्गंधीणं न कए वासो । चउगुरु आयरियाई, तत्थ वि आणाइणो दोसा ।।
वृ- 'अपावृते' उद्घाटिते द्वारे, उद्धारटद्वारे उपाश्रये इत्यर्थः निर्ग्रन्थीनां न कल्पते वासः । अत्र चैतत् सूत्रमाचार्य प्रवर्त्तिन्या न कथयति चतुर्गुरु, प्रवर्त्तिनी संयतीनां न कथयति चतुर्गुरु, आर्यिका यदि न प्रतिशृण्वत्ति तदा तासां मासलघु। 'तत्रापि' अकथनेऽ श्रवणे चाज्ञादयो दोषा द्रष्टव्याः ।। [भा. २३२८ ] दारे अवंगुयम्मी भिक्खुणिमादीण संवसंतीणं । गुरुगा दोहि विसिट्टा, चउगुरुगादी व छेदंता ।।
वृ- उपाश्रयसम्बन्धिनि द्वारेऽपावृते सति भिक्षुण्यादीनां संवसन्तीनां 'द्वाभ्यां' तपः- कालाभ्यां विशिष्टाश्चतुर्गुरुकाः प्रायश्चित्तम् । तद्यथा-भिक्षुण्याश्चतुर्गुरुकं तपसा कालेन च लघु, अभिषेकायास्तदेव कालगुरु तपोलघु, गणावच्छेदिन्यास्तपोगुरु काललघु, प्रवर्त्तिन्या द्वाभ्यामपि गुरुकम्। चतुर्गुरुकादयो वा छेदान्ताः प्रायश्चित्तविशेषा भवन्ति, तद्यथा भिक्षुण्या अपावृतद्वारे वसन्त्याश्चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः पङ्गुरुकम्, प्रवर्तिन्याश्छेद इति । अत्र दोषानाह
[भा. २३२९] तरुणे वेसित्थीओ, विवाहमादीसु होइ सइकरणं । इच्छमनिच्छे तरुणा, तेना ताओ व उवहिं वा ॥
वृ- अस्या व्याख्या [भा. २३३०]
अनन्तरसूत्रवद् द्रष्टव्या ॥
अन्ने वि होंति दोसा, सावय तेणे य मेहुणट्टी य । वइणीसु अगारीसु य, दोचं संछोभणादीया ॥
वृ- अन्येऽप्यभ्यधिका अत्रदोषा भवन्ति । तत्रापावृतद्वारे उपाश्रये श्वापदो वा स्तेनो वा चशब्दात् श्वानो वा प्रविशेयुः, तैश्च यद्विराधनां प्राप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् । 'मैथुनार्थी वा' उद्रामकः प्रविशेत् स बलादप्युदार शरीरां संयतीं गृह्णीयात् । व्रतिनीषु वा मध्ये काचिद् व्रतिनी मोहोद्भवेन कस्यापि गृहिणी गृही वा तस्याः संयत्याः प्रसुप्तासु शेषसाध्वीषु रात्रौ काञ्चिदगारी प्रेष्य दौत्यं कारापयेत् । अगारीषु वा मध्ये काचित् संछोभणं परावर्त्तं कुर्यात्, संयतीसंस्तारके सा अगारी संयतीसत्कानि वस्त्राणि प्रावृत्य सयीत संयती तु तदीयानि वस्त्राणि प्रावृत्यागारस्य सकाशं गच्छेदित्यर्थः । यस्मादेवमादयो दोषास्तस्मादपावृतद्वारे प्रतिश्रये साध्वीभिर्न स्थातव्यम् ।। द्वितीयपदे तिष्ठतां (तिष्ठन्तीनां ) विधिमाह
[ भा. २३३१] पत्थारो अंतो बहि, अंतो बंधाहिं चिलिमिलिं उवरिं ।
पडिहारि दारमूले, मत्तग सुवणं च जयणाए ।
वृ-प्रस्तीर्यत इति प्रस्तारः, स च द्विधा - अन्तर्बहिश्च । 'अन्तः' अभ्यन्तरप्रस्तारे "बंधाहि "न्ति 'बधान' नियन्त्रय चिलिमिलीमुपरिष्टात् । ततः प्रतिहारी द्वारमूले तिष्ठति । 'मात्रकं' मोकव्युत्सर्जनं स्वपनं च यतनया कर्तव्यमिति नियुक्तिगाथासमासार्थः ॥ अथ विस्तरार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org