________________
उद्देशक : १, मूलं- १०, [भा. २२६८ ]
४५
वृ- सन्दर्शनेनोभयोरपि प्रथमतः प्रीतिरुपजायते । ततः प्रीत्या 'रति' चित्तविश्रान्ति । रतेश्च ‘विश्रम्भः' विश्वासः । विश्वासाच्च मिथः कथादि कुर्वतोः 'प्रणयः' अशुभो रागो जायते । एवं 'पञ्चविधं' पञ्चभि प्रकारैः प्रेम वर्द्धते ॥ ततश्च स तया दुर्बल इति पृष्टथे ब्रूयात्
[मा. २२६९ ] जह जह करेस नेह, तह तह नेहो मे वड्डइ तुमम्मि । तेन नडिओ मि बलियं, जं पच्छसि दुब्बलतरो त्ति ।
वृ- यथा यथा 'करोषि ' सम्पादयसि 'स्नेह' घृतं तथा तथा मम त्वयि स्नेहो वर्द्धते । 'तेन च' स्नेहेन 'नटितः' विडम्बितोऽस्म्यहम् । यत् त्वं पृच्छसि दुर्बलतर इति तदेतेन हेतुना दुर्बलोऽहम्।। एवमुक्ते सा ब्रूयात्
[भा. २२७०] अमुगदिने मुक्ख रहो, होहि दारं व वोज्झिहिइ रत्तिं । तइया ने पूरिस्सइ, उभयस्स वि इच्छियं एयं ॥
वृ- अमुष्मिन् दिने 'रथः ' रथयात्रा भविता तस्यां साधु-साध्वीजनेषु गतेष्वष्माकं रक्ष्यमाणानां मोक्षो भविष्यति, द्वारं वा छिण्डिकाया अमुकस्यां रात्रौ 'वक्ष्यते' वहमानकं भविष्यति तदा “ने” आवयोरुभयस्यापि यथेप्सितमेतत् पूरिष्यते । एवं सङ्केतं प्रतिश्रुत्य प्रतिसेवनां कुर्वतोस्तयोः श्रामण्यस्य खण्डनं भवति, ततश्च 'भग्नव्रतोऽहम्' इति कृत्वा यद्यवधावति ततः[ भा. २२७१ ] एगम्मि दोसु तीसु व, ओहावंतेसु तत्थ आयरिओ । मूलं अणवट्टप्पो, पावइ पारंचियं ठाणं ॥
- एकस्मिन्नवधावति मूलम्, द्वयोरनवस्थाप्यम्, त्रिष्ववधावमानेषु पारञ्चिकमाचार्य प्राप्नोति, कस्मात् ताशे क्षेत्रे स्थितः ? इति कृत्वा । द्वितीयपदे एतेष्वपि स्थानेषु तिष्ठेत् ॥
कथम् ? इत्याह
[ भा. २२७२ ] अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण पडिलोमं । गीयत्था जयणाए, वसंति तो अभिदुवाराए ॥
बृ- अध्वनो निर्गताः आदिशब्दादशिवादिषुवर्तमानाः सहसैवैकवगडाकमनेकद्वारं संयतीक्षेत्रं प्राप्ताः । ततस्तत्र 'त्रिकृत्वः' त्रीन् वारान् निरुपहतां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति ततः 'प्रतिलोमं' प्रतीपक्रमेण गीतार्था यतनया 'अभिद्वारे' अनेकद्वारे संयतीक्षेत्रे वसन्ति । कः पुनः प्रतीपक्रमः ? इति चेद उच्यते- यानि पूर्वमेकसाहिकादीनि धर्मकथापर्यन्तानि द्वाराण्युक्तानि तेषु प्रथमतो यस्यां धर्मकथाशब्दः साध्वीभि श्रूयते तस्यां वसतौ वस्तव्यम् ॥ तत्र चेयं यतना[भा. २२७३] सिंगारवज्र बोले, अह एगो विज्जपाढऽनुच्चं च । सङ्घादीनिब्बंधे, कहिए वि न ते परिकर्हिति ॥
- धर्मकथां परिवर्त्तयन्तः शृङ्गाररसवर्जं 'बोलेन च' वृन्देन परिवर्तयन्ति यथैकस्य कस्यापि व्यक्तः स्वरो नोपलक्ष्यते । अथान्येन सह गुणयतस्तस्य न सञ्चरति तत एकोऽपि वैद्यपाठेन गुणयति, स्वरवर्जितमिति भावः, तदपि 'अनुच्चं' नोच्चैस्तरेण शब्देन । अथ 'सुस्वरोऽयम्' इति ज्ञात्वा श्राद्धा आदिशब्दाद् यथाभद्रकादयो वा निर्बन्धं कुर्यु ततो यथास्वरेण धर्मं कथयति । ततः कथितेऽपि मधुरस्वरेण धर्मे प्रभाते संयतीनां पृच्छन्तीनां न 'ते' साधवः परिकथयन्ति, यथाअमुकेनेत्थं धर्म कथित इति । ई६श्या वसतेरलाभे उच्च वा नीचे वा स्थातव्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org