________________
४६
बृहत्कल्प-छेदसूत्रम् -२-१/१०
तत्रेयं यतना[भा.२२७४] खढओ व चिलिमिली वा, तत्तो थेरा य उच्चनीए वा।
पासे ततो न उभयं, मत्तग जयणाऽऽउल ससदा ।। वृ-प्रविशन्तो निर्गच्छन्तो वा यस्मिन् पार्वे परस्परं पश्यन्ति ततः कटकः वंशादिमयो घनो दीयते । अथ कटकोन प्राप्यते तदा चिलिमिली वस्त्रमयी दातव्या, स्थविराश्च ततस्तस्मिन् पार्वे तिष्ठन्ति, संयतीनां तु क्षुल्लिकाः । एवमुच्च-नीचे यतना । अथोच्च-नीचमपि न लभ्यते ततो यत्र पार्श्वतो वा मार्गतो वा प्रतिश्रयस्तत्र तिष्ठतां यतना-कायिक्यादिव्युत्सर्जनार्थं निर्गच्छन्तो यत्र परस्परं पश्येयुः 'ततः तस्यां दिशि 'नोभयं न संज्ञां न वा कायिकी व्युत्सृजन्ति । ताशस्य स्थण्डिलस्याप्राप्तीमात्रकेषुयतन्ते, अथवाआकुलाः सशब्दावा तत्र व्रजन्ति, तदभावेसप्रतिमुखद्वारे तिष्ठन्ति ।। तत्र चेयं यतना[भा.२२७५]पिहदारकरण अभिमुह, चिलिमिलि वेला ससद्द बहु निति।
साहीए अन्नदिसिं, निती न यकाइयं तत्तो।। वृ-यत्रद्वाराणि परस्परमभिमुखानितत्रान्यस्यादिशिपृथगद्वारं कुर्वन्ति ।अथन लभ्यतेऽन्यस्यां दिशि द्वारं कर्तुं ततो द्वारे चिलिमिली नित्यबद्धा स्थापनीया कटको वा अपान्तराले दातव्यः, कायिक्याः संज्ञायाश्च वेलां परस्परं स्थापयित्वा असशवेलायां निर्गच्छन्ति, 'सशब्दाश्च' काशितादिशब्दस्वागमनसूचकं कुर्वन्तोबहवः 'निर्यन्ति' निर्गच्छन्ति । यत्रैका साहिका तत्रान्यस्यां दिशियस्य द्वारं तत्र प्रतिश्रये तिष्ठन्ति। यतश्च संयतीनांप्रतिश्रयस्ततः कायिक्यान निर्गच्छन्ति, तासां वा कायिकीभूमिं न व्रजन्ति । एवं संज्ञाभूम्यामपि द्रष्टव्यम् ।। कियद्वाऽत्र भणिष्यते ? - [भा.२२७६] जत्थऽप्पतरा दोसा, जत्थ य जयणं तरंति काउंजे।
तत्थ वसंति जयंता, अनुलोमं किं पिपडिलोमं ।। वृ- यत्रोपाश्रयेऽल्पतराः पूर्वोक्ता दोषा भवन्ति, यत्र च 'यतनां' यथोक्तां कर्तुं 'तरन्ति' शक्नुवन्ति, “जे" इति पादपूरणे, तत्रानुलोमं वा प्रतिलोमं वा किमप्येकसाहिकादिकं स्थान प्रतीत्य यथोक्तनीत्यायतमानावसन्ति, नात्र कोऽपिप्रतिनियमः किन्तुगीतार्थेनाल्पबहुत्ववेदिना भविव्यमिति भावः॥ कथं पुनरल्पतरा दोषा भवन्ति? इति उच्यते[मा.२२७७] आय-समणीण नाउं, किढि कप्पट्टी समाणयं वज्जे ।
बहुपाडिवेसियजनं, च खमयरं एरिसे होइ॥ -आत्मनः श्रमणीनांच स्वभावं स्वधर्मत्वादिकं ज्ञात्वा तथा यतितव्यम् । “किढि कप्पट्टि" त्ति स्थविरश्रमण्यः क्षुल्लकाश्चोभयपार्श्वतः कर्त्तव्याः, वयसा समानां च संयती सन्दर्शनादौ दूरतोवर्जयेत् । यच्च गृहं बहुप्रतिवेशिकजनमीद्दशे प्रतिश्रयेऽवस्थानं 'क्षमतरम् अतिशयेन युक्तं भवति, विजने तु विश्वस्ततया बहो दोषा भवेयुरिति । गतो द्वितीयभङ्गः ।
अथ तृतीयभङ्गमाह[भा.२२७८] पउमसर वियरगो वा, वाघातो तम्मि अभिनिवगडाए।
तम्मि वि सो चेव गमो, नवरं पुन देउले मेलो। वृ-तृतीयभङ्गो नाम अनेकवगडाकमेकनिष्क्रमणप्रवेशंचग्रामादि, तत्रच 'अभिनिवगडाके'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org