________________
४४
बृहत्कल्प-छेदसूत्रम् -२-१/१० मूलम् । नवमेऽनवस्थाप्यम् । दशमे षण्मासा लघवः । षष्ठे षण्मासा गुरवः । सप्तमेच्छेदः । अष्टमे मूलम् । नवमेऽनवस्थाप्यम् । दशमे पाराञ्चिकम् ।। [भा.२२६३] एक्कम्मि दोसु तीसुव, ओहावितेसु तत्थ आयरिओ।
मूलं अणवठ्ठप्पो, पावइ पारंचियं ठाणं ।। वृ-अथ मोहोदयेनैकः ‘अवधावति' उप्रव्रजति तत आचार्यो मूलं प्राप्नोति, द्वयोरवधावतोरनवस्थाप्यो भवति, त्रिष्ववधावमानेषु पाराञ्चिकं स्थानं प्राप्नोति ॥
गतमुच्चनीचद्वारम् । अथ धर्मकथाद्वारमाह[भा.२२६४] धम्मकहासुणणाए, अनुरागो भिक्खसंपयाणे य।
संगारे पडिसुणणा, मोक्ख रहे चेव खंडीए । वृ-धर्मकथायाः श्रवणेन संयत्या अनुरागः सञ्जायते । ततः स्निग्ध-मधुरभैक्षस्य सम्प्रदानं संयताय कारयति । ततः 'सङ्गारस्य' सङ्केतस्य प्रतिश्रवणं करोति । कः पुनः सङ्केतः ? इत्याह"मोक्ख रहे चेव"त्ति अमुष्मिन् दिवसे रथो हिण्डिष्यते तत्रास्माकंरक्ष्यमाणानांमोक्षोभविष्यति। "खंडीए'त्तिखण्डी-छिण्डिका तस्यावा द्वारमुद्घाटंरात्रौ भविता, यद्वा दीर्घस्यालाक्षणिकत्वात् खण्डितं-श्रामण्यस्य खण्डना तयोः प्रतिसेवमानयोर्जायते । एष नियुक्तिगाथासमासार्थः ॥
अथैनामेव विवरीषुराह[भा.२२६५] असुभेन अहाभावेन वा विरतिं निसंतपडिसंते।
वत्तेइ किन्नरो इव, कोई पुच्छा पभायम्मि ।। वृ-कोऽपि साधुरशुभेन वाभावेन यथाभावेनवा रात्रौ निशान्तप्रतिश्रान्ते अत्यन्तभ्रमणादुपरते यद्वा निशान्तेषु-स्वेषु स्वेषुगृहेषुविश्रान्तेजने किन्नरइव मधुरया गिराधर्मकथांकाञ्चित्परिवर्तयति तद् आकर्ण्य संयत्यः प्रभाते पृच्छन्ति । यथा[भा.२२६६] कतरो सो जेन निसिं, कन्ना ने पूरिया व अमयस्स ।
सो मि अहं अजाओ!, आसि पुरा सुस्सरो किंवा ॥ वृ-कतरोऽसौ साधुर्येन 'निशि' रात्रौ कर्णा "ने" अस्माकममृतस्य पूरिता इव कृताः? ।स प्राह-सोऽहमस्मि आर्या ! 'पुरा' पूर्वमहं सुस्वर आसं तदपेक्षया किं वा सौस्वर्यमिदानीं मम विद्यते ? ॥ यतः[भा.२२६७] रुक्खासणेण भग्गो, कंठो मे उच्चसद्दपढओ य ।
संथ्य कुलम्मि नेह, दावेमि कए पुनो पुच्छा। वृ- रूक्षाशनेनोच्चशब्देन पठतश्च मे कण्ठो भग्नस्ततो नेदानी तथा सुस्वर इति । ततस्तदीयसौस्वर्येणातीवानुरञ्जिता काऽपि संयतीप्राह-संस्तुते' भावितेकुले ‘स्नेहं' घृतादिकमहं दापयिष्यामि येन भवतां स्वरपाटवमुपजायते । ततस्तथाकृते सति 'पुनः' भूयोऽपि तं दुर्बलं दृष्ट्वा पृच्छा कृता, यथा-ज्येष्ठार्य ! किमेवं दुर्बलो दृश्यसे? ॥
एवं च कुर्वतोस्तयोः किं भवति? इत्याह[भा.२२६८] संदंसनेन पीई, पीईउरई रईउ वीसंभो।
वीसंभाओ पणओ,पंचविहं वड्डए पिम्मं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org