________________
उद्देशक : १, मूलं-१०,
भा. २२५५
४३
सप्रतिमुखद्वारेषु पुरतो वा मार्गतो वा उच्छे वा नीचे वा सर्वत्रापि निष्कारणे तिष्ठतां कारणे वा 'अविधिना' अयतनया स्थितानाममी दोषा भवेयुः ।। [भा.२२५६] दिट्टा अवाउडा हं, भयलज्जा थद्ध होज खित्ता वा।
पडिगमणादी व करे, निच्छक्काओ व आउभया । वृ-काचित् संयती विचारभूमी प्राप्ता संयतमागच्छन्तं दृष्टवा चिन्तयेत्-अहो ! अहं ज्येष्ठार्येणापावृता दृष्टा, ततः सा भयेन लज्जया वा स्तब्धा क्षिप्तचित्ता वा भवेत् । यद्वा काश्चिदपावृता दृष्टाः सत्यः 'कथममीषांपुरतः स्थास्यामः?' इति कृत्वा प्रतिगमनादीनि कुर्यु । अथवा दृष्टं यद् द्रष्टव्यम्' इत्यभिसन्धाय 'निच्छक्काः' निर्लज्जाः काश्चिद् भवेयुः । ततश्चात्मसमुत्थास्तदुभयसमुत्थाश्च दोषा भवन्ति । यदि वा[भा.२२५७] तासिं कक्खंतर-गुज्झदेस-कुच-उदर-ऊरुमादीए।
निग्गहियइंदियस्स वि, दटुं मोहो समुज्जलति ।। वृतासां संयतीनांकक्षान्तर-गुह्यदेश-कुचोदरोरुप्रभृतीन् अवयवान् दृष्ट्वा निगृहीतेन्द्रियस्यापि मोहः समुज्वलति किं पुनरितरस्य ? इति ।। ततश्चामी दश कामवेगा उत्पद्यन्ते[मा.२२५८)चिंता य १ ददुमिच्छइ २, दीहं नीससइ ३ तह जरो४दाहो ५।
भत्तअरोयग ६ मुच्छा ७, उम्मत्तो ८ न याणई ९ मरणं १०॥ वृ-'चिन्ता नाम' शोचन्नास्ते १ द्रष्टुमिच्छति २ दीर्घ निश्वासिति ३ तथा ज्वरो ४ दाहः ५ भक्तस्यारोचकः-अरुचि ६मूर्छा७उन्मत्तः सञ्जायते ८ नजानाति किञ्चदपि ९ मरणमुपजायते १०।। एनामेव नियुक्तिगाथां विवृणोति[भा.२२५९] पढमे सोयइ वेगे, दद्रुतं इच्छई बिइयवेगे।
नीससइ तइयवेगे, आरुहइ जरो चउत्थम्मि । [भा.२२६०] दुज्झइ पंचमवेगे, छट्टे भत्तं न रोयए वेगे।
सत्तमगम्मि य मुच्छा, अट्ठमए होउ उम्मत्तो। [भा.२२६१] नवमेन याणइ किंची, दसमे पाणेहि मुच्चई मनूसो।
एएसिं पच्छित्तं, वोच्छामि अहानुपुटवीए। वृ-प्रथमेशोचति वेगे-हा! कथं तय सह सम्पत्तिर्भविष्यति? इति विचिन्तयतीत्यर्थः १। द्रष्टुं तां पूर्वदृष्टां पुनरपीच्छति द्वितीयवेगे २ । निश्वसिति तृतीयवेगे दीर्घानिश्वासान् मुञ्चति ३ । आरोहतिज्वरश्चतुर्थे ४ । दह्यतेऽङ्ग पञ्चमवेगे ५। षष्ठे भक्तंन रोचते वेगे६ । सप्तमे वेगे मूर्छा ७।अष्टमे उन्मत्तो भवति मानवमे न जानाति किञ्चिदपि, निश्चेष्टो भवतीत्यर्थः ९ दशमे वेगे प्राणैर्मुच्यते मनुष्यः १० एतेषांदशानामपि वेगानां प्रायश्चित्तंयथाऽऽनुपूर्व्या वक्ष्ये अभिधास्ये।।
तदेवाह[भा.२२६२] मासो लहुओ गुरुओ, चउरो मासा हवंति लहु-गुरुगा।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगंच॥ प्रथमे वेगे लघुको मासः । द्वितीये गुरुको मासः । तृतीये चत्वारो मासा लघुकाः । चतुर्थे चत्वारो मासा गुरुकाः । पञ्चमे षण्मासा लघवः । षष्ठे षण्मासा गुरवः । सप्तमे च्छेदः । अष्टमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org