________________
३६
बृहत्कल्प-छेदसूत्रम् -२-१/१० मा प्रापत् पूर्वोक्तशङ्कादिदोषप्रसङ्ग इति ।। [भा.२२१७] पुव्वभणिए य ठाणे, सुन्नोगादी चरंति वजेंता।
पढम-विइयातुरा वा, जयमा आइन्न धुवकम्मी ।। - 'पूर्वभणितानि च' शङ्काविषयभूतानि शून्यौकः-शून्यगृहं तदादीनि स्थानानि दूरेण वर्जयन्तश्चरन्ति, प्रथम-द्वितीयपरीषहातुरा वा यतनया जनाकीर्णे 'ध्रुवकर्मिका वा' काष्ठसूत्रधारादयो यत्र पश्यन्ति तत्र प्रथमालिकां द्रवपानं वा कुर्वन्ति ।। एवं संयतीक्षेत्रे साधूनामागतानां विधिरुक्तः । अथोभयेषु पूर्वस्थितेषूभयेषामेवागमने विधिमाह[भा,२२१८] दोन्नि वि ससंजईया, एगग्गामम्मि कारणेण ठिया ।
तासिं च तुच्छयाए, असंखडं तत्थिमा जयणा ॥ वृ-'द्वयेऽपि' वस्तव्याआगन्तुकाश्च साधवोयदिससंयतीका एकस्मिन्ग्रामे कारणेन स्थिताः, 'तासांच' संयतीनां तुच्छतया यद्यसङ्ग्रडमुपजायते तत्र 'इयं' वक्ष्यमाणा यतना ।। आह तिष्ठतु तावद् यतना, कथं पुनस्तासामसङ्घडमुत्पन्नम् ? इति तावद् वयं जिज्ञासामहे, उच्यतेताभिर्वास्तव्यसंयतीभिरागन्तुकसंयत्यः पृष्टाः-आर्या ! किं यूयं यदृच्छया भक्त-पानं लभध्ये न वा? इति, ताः प्राहु:[भा.२२१९] चुण्णाइ-विंटलकए, गरहियसंथवकए य तुब्भाहिं।
ताइँ अजाणंतीओ, फव्वीहामो कहं अम्हे ।। वृ-चूर्णं-वशीकरणादिफलंद्रव्यसंयोगरूपंतेन आदिशब्दाद्ज्योतिष-निमित्तादिनाचविण्टलेन कृते-भाविते, तथा गर्हितः-पूर्व-पश्चात्सम्बन्धरूपोयः संस्तवः-परिचयस्तेन वा कृते-भावितेयुष्माभिः क्षेत्रे 'तानि' चूर्णादीनि कर्तुमजानानाः कथं वयमत्र “फव्वीहामो"त्ति यच्छया भक्त-पानं लभामहे ? ॥ वास्तव्यसंयत्यः प्रतिब्रुवते[भा.२२२०] सेसामुमानेन परंजनोऽयं, ठावेइ दोसेसुगुणेसुचेव।
पावस्स लोगो पडिहाइपावो, कल्लाणकारिस्स य साहुकारी॥ दृ-'स्वेन' स्वकीयेनानुमानेन ‘परम्' अन्यम् आत्मव्यतिरिक्तम् ‘अयं' प्रत्यक्षोपलभ्यमानो जनो दोषेषु गुणेषु च स्थापयति, अविद्यमानानामपि तेषांतत्राध्यारोपं करोतीतिभावः । एतदेव व्यक्तीकरोति-पापस्य' पापकर्मकारिणो जनस्यलोकः सर्वोऽपि पापः प्रतिभाति, कल्याणकारिणः पुनः सर्वोऽपि साधुकारी ।। ततश्च[मा.२२२१] नूनं न तं वट्टइ जं पुरा भे, इमम्मि खेत्ते जइभावियम्मि।
अवेयवच्चाण जतो करेहा, अम्हाववायं अइपंडियाओ। दृ-'नून' निश्चितं यत् कुण्टल-विण्टलं पुरा “भे" भवत्यः कृतवत्यस्तदत्र क्षेत्रे यतिभावितेन वर्तते कर्तुम् । कुत एतद् ज्ञायते यद् वयं कुण्टल-वेण्टलं कृतवत्यः ? इति चेद् अत आह'अपेतवाच्यानां वचनीयतारहितानांयतएवं यूयम् 'अतिपण्डिताः' अतीवादुर्विदग्धाअस्माकम् 'अपवादम्' असद्दोषोद्धोषणं कुरुथ । इस्थमसङ्खडे उत्पन्ने किं कर्त्तव्यम् ? इत्याह[भा.२२२२] तत्थेव अनुवसंते, गणिणीइ कर्हिति तह वि हुअठते।
गमहारीण कहेंती, सगाण गंतूण गणिणीओ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org