________________
उद्देशक : १, मूलं-१०, [भा. २२२२}
वृ- यदि तत्रैव परस्परमुपशान्तं तदसङ्खडं ततः सुन्दरमेव । अध नोपशान्तं ततः ‘गणिन्याः' स्वस्याः स्वस्याः प्रवर्त्तिन्याः कथयन्ति । यदि न कथयन्ति ततश्चतुर्गुरवः । ततस्ते प्रवर्त्तिन्यौ मधुरया गिरा प्रज्ञाप्योपशमयतः । तथापि अतिष्ठति' अनुपरते 'द्वे अपि' गणिन्यौ गत्वा स्वेषां स्वेषां गणधारिणां कथयतः । यदि न कथयतस्ततश्चत्वारो गुरुकाः । ततः प्रवर्त्तिन्या कथिते गणधरेण किं विधेयम् ? इत्यत आह[भा.२२२३] उप्पन्ने अहिगरणे, गणाहारिनिवेदनं तु कायव्वं ।
जइ अप्पणा भणेज्जा, चाउम्मासा भवे गुरुगा। कृ-'अधिकरणे' असङ्खडे उत्पन्नेसतिप्रवर्तिनीमुखादाकर्ण्यतेन गणधरेणद्वितीयस्य गणधारिणो निवेदनकर्त्तव्यम् । यदि सगणधर आत्मनैव गत्वा द्वितीयगणधरसत्कां व्रतिनी भणेत्' उपालम्भेत ततश्चतुर्मासा गुरुका भवेयुः॥ [भा.२२२४] वतिणी वतिणिं वतिणी, व परगुरुं परगुरू व जइ वइणिं ।
जंपइ तीसु वि गुरुगा, तम्हा सगुरूण साहेजा ।।। -यदि व्रतिनी व्रतिनी जल्पति' उपालभते, व्रतिनी वा यदि 'परगुरुम्' अन्यसंयतीगणधरं जल्पति, परगुरुर्वा यदि व्रतिनी जल्पति तत एतेषु त्रिष्वपि चतुर्गुरुकाः, तस्मात् ,स्वगुरूणां कथयेत्, उपलक्षणत्वात् स्वव्रतिनी चोपालम्भेत ।।
अथ परव्रतिनीमुपालम्भमानस्य को दोषः स्यात् ? इत्यत्रोच्यते[मा.२२२५] जाणामि दूमियं भे, अगं अरुयम्मि जत्थ अर्कता।
को वा एअंन मुणइ, वारेहिह कित्तिया वा वि ।। वृ-सा परव्रतिनी भण्यमाना ब्रूयात्-जानाम्यहं यद् दूनं भवतामङ्गम्, 'यत्र' यस्मिन् ‘अरुषि' व्रणे युष्मदीयसंयती प्रतिब्रुवाणया मया यूयमाक्रान्ता, को वा एनमर्थं न जानाति? कियतो वा ब्रुवतो निवारयिष्यथ? यद्यहंवारिता सती न जल्पिष्यामितीन्येऽपिजल्पिष्यन्तीति ॥ अपिच[मा.२२२६] निग्गंधं न वि वायइ, अलाहि किं वा वि तेण भणिएणं ।
छाएउंच पभायं, न वि सक्का पडसएणावि॥ वृ- नहि निर्गन्धं वायुति, किन्तु याशस्य वनखण्डादेमध्येन समायाति ताद्दग्गन्धसहित एव, एवं भवतामप्यस्या उपरियईशःपक्षपातःसननिसम्बन्धइति भावः । अथवा “अलाहि"त्ति अलमनेन वचनेनाभिहितेन, मर्मानुवेधित्वात् । किं वा तेन भणितेन कार्यम् ? यतः प्रभातं सञ्जातं सद् न पटशतेनापिच्छादयितुं शक्यम् । इत्थं तन्मुखाद् निर्गते असद्भूतार्थेऽपि दूषणे जले पतिते इव तैलबिन्दौ सर्वतः प्रसप्तसूरीणां महान्छायाघातोजायते, स च तत्त्वत आत्मकृत एवेति ।। अत्र दृष्टान्तमाह[भा.२२२७] मज्झत्थं अच्छंतं, सीहं गंतूण जो विबोहेइ ।
अपवहाए होई, वेयालो चेव दुअत्तो ।। बृ-'मध्यस्थम्' उदीसीनं तिष्ठन्तं सिंहं गत्वा उपेत्य यः कश्चिद् 'विबोधयति' विशेषेणपाणिप्रहारादिना बोधयति स विबोधितः सन् तस्यात्मवधाय भवति । वेताल इव वा दुष्प्रयुक्तो यथा साधकमेवोपहन्ति, एवमियमप्याचार्येण प्रबोधिता सती तस्यैव च्छायाघातमुपजनयति ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org