________________
उद्देशक : १, मूलं - १०, [भा. २२११ ]
भणन्ति कथयत कथं भिक्षां गृह्णीमो वयम् ? ॥
[ भा. २२१२] ता बेंति अम्ह पुण्णो, मासो वच्चामु अहव खमणं णे । संपत्थियाउ अम्हे, पविसह वा जा बयं नीमो ॥
३५
-
वृ-ता आर्यिका ब्रुवते - पूर्णोऽस्माकं मासकल्पः, अतः सूत्रार्थपौरुष्यो कृत्वा व्रजामो वयम्, साधवो यथासुखं पर्यटन्तु । अथ न क्षपणं ततस्ता ब्रूयुः सम्प्रस्थिता वयं भिक्षाटनार्थम्, यूयं पश्चात् पर्यटत । अथवा-'प्रविशत' भिक्षामवतरत यूयं यावद् वयं निर्गच्छाम इति ॥ यदा च तासां क्षपणं भवति तदा ब्रूयुः
[भा.२२१३] विच्छिन्नो य पुरहडो, अंतो भूमी य ने वियारस्स । सागारिओ व सन्नी, कुणइ अ सारक्खणं अम्हं ।।
घृ- विस्तीर्णं पुरोहडं वर्त्तते, गाथायां प्राकृतत्वात् पुंस्त्वनिर्देशः, “ने” अस्माकम् 'अन्तः’ ग्राममध्ये विचारभूमिरस्ति, यश्चास्माकं सागारिकः सः 'संज्ञी' श्रावकस्ततः संरक्षणमस्माकं करोति, बहिर्विचारभुवं गन्तुं न ददातीत्यर्थः । एवं संयतीभिरुक्ते साधवस्तत्र यथासुखं पर्यटन्ति । अथ ताभिः पूर्वं क्षपणं न कृतं ततो यदि सुभिक्षं वर्त्तते प्रचुरं च प्राप्यते ततः संयत्यः क्षपणं कुर्वन्तु । अपि च यद्यपि तासां साधुभ्यो भक्त पानं प्रदातुं न कल्पते तथापयेवं कुर्वन्तीभिस्ताभि प्राघुण्यं कृतं भवति । अथ न शक्नुवन्ति क्षपणं कर्तुं ततः संयत्यः प्रागेव पर्यटन्त्यो दोषान्नं गृह्णन्ति संयता भिक्षाया देशकाले उष्णं गृह्णन्ति । अथ संयतीनां दोषान्नमकारं ततः संयता दोषान्नमितराः पुनरुष्णं गृह्णन्ति ॥
[भा. २२१४] उभयस्सऽ कारगम्भी, दोसीणे अहव तस्स असईए । संधरे भणति तुम्हे, अडिएसु वयं अडीहामो ॥
वृ- 'उभयस्य' संयती-संयतवर्गस्य दोषान्ने दोषान्ने अकारके अथवा 'तस्य' दोषान्नस्य 'असति' अभावे संस्तरणे सति संयत्यो भणन्ति यूयं तावदटत ततो युष्मासु अटितेषु वयमटिष्यामः ॥ अथैक एव तत्रदेश-कालस्ततः क्रमेण पर्यटने वेलाया अतिक्रमो भवति ततः किं कर्त्तव्यम् ? इत्याह
[भा. २२१५]
तुम्मे भिक्खं, इमम्मि पउरन्न-पाण गामद्धे ।
वाड साहीए वा अम्हे सेसेसु घेच्छामो ॥
वृ- संयत्यो ब्रुवते - यूयं गृह्णीत भिक्षामस्मिन् प्रचुरान्नपानस्य ग्रामस्यार्थे, अस्मिस्तु ग्रामार्द्धे वयं ग्रहीष्यामः; यद्वा-अस्मिन् पाटकेऽस्यां वा साहिकायां यूयं गृह्णीत वंय शेषेषु ग्रहीष्याम इति ।। [भा. २२१६] ओली निवेसने वा, वज्जेत्तु अडंति जत्थ व पविट्ठा ।
न य वंदनं न नमनं, न य संभासो न वि य दिट्ठी ॥
बृ- "ओलि 'त्ति ग्रामगृहाणामेका पङ्क्ति, निवेशनं एकनिष्क्रमण-प्रवेशानि द्व्यादीनि गृहाणि, ततो यस्यां पङ्क्तौ निवेशने वा संयत्यः पर्यटन्ति तां वर्जयित्वा अन्यस्यां पङ्क्तावन्यस्मिन् वा निवेशने संयताभिक्षामरन्ति । अथ लघुतरोऽसौ ग्रामस्ततः पङ्क्त्यादिविभागो न शक्यते कर्तुं ततो यत्र गृहादौ प्रविष्टा रथ्यायां वा गच्छन्त एकत्र मिलन्ति तत्र 'न च' नैव 'वन्दनं' कृतिकर्म न वा 'नमनं' शिर-प्रणाममात्रं न च 'सम्भाषः ' परस्परालापो नापि च 'दृष्टिः' सम्मुखमवलोकनम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org