SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प - छेदसूत्रम् -२-१/१० एकैकस्मिन् भङ्गे ‘दृष्टादयः' दृष्टे सति शङ्का भोजिकादयो दोषा भवन्ति । तत्र शङ्का नाम किं विश्रामणार्थमत् प्रविशति ? उत प्रतिसेवनार्थम् ? इति तत्र चतुर्गुरु । प्रतिसेवनार्थमेवेति निशङ्किते मूलम् । शेषं भोजिकानिवेदनादि सप्रायश्चित्तं प्राग्वद् द्रष्टव्यम् । तथा उभयोरपि राजपुरुषैस्तत्र प्रवेशे दृष्टे सति ग्रहणा-ऽऽकर्षणादयो दोषाः । सप्तमे भङ्गे मासलघु, तत्र चात्मोभयादिसमुत्थाः सविशेषा दोषाः । तथाहि तत्रोभयोरप्यदृष्टत्वादन्योन्यदर्शने द्वयोरेकतरस्य वा चित्तभेदः सम्भवेत्केनाप्यावां प्रविशन्तौ न दृष्टाविति कृत्वा तत्रैकान्ते घटनं भवेत् । आदिशब्दाच्चतुर्थव्रतं विराधितमावाभ्यामिति मत्वा वैहायसमरणा-ऽवधावनादीनि कुर्याताम् ॥ अथ प्रवेशविषयेषु भङ्गकेषु पञ्चभिरादेशः प्रायश्चित्तमभिधित्सुः प्रथमादेशतस्तावदाह [ भा. २१८७ ] चरमे पढमे बिइए, तइए भंगे य होइमा सोही । मासो लहुओ गुरुओ, चउलहु-गुरुगा य भिक्खुस्स ।। बृ- चरमो नाम-यत्र द्वे अपि न दृष्टे १ प्रथमः-यत्र संयत एव दृष्टः २ द्वितीयः यत्र संयती ध्ष्टा ३ तृतीयः यत्र द्वे अपि घंटे ४, एतेषु भङ्गेषु यथाक्रमं भिक्षोरियं शोधिर्मन्तव्या । तद्यथा-मासो लघुकः, मासो गुरुकः, चतुर्लघुकाः, चतुर्गुरुकाः ॥ [भा. २१८८] ३० वसभे य उवज्झाए, आयरिए एगठाणपरिवुड्डी । मासगुरुं आरब्भा, नायव्वा जाव छेदो उ । वृ- वृषभस्योपाध्यायस्याचार्यस्य च यथाक्रममेकैकस्थानपरिवृद्धि कर्त्तव्या, ततश्च मासगुरुकादारभ्य च्छेदं यावत् प्रायश्चित्तस्थानानि ज्ञातव्यानि । तद्यथा-वृषभस्य चतुर्थे भने मासगुरु, प्रथमे चतुर्लघु, द्वितीये चतुर्गुरु, तृतीये षड्लघुः एवमुपाध्यायस्य चतुर्लघुकादारब्धं षड्गुरुके तिष्ठति, आचार्यस्य चतुर्गुरुकादारब्धं छेदान्तं द्रष्टव्यम् । एष एक आदेशः । अथ द्वितीय उच्यते [भा. २१८९] अहवा चरिमे लहुओ, चउगुरुगं सेसएसु भंगेसु । भिक्खुस्स दोहि विलहू, काल तवे दोहि वी गुरुगा ॥ वृ- अथवा चरमे भङ्गे लघुको मासः, 'शेषेषु' त्रिष्वपि भङ्गेषु प्रत्येकं चतुर्गुरुकम् । एतानि प्रायश्चित्तानिभिक्षोः 'द्वाभ्यामपि' तपसा कालेन च लघुकानि, वृषभस्य कालगुरुकाणि, उपाध्यायस्य तपोगुरूणि, आचार्यस्यो भयगुरूणि ।। एष द्वितीय आदेशः । अथ तृतीय उच्यते Jain Education International - [भा.२१९० ] मासो विसेसिओ वा, तइयादेसम्मि होइ भिक्खुस्स । गुरुगो लहुगा गुरुगा, विसेसिया सेसगाणं तु ॥ वृ- 'वा' इति अथवा तृतीयादेशे चतर्ष्वपि भङ्गेषु लघुमासस्तपः- कालविशेषितो भिक्षोर्भवति । तद्यथा चतुर्थे भङ्गे द्वाभ्यामपि तपः-कालाभ्यां लघुकं लघुमासिकम् प्रथमे तदेव तपसा लघुकं - कालेन गुरुकम्, द्वितीये काले लघुकं तपसा गुरुकम्, तृतीये द्वाभ्यामपि तपःकालाभ्यां गुरुकम्। 'शेषाणां तु' वृषभोपाध्यायाचार्याणां यथाक्रमं गुरुको मासः चत्वारो लघुकाश्चत्वारो गुरुकाः चतुर्ष्वपि भङ्गेष्वेवमेव तपः- कालविशेषिताः प्रायश्चित्तम् । एष तृतीय आदेशः । अथ चतुर्थमाह[भा. २१९१] अहवा चउगुरुग चिय, विसेसिया हुंति भिक्खुमाईणं । मासाइ जाव गुरुगा, अविसेसा हुंति सव्वेसिं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy