________________
उद्देशक : १, मूलं-१०, [भा. २:६१
वृ-अथवा चतुर्गुरुका एव भिक्षुप्रभृतीनां चतुर्णामपि तपः-कालविशेषिता भवन्ति । तद्यथाभिक्षोभ्यामपि तपः-कालाभ्यांलघवः, वृषभस्य तपोलघवः कालगुरवः, उपाध्यायस्य तपोगुरुकाः काललघुकाः,आचार्यस्य द्वाभ्यामपि तपः-कालाभ्यां गुरवः । एष चतुर्थआदेशः।यद्वा मासादारभ्य चतुर्गुरुकं यावद् भिक्षु-वृषभादीनां प्रायश्चित्तानि । तद्यथा-भिक्षोर्मासलधु, वृषभस्य मासगुरु, उपाध्यायस्य चतुर्लघुकम्,आचार्यस्य चतुर्गुरुकम् । एतानि च प्रायश्चित्तानि सर्वेषांभङ्गचतुष्टयेऽपि तपः-कालाभ्यामविशेषितानीतिपञ्चमआदेशः॥एवं तावत्प्रवेशप्रत्ययंशुद्धपदे प्रायश्चित्तमुक्तम्। अथ तत्र प्रविष्टानां ये दोषाः सम्भवन्ति तप्रत्ययं प्रायश्चित्तमाह[भा.२१९२] दिट्ठोभास पडिस्सुय, संथार तुअट्ट चलणउक्खेवे ।
फंसण पडिसेवणया, चउलहुगाई उ जा चरिमं॥ वृ-एवं प्रविष्टयोः संयत-संयत्योः परस्परं 'दृष्टे' दर्शने साते सतिचतुर्लघवः ।संयतः संयती वा यद्यवभाषते ततश्चत्वारो गुरवः । अवभाषिते सति यदि प्रतिश्रणोति तदा षड् लघवः । संस्तारके कृतेषड्गुरवः । त्वग्वर्तने कृतेच्छेदः ।चलनः-पादस्तस्योत्ोपे मूलम्। स्पर्शनेऽनवस्थाप्यम्। प्रतिसेवने पाराश्चिकम् । एवं प्रविष्टानां प्रायश्चित्तमुक्तम् । अथ निर्गमनविषयमाह[भा.२१९३] पविसंते जा सोही, चउसु वि भंगेसु वन्निया एसा ।
निक्खममाणे स च्चिय, सविसेसा होइ भंगेसु ।। वृ-संयती-संयतयोः प्रविशतोर्या शोधिश्चतुर्ध्वपि भङ्गेषु 'एषा' अनन्तरमेव वर्णिता सैव शून्यगृहादेर्निष्कामतोरपि सविशेषाचतुर्वपि भङ्गेषु भवति।।एवं तावद् ग्रामादेरन्तर्विचारभूमौ गच्छन्तीनां भिक्षाचर्यायां च दोषाः प्रतिपादिताः । अधुनाग्रामादेर्बहिर्विचारभुवं गच्छन्तीनां दोषोनुपदर्शयितुमाह[भा.२१९४] अंतो वियार असई, अचियत्त सगार दुञ्जनवते वा।
वाहिं तु वयंतीणं, अपत्त-पत्ताणिमे दोसा ।। कृ'अन्तः' ग्रामादेरभ्यन्तरे विचारभूमेरभावे, अप्रीतिकंवा 'सागारिकः' शय्यातरस्तत्र व्युत्सर्जने कुर्यात्, 'दुर्जनवृतंवा दुःशीलजनपरिवृतंतत्पुरोहडंततोग्रामादेवहिव्रजन्तीनां स्थण्डिलमप्राप्तानां प्राप्तानां वा इमे दोषाः ॥ [भा.२१९५] वीयाराभिमुहीओ, साहुं दलूण सन्नियत्ताओ।
लहुओ लहुया गुरुगा, छम्मासा छेद मूल दुगं॥ वृ-विचारभूमेरभिमुखं गच्छन्त्यः साधुंतत्र यान्तं दृष्ट्वा यदि सनिवर्तन्ते तदा लघुको मासः। सनिवृत्ताः सत्यः संज्ञांधारयन्त्यो यद्यनागाढं परिताप्यन्ते तदा चतुर्लधवः ।आगढपरितापनायां चतुर्गुरवः । महादुःखे षड् लघवः । मूत्रछायां षड् गुरवः । कृच्छयाणे च्छेदः । कृच्छोच्छ्वासे भूलम्। समुद्धातेऽनवस्थापयम्। कालगमने पाराश्चिकम् ।। एनोमेव नियुक्तिगाथा व्याख्यानयति[भा.२१९६] एसो वि तत्य वच्चइ, नियत्तिमो आगयम्मि गछामो।
लहुओय होइ मासो, परितावणमइ जा चरिमं॥ वृ-'एषोऽपि' संयतः 'तत्र' स्थण्डिले व्रजति अतो निवर्तामहे वयम् 'आगते' प्रतिनिवृत्ते सति गमिप्याम इति कृत्वा यदि संयत्यो निवर्तन्ते तदा लघुमासः । अथ संज्ञानिरोधना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org