________________
उद्देशकः १, मूलं-१०, भा.२१६१] निर्वापयितुं शक्यते, एवं यद्यपि ज्ञानव्यापारादिकंजलघटकल्पं स्वाधीनं तथापि मोहोदयाग्निना प्रज्वलितं चारित्रगृहं किं न दीप्यते ?, अतिप्रबलो वा मोहो यधुदीयेत ततो घटजलकल्पेन बहुनाऽपि ज्ञानव्यापारादिना नाऽसौ विध्यापयितुं शक्य इति । किञ्च[भा.२१६२] रीढासंपत्ती वि हु, न खमा संदेहियम्मि अत्थम्मि ।
नायकए पुन अत्थे, जावि विवत्ती स निद्दोसा ।। कृ-संयतीक्षेत्रे गतानां मोहोदयनिरोधादिको यः सन्देहितः-संशयासपदीभूतोऽर्थस्तस्मिन् ीढयायदृच्छया घुणाक्षरन्यायेन सम्पत्तिरपि 'नक्षमा न श्रेयसी। यः पुनः साध्वीरहितक्षेत्रगमनादिकोऽर्थः पूर्वं ज्ञातः-निर्दोषत्वेन निर्णीतस्ततः कृतः-कर्तुमारब्धः ज्ञातकृतस्तस्मिन् याऽपि कुतोऽपि वैगुण्यतो विपत्तिर्भवति सा अपि निर्दोषा मन्तव्या ।। अथ परः प्राह[भा.२१६३] दूरेण संजईओ, अस्संजइआहि उवहिमाहारो ।
जइ मेलणाए दोसो, तम्हा रन्नम्मि वसियव्वं ।। वृ-संयत्यः ‘दूरेण पृथग्वसत्यादौ वसन्त्यः परिहर्तुशक्यन्ते, यास्तु असंयत्यः' इविरतिकास्ताः परिहरतुमशक्याः, यतस्ताभ्य उपधिराहारश्च लभ्यते, अतो यदि ‘मीलनायाः' संसर्गस्य दोषः संयतीक्षेत्रि तिष्ठतां भवति ततः साधुभिररण्ये गत्वा वस्तव्यम् । सूरिराह[भा.२१६४] रन्ने वितिरिक्खीतो, परिन्न दोसा असंतती यावि ।
लब्भीय कूलवालो, गुणमगुणं किं वसगडाली ।। वृ- अरण्येऽपि वसतां तैरश्चस्त्रियो हरिणीप्रभृतयो दोषानुपजनयन्ति । तथा 'परिज्ञा' भक्तप्रत्याख्यानं तदोषाश्च भवन्ति । तथाहि-तत्राहाराद्यभावाद् भक्तप्रत्याख्यानं कर्तव्यम्, तच्च प्रथमत एव कर्तुं न युज्यते, विरतिसहितस्य जीवितस्य दुष्प्रापत्वात्; न च तदानीं तत् कर्तुं शक्यते, कुर्वतामप्यातध्यानसम्भवात् कुदेवत्वगमन-प्रेत्यबोधिदुर्लभत्वादयोदोषाः । 'असन्ततिश्च' प्रव्राजनाधभावान्न शिष्य-प्रशिष्यादिसन्तान उपजायते, यद्वा-"असंतईए"त्ति सर्वथैव स्त्रीणामसत्तायां वनवासमङ्गीकृत्य यकिल ब्रह्मचर्यं धार्यते तन्न बहुफलं भवति, "थंभा कोहा अनाभोगा, अनापुच्छा असंतई।" इतिवचनात् । न चात्रारण्यं जनाकुलं वा प्रमाणम्, यतः कूलवालकोऽटव्यामपि वसन् कं गुणं लब्धवान् ? 'शाकटालि' स्थूलभद्रस्वामी स जनमध्ये गणिकाया गृहेऽपि तिष्ठन् कमगुणं लब्धवान् ? न कमपीति भावः ।। किञ्च[भा.२१६५] कस्सइ विवित्तवासे, विराधना दुन्नए अभेदो वा ।
जह सगडालि मणो वा, तह बिइओ किं न रंभिंसु॥ वृ-कस्यचिद् 'विविक्ते' स्त्री पशुपण्डकविरहितेऽपिवासे वसतः प्रबलवेदोदयाद्विराधना ब्रह्मचर्यस्य वति, कस्यापि पुनः 'दुर्नये' स्त्र्यादिसंसक्तप्रतिश्रयवासेऽपि वेदमोहनीयक्षयोपशमप्रबलत्वेन 'अभेदः' न ब्रह्मचर्यविलोपो भवति । वाशब्दः प्रकारान्तरद्योतनार्थः। आह यद्येवं तर्हि कर्मोदय-क्षय-क्षयोपशमादिरेव प्रमाणं न स्त्रीसंसर्गादि, नैवम्, कर्मणामुदय-क्षयक्षयोपशमादयोऽपिप्रायस्तथाविधद्रव्य-क्षेत्रादिसहकारिकारणसाचिव्यादेव तथातथा समुपजायन्ते नान्यथा । यथा वा 'शाकटालि' स्थूलभद्रस्वाति स्वकीयं मनः स्मीसंसर्गेऽपि निरुद्धवान् तथा 'द्वितीयः' सिंहगुहावासी किंन निरुद्धवानी येन स्वीसंसर्गादिकमप्रमाणं गीयते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org