________________
२४
वृहत्कल्प-छेदसूत्रम् -२-१/१० “सुढिआ' श्रान्ता एवंविधा अपि कृषीबलाः किम्' इति परिप्रश्ने भवानेवात्र पृच्छयते कथय किं ते रात्रौ 'न मुह्यन्ति' न मोहमुपगच्छन्ति? मुह्यन्त्येवेति भावः ।। [मा.२१५६] जइ ताव तेसि मोहो, उप्पज्जइ पेसणेहि सहियाणं ।
अव्वावारसुहीणं, न भविस्सइ किह नु विरयाणं । वृ-यदि तावत् 'तेषां' कृषीबलानां प्रेषणैः' व्यापारैः सहितानां मोह उत्पद्यते ततः 'विरतानां' संयतानाम् अव्यापारसुखिना' तथाविधव्यापाररहिततया सुखिनां सतां कथं नु नाम न मोहोदयो भविष्यति ? ।। अथात्रैव पराभिप्रायमाशङ्कय परिहरति[भा.२१५७] कोई तत्थ भणिज्जा, उप्पन्ने रंभिउं समत्थो त्ति ।
सो उपभून वि होई, पुरिसो व घरं पलीवंतो।। वृ-कश्चित् 'तत्र' अनन्तरोक्तेऽर्थे ब्रूयात्-यद्यपि मोह उत्पस्त्यते तथाप्यहमुत्पन्नेऽपि मोहे आत्मानं निरोद्धं समर्थ इति । गुरुराह-स पुनरेवं वक्ता ताद्दशेऽवसरे निरोद्धं 'प्रभुः' समर्थो न भवति, पुरुष इव गृहं प्रदीपयन् ।। अथैनामेव नियुक्तिगाथां व्याख्यानयति[भा.२१५८] कामं अखीणवेदान होइ उदओ जहा वदह तुब्भे ।
तंपुन जिनामु उदयं, भावन-तव-नाणवावारा ॥ [भा.२१५९] उप्पत्तिकारणाणं, सब्भावम्मि वि जहा कसायाणं।
नहु निग्गहो न सेओ, एमेव इमं पिपासामो॥ वृ-शिष्यः प्राह-'कामम्' अवधारितमस्माभिर्यथा यूयंवदथ अक्षीणवेदानां मोहस्योदयो भवति, परं 'तं पुनः' मोहोदयं जयामो वयं 'भावना-तपो-ज्ञानव्यापारात्' भावना-स्त्रीकडेवरसतत्त्वचिन्तनादिका तपः-चतुर्थादिकम् ज्ञानव्यापारः-सूत्रार्थचिन्तनात्मकः, अपिच-“चउहिंठाणेहिं कोहुप्पत्तीसिया,तंजहा-खेत्तं पडुच्च वत्थुपडुच्च सरीरं पडुच्च उवहिं पडुच्च" इत्यादिनास्थानाङ्गादौ प्रज्ञप्तानां कषायोत्पत्तिकारणानां क्षेत्र-वास्त्वादीनां सद्भावेऽपि यथा कषायाणां निग्रहो न न श्रेयान् अपि तु श्रेयानेव, एवमेव 'इदमपि' प्रस्तुतं पश्यामः, मोहोदयकारणानां सद्भावेऽपि तन्निग्रहं करिष्याम इति भावः । अत्र सूरि परिहारमाह[भा.२१६०] पहरण-जाणसमग्गो, सावरणो विहु छलिज्जई जोहो ।
वालेण यन छलिज्जइ,ओसहहत्थो वि किं गाहो ॥ -प्रहरणं-खड्गादि यानं-हस्त्यादि ताभ्यां समग्रः-सम्पूर्ण तथा 'सावरणः' सन्नाहसहितः अपिशब्दाद् युद्धकौशलादिगुणयुक्तोऽपि यथा योधः समरशिरसि प्रविष्टः प्रयत्नं कुर्वाणोऽपि योधान्तरेण 'छल्यते' छलं लब्ध्वा हन्यते इत्यर्थः, यद्वा 'ग्राहः' सर्पग्राहको गारुडिकादि औषधहस्तोऽपि किं 'व्यालेन' दुष्टसर्पण न च्छल्यते? छल्यत एव, एवं यद्यपि भवान् भावना-तपोज्ञानव्यापारयुक्तस्तथापि स्त्रीणां सन्दर्शनादि कुर्वन् मोहोदयेन च्छल्यत एवेति ॥ अपिच[भा.२१६१] उदगघडे वि गरगए, किमोगमादीवितं न उज्जलइ।
अइइद्धो विन सक्कइ, विनिव्ववेउं कुडजलेणं॥ वृ-उदकघटे 'करगतेऽपि' हस्तस्थितेऽपि किम् ‘ओकः' गृहम् ‘आदीपितं' प्रज्चालितं सद् 'नोज्वलति' नदीप्यते ?,अथासौ 'अतीद्धः' अतिदीप्तोऽग्निस्ततः कुटजलेन प्रक्षिप्तेनापिनासौ
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only