________________
बृहत्कल्प-छेदसूत्रम् -२-१/१०
[भा.२१३३] एगवगडेगदारे, एगयर ठियम्मि जो तहिं ठाइ ।
गुरुगा जइ विय दोसा, न होज पुट्ठो तह वि सो उ ।। वृ-एकवगडे एकद्वारे च क्षेत्रे यत्र पूर्वमेकतरः-संयतवर्ग संयतीवर्गो वा स्थितो वर्तते तत्र 'यः' आचार्यादि प्रवर्त्तिन्यादिवी पश्चादागत्य तिष्ठति तस्य चत्वारो गुरुकाः । यद्यपि च तत्र 'दोषाः' वक्ष्यमाणा न भवेयुः तथाप्यसौ भावतस्तैः स्पृष्टो मन्तव्यः॥
तत्र पूर्वस्थितसंयतीवर्ग क्षेत्रपङ्गीकृत्य तावदाह[भा.२१३४] सोऊण य समुदानं, गच्छ आनित्तुं देउले ठाइ ।
ठायंतगाण गुरुगा, तत्थ वि आणाइणो दोसा ।। वृ-श्रुत्वा चशब्दादवधार्य च ‘समुदान' भैक्षं सुलभप्रायोग्यद्रव्यम्, ततो गच्छमानीय देवकुले उपलक्षणत्वादपरस्मिन् वा सभा-शून्यगृहाद तिष्ठति । तत्र चतिष्ठतामाचार्यादीनांचत्वारो गुरुकाः। तत्राप्याज्ञादयो दोषा द्रष्टव्याः ॥ एनामेव नियुक्तिगाथां व्याख्यानयति[भा.२१३५] फड्डगपइपेसविया, दुविहोवहि-कञ्जनिग्गया वा वि।
उवसंपजिउकामा, अतिच्छमाणा व ते साहू ।। [भा.२१३६] संजइभावियखेत्ते, समुदाणेऊण बहुगुणं नचा ।
संपुन्नमासकप्पं, बिंति गणिं पुट्ठऽपुट्ठा वा। वृ-केनापि स्पर्द्धकपतिना स्वसाधवः क्षेत्रप्रत्युपेक्षणार्थं प्रेषिताः, यद्वा द्विविधः-औधिकोपग्रहिकभेदभिन्नो यउपधिस्तस्योत्पादनार्थ कार्येषु वा-कुल-गण-सङ्घसम्बन्धिषु निर्गताः 'उपसम्पत्तुकामा वा' उपसम्पदं जिघृक्षवः अध्वानं वाअतिक्रामन्तस्तत्र ते साधवः प्राप्ताः ॥एते स्पर्द्धकपतिप्रेषितादयः संयतीभावित क्षेत्रे 'समुदानयित्वा' भैक्षं पर्यटय प्रचुरप्रायोग्यलाभेन बहुगुणं तत् क्षेत्रं ज्ञात्वा गुरूणां समीपमायाताः सम्पूर्णमासकल्पं 'गणिनम्' आचार्य पृष्टा अपृष्टा वा ब्रुवते॥किं तत् ? इत्याह[भा.२१३७] तुम विपुन्नो कप्पो, न य खेत्तं पेहियं भेजंजोग्गं।
जंपिय रुइयं तुब्भ, न तंबहुगुणं जइ इमंतु॥ पृ- 'क्षमाश्रमणाः !' युष्माकमपि मासकल्पः पूर्णो वर्त्तते, न च तत् क्षेत्र प्रत्युपेक्षितं यद् भवतां 'योग्यम्' अनुकूलम्, यदपि च क्षेत्रं युष्माकं रुचितम्' अभिप्रेतं न तद् बहुगुणं यथेदमस्मत्प्रत्युपेक्षितं क्षेत्रम् ।। परम्[भा.२१३८] एगोऽत्य नवरि दोसो, मं पइ सो वि य न बाहए किंचि ।
न यसो भावो विजइ, अदोसंजो अनिययस्स ॥ घृ-नवरमेक एवात्र दोषो विद्यते परं सोऽपि मां प्रति’ मदीयेनाभिप्रायेण न किञ्चिद् बाधते। नचासौ 'भावः' पदार्थोजगतिविद्यतेयः 'अनियतस्य अनिश्चितस्यानुद्यमवतोवा पुरुषस्यादोषवान् भवति, किन्तु सर्वोऽपि सदोष इति भावः ॥ [मा.२१३९] अहवण किं सिट्टेणं, सिट्टे काहिह न वा वि एयं ति।
खुड्डुमुहा संति इहं, जे कोविज्जा जिणवई पि॥ वृ-अथवा किमस्माकमनेनार्थेन 'शिष्टेन' कथितेन कार्यम् ? न किञ्चिदित्यर्थः, यतो यूयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org