________________
उद्देश : १, मूलं- १०, [भा. २१२७]
क्षेत्र-काल- भावभेदभिन्नः, यथा पूर्वम्- “पासाणिट्टग-मट्टिय-खोड कडग-कंटिगा भवे दव्वे ।" इत्यादिना मासकल्पप्रकृते उक्तस्तथैवात्रापि द्रष्टव्यः । 'द्वारं नाम' ग्रामस्य मुखम्, ग्रामप्रवेश इत्यर्थः । स एव च निर्गमेनोपलक्षितः प्रवेशो निर्गम-प्रवेशोऽभिधीयते ॥
१९
इत्थं सूत्रे व्याख्याते सति शिष्यः प्राह
[भा. २१२८ ] दारस्स वा वि गहणं, कायव्वं अहव निग्गमपहस्स । जएगा दुनि वि, एगयरं बूहि मा दो वि ।
घृ- यदि तदेव द्वारं स एव च निर्गम-प्रवेशस्ततो हे आचारय ! द्वारपदस्य वा ग्रहणं कर्त्तव्यम् अथवा निर्गम-प्रवेशपथपदस्य, यदि नाम द्वे अपि पदे अमू एकार्थे ततः 'एकतरम्' एकद्वारपदम् एकनिष्क्रमण- प्रवेशपदं वा सूत्रे 'ब्रूहि' भणेत्यर्थः, मा द्वे अपि । एवं शिष्येणोक्ते सूरिराह[भा. २१२९] एगवगडेगदारा, एगमनेगा अनेग एगा य । चरिमो अनेगवगडा, अनेगदारा य भंगो उ ॥
वृ- इह वगडा- -द्वारयोश्चत्वारो भङ्गाः, तद्यथा- एका वगडा एक द्वारम्, यथा पर्वतादिपरिक्षिप्ते क्वचिद् ग्रामादौ १ । एका वगडा अनेकानि द्वाराणि यथा प्राकारादिपरिक्षिप्ते चतुर्द्वारनगरादौ २ । अनेका वगडा एकं द्वारम्, यथा पद्मसरः प्रभृतिपरिक्षिप्ते बहुपाटके ग्रामादौ ३ । अनेकावगडा अनेकानि द्वाराणि, यथा पुष्पावकीर्णगृहे ग्रामादौ ४, एषः 'चरमः ' चतुर्थो भङ्गः ॥
यदि नामैवं चत्वारो भङ्गास्ततः प्रस्तुते किमायातम् ? इत्याह[भा. २१३०] तई पडुच्च भंगं, पउमसराईहि संपरिक्खित्ते । अन्नोन्नदुवाराण वि, हवेज एगं तु निक्खमणं ॥
वृ- अत्र भङ्गचतुष्टये तृतीयं भङ्ग प्रतीत्य एकद्वार ग्रहणमेकनिष्क्रमण-प्रवेशग्रहणं च सूत्रे कृतम् । कुतः ? इत्याह- पद्मसरसा आदिशब्दाद् गर्तया पर्वतेन वा सम्परिक्षिप्ते ग्रामादी अन्यान्यद्वारकाणामपि पाटकानामेकमेव निष्क्रमणं भवेत्, तिसृषु दिक्षु पद्मसरः प्रभृतिव्याघातसम्भवादेकस्यामेव दिशि निष्क्रमण-प्रवेशौ भवत इति भावः । ततः किम् ? इत्याह
[ भा. २१३१] तत्थ वि य होंति दोसा, वीयारगयाण अहव पंथम्म । संकादीए दोसे, एगवियाराण वोच्छिहिई ॥
वृ- 'तत्रापि च ' तृतीयभङ्गे पृथक्पाटकेषु स्थितानामपि किं पुनः प्रथमभङ्गे द्वितीयभङ्गे वा स्थितानामित्यपिशब्दार्थः, 'विचारगतानां' संज्ञाभूमौ सम्प्राप्तानाम् अथवा तस्या एव 'पथि ' मार्गे गच्छतां 'दोषाः ' शङ्कादयो भवन्ति । ताँश्च शङ्कादीन् दोषान् 'एकविचाराणाम्' एकसंज्ञाभूमीकानां निर्ग्रन्थानां निर्ग्रन्थीनां च सूरि स्वयमेव नियुक्तिगाथाभिर्यथावसरमुत्तरत्र 'वक्षति' भणिष्यति ॥ तत्र प्रथमभङ्गे तावद् दोषानुपदिदर्शयिषुराह
[भा. २१३२] एगवगडं पडुच्चा, दोण्ह वि वग्गाण गरहितो वासो ।
जइ वसइ जाणओ ऊ, तत्थ उ दोसा इमे होंति ॥
वृ- एकवगडम् उपलक्षणत्वादेकद्वारंच क्षेत्रं प्रतीत्य 'द्वयोरपि वर्गयोः' साधु-साध्वीलक्षणयोरेकत्र वासः 'गर्हितः निन्दितः, न कल्पत इत्यर्थः । यदि सः 'ज्ञायकः' 'संयत्योऽत्र सन्ति' इति जानान--- स्तत्रागत्य वसति ततः 'इमे' वक्ष्यमाणा दोषा भवन्ति ॥ इदमेव सविशेषमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org