________________
१८
बृहत्कल्प-छेदसूत्रम् -२-१/९
कृ-रत्नाकर इव रत्नाकरः-जिनकल्पिकादिरलानामुत्पत्तिस्थानं यतो गच्छो वर्तते, निष्पादकश्च ज्ञान-दर्शन-चारित्रेषु एतेन कारणेन गच्छो महर्द्धिकः ॥ इदमेव भावयति[भा.२१२३] रयणेसु बहुविहेसुं, नीणिजंतेस नेव नीरयणो ।
अतरोतीरइ काउं, उप्पत्ती सो य रयणाणं ॥ [मा.२१२४] इय रयणसरिच्छेसुं, विमिग्गएसुं पि नेव नीरयणो ।
___ जायइ गच्छो कुणइ य, रयणब्भूते बहू अन्ने । वृ-न तरीतुं शक्यत इति 'अतरः' रलाकरः, स यथा बहुविधेषुरलेषु निष्काश्यमानेष्वपि नैव नीरलः' रलविरहितः कर्तुं शक्यते, कुतः? इत्याह-यतः ‘उत्पत्ति' आकरोऽसौरलानाम्। "इय" अनेनैव प्रकारेण गच्छरत्नाकरोऽपि रत्नसध्क्षेषु जिनकल्पिकादिषु विनिर्गतेष्वपि नैव नीरलो जायते, आचार्यादिरत्नानां सर्वदैव तत्र सद्भावात्, करोति च पश्चादपि बहूनन्यान् साधून रत्नभूतानिति गच्छो जिनकल्पिकश्च उभावपि महर्द्धिकौ इति ।
चूर्णिः-श्रीवद्धभाष्यप्रभृतिबहुतिथग्रन्थसार्थाभिरामाऽऽरामा
दर्थप्रसूनैरुचितमवचितैः सूक्तिसौरभ्यसारैः। चेतःपट्टे निधाय स्वगुरुशुचिवचस्तन्तुसन्तानहब्धैः,
श्रीकल्पे मासकल्पप्रकृतविवरणग्मया निर्मितयम् ॥ मू. (१०) सेगामंसिवाजावरायहाणिसिवाएगवगडाए एगदुवाराएएगनिक्खमण-प्पवेसाए नो कप्पइ निग्गंधाण य निग्गंथीण य एकतओ वत्थए ।
वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.२१२५] गाम-नगराइएसुं, तेसु उ खेत्तेसु कत्थ वसियव्वं ।
जत्थ न वसंति समणीमब्भासे निग्गमपहे वा।। वृ-ग्राम-नगरादिषु तेषु' पूर्वसूत्रोक्तेषु क्षेत्रेषु कुत्रवस्तव्यम् ? इति चिन्तायामनेन सूत्रेण प्रतिपाद्यते-यत्र 'अभ्यासे' स्वप्रतिश्रयासन्ने निर्गमपथे वा' निर्गमद्वारे श्रमण्यो न वसन्ति तत्र वस्तव्यमिति॥अथ प्रकारान्तरेण सम्बन्धमाह[भा.२१२६] अहवा निग्गंधीओ, दगुठिया तेसु गाममाईसु।
मा पिल्लेही कोई, तेणिम सुत्तं समुदियं तु॥ वृ-अथवा निर्ग्रन्थीस्तेषु ग्रामादिषुस्थिता दृष्ट्वा मा 'कश्चिद्' आचार्यादिस्तत्रागत्य प्रेरयेत्' निष्काशयेदिति एतेन कारणेनेदं सूत्रं समुदितं समायातम्॥ __अनेन सम्बन्धेनायातस्यास्य व्याख्या-अथ ग्रामे वा यावद् राजघान्यां वा यावत्करणाद नगरे वा खेटे वा इत्यादिपदपरिग्रहः । एकवगडाके एकद्वारके एकनिष्क्रमण-प्रवेशके च क्षेत्रे नो कल्पते निर्ग्रन्थानां च निर्ग्रन्थीनां च एकतो मिलितानां 'वस्तुम् अवस्थातुमिति सूत्रसङ्केपार्थः ।। विस्तरार्थं तु भाष्यकृदाह[मा.२१२७] वगडा उ पिस्खेवो, पुब्बुत्तो सो उ दव्वमाईओ।
दारं गामस्स मुहं, सो चेव य निग्गम-पवेसो।। वृ- ‘वगडा नाम' ग्रामादेः सम्बन्धी परिक्षेपः । स तु स पुनः परिक्षेपः 'द्रव्यादिकः' द्रव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org