________________
उद्देश : १, मूलं - ९, [भा. २११७]
मंडण वक्खित्ता, भत्तं पि न चेयई अपया ॥
वृ- या तु 'अप्रजा अप्रसवा सा 'परव्यापारविमुक्ता' अपत्यादिचिन्तावर्जिता 'नित्यं' सदा शरीरसंस्कारे-मुखधावनादौ तत्परा -परायणा 'मण्डनके' विलेपना -ऽऽभरणादौ व्याक्षिप्ता सती 'भक्तमपि' भोजनमपि 'न चेतयति' न संस्मरति ।। अर्थोपनयमाह
[भा. २११८] वेयावच्चे चोयण-वारण-वावारणासु य बहूसु । एमादीवक्खेवा, सयं झाणं न गच्छम्मि ॥
वृ-यथासप्रसायाः स्त्रियो बहुव्यापारव्यग्रता भवति तथा गच्छेऽपि यद् आचार्योपाध्यायादिवैयावृत्त्यम्, या च चक्रवालसामाचारी हापयतो नोदना, यां चाकृत्यप्रतिसेवनां कुर्वतो वारणा, याश्च बहवो वस्त्र-पात्राद्युत्पादनविषया व्यापारणाः तदेवमादिषु यो व्याक्षेपः - व्याकुलत्वं तस्माद्धेतोः 'गच्छे' गच्छ्वासिनां 'सततं' निर्तरं 'ध्यानम्' एखाग्रशु-भाध्यवसायात्मकमात्मनो मण्डनकल्पं न भवति । नकल्पिकस्य तु वैयावृत्त्यादिव्याक्षेपरहितस्य निरपत्यस्त्रिया आत्मनो मण्डनमिव निरन्तमेव तथा तद् उपजायते यथा भोक्तुमपि स्पृहा न भवति ॥ अथ गोवर्गद्वयदृष्टान्तमाह[ भा. २११९] सहूलपोइयाओ, नस्संतीओ वि नेव धेनूओ ।
I
मोत्तूण तन्नगाई, दवंति सपरक्कमाओ वि ।।
कृ- ' धेनवः' अभिनवप्रसूता गावस्ताः 'शार्दूलेन' व्याघ्रेण 'पोतिताः' त्रासिताः सत्यो नश्यन्त्योऽपि 'तर्णकानि' वत्सरूपाणि मुक्त्वा 'सपराक्रमा अपि' समर्था अपि 'नैव द्रवन्ति' न शीघ्रं पलायन्ते, अपत्यसापेक्षत्वात् ॥
१७
[भा. २१२० ] न विवच्छएसु सज्जंति वाहिओ नेव वच्छमाऊसु । सबलमगूहंतीओ, नस्संति भएण वग्धस्स ॥
कृ- यास्तु "वाहिओ" बष्कयिण्यस्ता नापि वत्सकेषु 'सजन्ति' ममत्वं कुर्वन्ति, नापि 'वत्समातृषु' धेनुषु, किन्तु स्वबलमगूहमाना व्याघ्रस्य भयेन नश्यन्ति निरपेक्षत्वात् । एष दृष्टान्तः । अथार्थोपनयमाह
[भा. २१२१] आयसरीरे आयरिय बाल-वुड्ढेसु आवि सावेक्खा । कुल- गण - संघेसुतहा, चेइयकज्जाइएसंच ।।
वृ- यथा धेनवस्तथा गच्छ्वासिनोऽप्यात्मशरीरे आचार्य- बाल-वृद्धेषु अपि च कुल-गणसङ्घकार्येषु चैत्यादिकार्येषुच सापेक्षाः, अतः संसारव्याघ्रभयेन नश्यन्तोऽपि संहननादिबलोपेता अपि न शीघ्रं पलायन्ते । जिनकल्पिकास्तु भगवन्त आत्मशरीरादिनिरपेक्षा अधेनुगाव इव स्ववीर्यमगूहमानाः संसारव्याघ्राद् निप्रत्यहं पलायन्ते । यद्येवं तर्हि जिनकल्पो महर्द्धिकतर इत्यापन्नम्, मैवं वादी, जिननिजनिरुपमगुणैरुभयोरपि तुल्यकक्षत्वात् । तथाहि अत्यन्ताप्रमादनिष्प्रतिकर्मतादिभिर्गुणैर्जिनकल्पो महर्द्धिकः, परोपकार-प्रवचनप्रभावनादिभिश्च गुणैः स्थविरल्पिको महर्द्धिक इति ॥ अपि च[ भा. २१२२]
रयणायरो उ गच्छो, निष्फादओ नाण- दंसण-चरिते । एएण कारणेणं, गच्छोउ भवे महिड्डीओ ॥
19 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org