SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-१०, [भा. २१३९] २१ शिष्टे सति करिष्यथ वा न वा 'एनम् अस्मदभिप्रेतमर्थमिति चयं न विद्मः । कुतः ? इत्याह'क्षौद्रमुखाः' मधुमुखा मधुरभाषिण इत्यर्थः सन्ति' विद्यन्ते 'इह' अस्मिन् गच्छे भवतां वल्लभेश्वराः ये जिनवाचमपि 'कोपयेयुः' अन्यथा कुर्यु, आस्तां तावदस्मदादिवचनमित्यपिशब्दार्थः॥ [भा.२१४०] इइ सपरिहास निब्बंधपुच्छिओ बेइ तत्थ समणीओ । बलियपरिग्गहियाओ, होह दढा तत्थ वच्चामो॥ वृ-'इति' एवं सपरिहां तेनोक्ते आचार्यै स महता निर्बन्धेन पृष्टः-कथम भद्र ! कीशस्तत्र दोषो विद्यते? ततः स ब्रवीति-तत्र श्रमण्यो बलिना-बलवता आचार्यादिना परिगृहीता विद्यन्ते, परंतथापि यूयं ६ढा भवत' मा कामपि शङ्का कुरुध्वम्, अत्रार्थे सर्वमप्यहं भलिष्यामि, अतस्तत्र व्रजामो वयम् । एवं भणतः प्रायश्चित्तमाह[भा.२१४१] भिक्खू साहइ सोउं, भणइ जइ वञ्चिभो तहिं मासो। लहुगा गुरुगा वसभे, गणिस्स एमेवुवेहाए॥ वृ-यदि भिक्षुरनन्तरोक्तं वचनं कथयति श्रुत्वा वा यदि भिक्षुरेव भणति 'बाढम्, व्रजामनत्र वयम्' ततो मासलघु प्रायश्चित्तम् । अथ वृषभः' उपाध्याय एवं ब्रवीतिप्रतिशृणोति वा ततस्तस्य चत्वारो लघवः । गणिनः' आचार्यस्येत्यं भणतःप्रतिश्र ण्वतोवाचत्वारोगुरवः । एवमेवोपेक्षायामपि द्रष्टव्यम् । किमुक्तं भवति ? -इत्थं तेनोक्ते 'व्रजामो वयम्' इतिवा प्रतिश्रुते यदि भिक्षुरुपेक्षा करोति तदातस्यलघुमासिकम्, वृषभस्योपेक्षमाणस्य चतुर्लघु,आचार्यस्योपेक्षांकुर्वाणस्य चतुर्गुरु॥ अथवा[भा.२१४२] सामस्थण परिवच्छ, गहणे पयभेद पंथ सीमाए। . गामे वसहिपवेसे, मासादी भिक्खुणो मूलं ॥ वृ-भिक्षु 'तत्र गन्तव्यम् ? न वा?' इति “सामत्थणं" देशीशब्दत्वात् पर्यालचनं करोति मासलघु। “परिवच्छित्ति देशीशब्दोऽयं निर्णयार्थे वर्त्तते, ततो गन्तव्यमेव तत्र' इति निर्णय करोतिमासगुरु । “गहणे"त्ति निर्णीय यधुपधिं गृह्णातिततश्चतुर्लघु । पदभेदं कुर्वतश्चतुर्गुरुकम्। पथि व्रजतः षड्लघुकम् । ग्रामसीमायां प्राप्तस्य षड्गुरुकम् । ग्रामं प्राप्तस्य च्छेदः । वसतौ प्रवेशं कुर्वतो मूलम् । एवं भिक्षोलघुमासादारभ्य मूलं यावत् प्रायश्चित्तमुक्तम् ।। [भा.२१४३] गणि आयरिए सपदं, अहवा वि विसेसिया भवे गुरुगा। भिक्खूमाइचउण्हं, जइ पुच्छसि तो सुणसु दोसे ।। घृ. 'गणिनः' उपाध्यायस्य मासगुरुकादारभ्य स्वपदमनवस्थाप्यं यावत्, आचार्यस्य तु चतुर्लघुकादारभ्य स्वपदं पाराञ्चिकं यावत् प्रायश्चित्त ज्ञेयम् । अथवा भिक्षु-वृषभो-पाध्यायाऽऽचार्याणां चतुर्णामपि तपः-कालविशेषिताश्चतुर्गुरुकाः । तद्यथा-भिक्षोभ्यिामपिलघवः तपसा कालेन च, वृषभस्य कालेन गुरवस्तपसा लघवः, उपाध्यायस्य तपसा गुरवः कालेन लघवः, आचार्यस्य तपसा कालेन च द्वाभ्यामपि गुरवः । अथ के पुनस्तत्र तिष्ठतां दोषाः ? इति यदि पृच्छसि ततः शृणु' निशमय दोषान्मयाऽभिधीयमानान्॥तानेवाभिधित्सुराह[भा.२१४४] अन्नतरस्स निओगा, सव्वेसि अनुप्पिएण वा ते तु। देउल सभ सुन्ने वा, निओयपमुहे ठिया गंतुं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy