________________
उद्देशकः १, मूलं-८, [भा. २०५४] कथम् ? इत्याह-"णंत"ति वस्त्राणि तैर्निमन्त्रणं कृत्वा 'वहने' प्रवहणे चैत्यवन्दनार्थमारूढानां संयतीनां तेन 'आक्षेपणम् अपहरणंकृतमिति।।जहा-भरूअच्छेआगंतुगवाणियओतच्चनियसो संजईओ रूववईओ दळूण कवडसत्तणं पडिवनो । ताओ तस्स वीसंभियाओ । गमनकाले पवत्तिणि विनवेइ-वहणट्ठाणे मंगलद्वापडिलाहणंकरेमितो संजईओ पट्टवेह, अम्हे विअनुग्गहिया होजामो।तओपट्टविया ।तत्यगयाकवडसट्टेणंभत्रंति-पढमंवहणेचेइयाइंवंदह, तो पडिलाहणं करेमि त्ति। ताओ जाणंति-अहो ! विवेको । तओ चेइयवंदनत्थमारूढाणं पयट्टियं वहणं, जाव आसियावियाओ। [भा.२०५५] एएहि कारणेहिं, न कप्पई संजईण पडिलेहा।
गंतव्व गणहरेणं, विहिनाजो वनिओ पुट्विं ।। -एतैः कारणैः संयतीनां क्षेत्रप्रत्युपेक्षाकर्तुंन कल्पते।केन पुनस्तर्हि प्रत्युपेक्षणाय गन्तव्यम्? इत्याह-गन्तव्यं गणधरेण विधिना । कः पुनर्विधि? इत्याह-यःपूर्वमत्रैवमासकल्पप्रकृते स्थविरकल्पिकविहारद्वारे वर्णितः। आह कीशं क्षेत्रंतासां योग्यं गणधरेण प्रत्युपेक्षणीयम्? उच्यते[भा.२०५६] जत्थाहिवई सूरो, सपणाणं सोय जाणइ विसेसं ।
एतारिसम्मि खेत्ते, समणाणं होइ पडिलेहा॥ [भा.२०५७] जहियं दुस्सीलजणो, तक्कर-सावयभयंव जहि नत्थि।
निप्पञ्चवाय खेते, अज्जाणं होइ पडिलेहा ।। वृ-'यत्र' ग्रामादौ अधिपति' भोगिकादिकः 'शूरः' चौर-चरटादिभिरनभिभवनीय इत्यर्थः, स च 'श्रमणानां साधूनां विशेष जाना, यथा-ईशममीषां दर्शने व्रतम्, ईशश्च समाचारः । एताशे क्षेत्रेसाध्वीयोग्ये श्रमणानां प्रत्युपेक्षणा भवति, एवंविधं क्षेत्रंतासांहेतोः प्रत्युपेक्षणीयमिति भावः॥तथायत्रदुःशीलजनः तस्कर-श्वापदभयंवायत्रनास्तिई शेनिष्प्रत्यपाये क्षेत्रेआर्यिकाणां प्रायोग्ये प्रत्युपेक्षणा कर्तव्या भवति ।। अथ वसतिद्वारमाह[भा.२०५८] गुत्ता गुत्तदुवारा,कुलपुत्ते सत्तमंत गंभीरे।
भीयपरिस मद्दविए, ओभासण चिंतना दाने ।। वृ-'गुप्ता' वृत्या कुड्येन वा परिक्षिप्ता । 'गुप्तद्वारा' कपाटद्वयोपेतद्वारा । यस्यांच शय्यातरः कुलपुत्रकः, कथम्भूतः ? 'सत्त्ववान् न केनापि क्षोभ्यते, महदपिच प्रयोजनं कर्तुमध्यवस्यति। 'गम्भीरो नाम' संयतीनां पुरीषाद्याचरणं दृष्ट्वाऽपि विपरिणामं न याति । तथा मीता-चकिता पर्षयस्य स भीतपर्षद्, आजैकसारतया यस्य भृकुटिमात्रमपि दृष्टवा परिवारः सर्वोऽपि भयेन कम्पमानस्तिष्ठति न च कचिदन्याये प्रवृत्तिं करोति । मार्दवम्-अस्तब्धता तद् विद्यते यस्य स मार्दविकः । एवंविधोयदि कुलपुत्रको भवतिततः "ओभासण"त्ति संयतीनामुपाश्रयस्यावभाषणं कर्तव्यम् । अवभाषितेच यद्यसावुपाश्रयमनुजानीते-अनुग्रहो मे, तिष्ठन्तु भगवत्यो यथाऽभिप्रेतं कालमत्र' इति ततो भण्यते-"चिंतन"ति यथा स्वकीयाया दुहितुः स्नुषाया वा चिन्तां करोषि तथा यद्येतासामपि प्रत्यनीकादुपसर्गरक्षणे चिन्तां कर्तुमुत्सहसे ततोऽत्र स्थापयामः । स प्राहबाढं करोमिचिन्तांपरं कथं पुनरमूरक्षणीयाः? ततोऽभिधातव्यम्-यथा किलाक्षिणी स्वहस्तेन परहस्तेन वा दूयमाने रक्ष्येते तथैता अपि यद्यात्समानुषैरपरमानुषैर्वा उपद्यमाणा रक्षसि तत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org