________________
दृहत्कल्प-छेदसूत्रम् -२-१/८ द्रव्यक्षेत्राधापदुदयेऽपि निश्चलः सवधर्मा, राजदन्तादित्वाद् दृढशब्दस्य पूर्वनिपातः । संविग्नो द्विधा-द्रव्यो भावतश्च ।तत्र द्रव्यतो मृगः, सदैव त्रस्तमानसत्वात् । मावतोयः संसारभयोद्विग्नः सन् नित्यं पूर्वरात्रा-ऽपररात्रकाले सप्रेक्षते-किं मया कृतम् ? किं वा मे कर्तव्यशेषम् ? किंवा शक्यमपि तपः कर्मादिकमहं न करोमि ? इत्यादि । “वज्ज"त्ति अकारप्रश्लेषाद् अवद्य-पापं "सूचनात् सूत्रम्” इति कृत्वा तद्भीरु-अवद्यभीरु । ओजः तेजश्च उभयमपि वक्ष्यमाणलक्षणं तद् विद्यते यस्य स ओजस्वी तेजस्वी चेति । साहः-द्रव्यतोवस्त्रादिभिर्भावतः सूत्रार्याभ्याम्, उपग्रहः-द्रव्यतऔषधादिभिर्भावतो ज्ञानादिभिः, एतयोः संयतीविषययोः सङ्गहोपग्रहयोः कुशलःदक्षः।तथा सूत्रार्थविद् गीतार्थः। एवंविधः ‘गमाधिपति' आर्यिकाणांगणधरः स्थापनीयः॥ अथौजस्तेजसी व्याचष्टे[मा.२०५१] आरोह-परीणाहा, चियमंसो इंदिया य पडिपुन्ना ।
अह ओओ तेओ पुन, होइ अनोतप्पया देहे ॥ वृ-आरोहोनाम-शरीरेण नातिदैर्ध्य नातिहस्वता, परिणाहोनाम-नातिस्थौल्यं नातिदुर्बलता; अथवा आरोहः-शरीरोच्छ्रायः परिणाहः-बाहोर्विष्कम्मः, एतौ द्वावपि तुल्यौ न हीनाधिकप्रमाणौ । “चियमंसो"त्ति भावप्रधानत्वाद् निर्देशस्य 'चितमांसत्वं नाम' वपुषि पांसुलिका नावलोक्यन्ते। तथा इन्द्रियाणि च प्रतिपूर्णानि, न चक्षु-श्रोत्राद्यवयवविकलतेति भावः । अथ' एतद् आरोहादिकमोजउच्यते, तद्यस्यास्तिसओजस्वी तेजः पुनः 'देहे शरीरे 'अनपत्रप्यता' अलज्जनीयता दीप्तियुक्तत्वेनापरिभूतत्वम्, तद् विद्यते यस्य स तेजस्वी ।। गतं गणधरप्ररूपणाद्वारम् । अथ क्षेत्रमार्गणाद्वारमाह[भा.२०५२] खित्तस्स उ पडिलेहा, कायव्वा होइ आनुपुव्वीए।
किं वच्चई गणहरो, जो चरई सोतणं वहइ॥ -'क्षेत्रस्य' संयतीप्रायोग्यस्य 'आनुपूर्व्या "थुइमंगलमामंतण" इत्यादिना पूर्वोक्तक्रमण प्रत्युपेक्षणा गणधरेणकर्तव्या । आह किं केन हेतुनागणधरः स्वयमेव क्षेत्रप्रत्युपेक्षणाय व्रजति? उच्यते-योबलीवादिश्चारिं चरतिसएवतृणभारंवहति, एवंयोनिर्ग्रन्थीगणस्याधिपत्यमनुभवति स एव सर्वमपि तच्चिन्ताभारमुद्वहति ॥आह संयत्यः किमर्थं न गच्छन्ति ? इत्युच्यते[भा.२०५३] संजइगमणे गुरुगा, आणादी सउणि पेसि पिल्लणया।
उवलोभे तुच्छा आसियावणाइणो भवे दोसा ।। कृ-यदि संयत्यः क्षेत्रं प्रत्युपेक्षितंगच्छन्तितत आचार्यस्य चतुर्गुरव आज्ञादयश्च दोषाः । यथा 'शकुनिका' पक्षिणी श्येनस्य गम्या भवति यथा वा "पेसि"त्ति मांसपेशिका आम्रपेशिका वा सर्वस्याप्यभिलषणीया भवति तथा एता अपि; अत एव “पेल्लणय"त्ति विषयार्थिना प्रेर्यन्ते । तथा तुच्छास्ताः, ततो येन तेनाप्याहारादिलोभेनोपप्रलोभ्य आसियावणम्-अपहरणंतासां क्रियते। एवमादयो दोषा भवन्ति ।। इदमेव भावयति[भा.२०५४] तुच्छेण विलोभिज्जइ, भरुयच्छाहरण नियडिसडेणं ।
जंतनिमंतण वहणे, चेइय रूढाण अक्खिवणं॥ कृतुच्छेनापिआहार-वस्त्रादिना स्त्रीलोभ्यते।अत्रच भृगुकच्छप्राप्तेननिकृतिश्राद्धेनोदाहरणम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org