SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -२-१८ एतारक्षिताभवन्तीति। यद्येवं प्रतिपद्योपाश्रयस्यदानंकरोतिततः स्थापनीयाः । अथाप्रतिपद्यमाने स्थापयन्ति ततश्चत्वारो गुरुकाः ।। अन्याचार्याभिप्रायेणामुमेवार्थमाह[भा.२०५९] घनकुड्डा सकवाडा, सागारियमाउ-भगिनिरंता। निप्पच्चवाय जोग्गा, विच्छिन्नपुरोहडा वसही। वृ-'धनकुड्या' पक्वेष्टकादिमयमित्तिका, ‘सकपाटा' कपाटोपेतद्वारा, सागारिकसत्कानां मातृमगिनीनां गृहाणि पर्यन्ते-पार्श्वतो यस्याः सा सागारिकमात-भगिनीगृहपर्यन्ता, गाथायामनुक्तोऽपिगृहशब्दोऽत्रद्रष्टव्यः, 'निष्प्रत्यपाया' दुर्जनप्रवेशादिप्रत्यपायरहिता, विस्तीर्णंपुरोहडंगृहपश्चाद्भागो यस्यां सा विस्तीर्णपुरोहडा, एवंविधा वसति संयतीनां योग्या।। [भा.२०६०] नासन्ने नातिदूरे, विहवापरिणयवयाण पडिवेसे । मज्झत्य-ऽवियाराणं, अकुऊहल-भावियाणं च ।। वृ- विधवाश्च ताः परिणतवयसथ-स्थविरस्त्रियस्तासाम् तथा मध्यस्थाना-कन्दादिभाविकलानाम् अविकाराणां-गीतादिविकाररहितनाम् अकुतूहलानां-'संयत्यो भोजनादिक्रियाः कथं कुर्वन्ति ?' इति कौतुकवर्जितानाम् भावितानां-साधु-साध्वीसामाचारीवासितानांसम्बन्धि यत् प्रतिवेश्म-प्रत्यासनगृहं तत्र नासन्ने नातिदूरे संयतीप्रतिश्रयो ग्राह्यः ।। अथान्याचार्यपरिपाट्या शय्यातरस्वरूपमाह[भा.२०६१] भोइय-महतरगादी, बहुसयणो पिल्लओ कुलीनो य। परिनतवओअभीरू, अनभिग्गहिओ अकुतूहली।। वृ-यो भोगिक महत्तरादि बहुस्वजनः' बहुपाक्षिकः, तथा प्रेरकः षिङ्गादीनांस्वगृहे प्रविशतां निवारकः, कुलीनः परिणतवयाश्चप्रतीतः, अभीरु' उत्पन्ने महत्यपि कार्येन बिभेति कथमेतत् कर्तव्यम् ?' इति, 'अनभिगृहीतः' आभिग्रहिकमिथ्यात्वरहितः, 'अकुतूहली' संयतीनां भोजनादिदर्शने कौतुकवर्जितः।।। [भा.२०६२] कुलपुत्त सत्तमंतो, भीयपरिस भद्दओ परिणओ अ। धम्मट्ठी य विनीओ, अञ्जासेजायरो भणिओ॥ वृ-यस्तु कुपुत्रकः ‘सत्त्ववान् न केनाप्यभिभवनीयः, भीतपर्षत् प्राग्वत्, 'भद्रकः' शासने बहुमानवान्, परिणतो वयसा मत्यावा, तथा धर्मार्थी' धर्मश्रद्धालुः, विनीतः' विनयवान्, एष आर्यिकाणां शय्यातरो भणितस्तीर्थकरैः । गतं वसतिद्वारम् । अथ विचारद्वारमाह[भा.२०६३] अनावायमसंलोगा, अणावाया चेव होइ संलोगा। आवायमसंलोगा, आवाया चेव संलोगा। वृ-अनापाता असंलोका १ अनापाता संलोका २ आपाता असंलोका ३ आपाता संलोका चेति चतो विचारभूमयः।। एतासुसंयतीनां विधिमाह[भा.२०६४] वीयारे बहि गुरुगा, अंतो वि य तइयवञ्जितेचेव। तइए विजत्थ पुरिसा, उति वेसित्थियाओ अ॥ वृ-यदि पुरोहडे विद्यमाने संयत्यो ग्रामाद् बहिर्विचारभुवं गच्छन्ति ततश्चतुर्वपि स्थण्डिलेषु प्रत्येकं चतुर्गुरुकाः प्रायश्चित्तम् । 'अन्तरपिच ग्रामाभ्यन्तरे पुरोहडादौ आपातासंलोकलक्षणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy