________________
५१०
बृहत्कल्प-छेदसूत्रम् -१-१/६
अपिशब्दो व्यादिसङ्ख्याकासु वसतिषु तिष्ठन्तः सुतरां भिक्षाचर्यायां पर्यतन्ते इति सूचनार्थ । यत्र त्वेकैव भिक्षाचर्याप्राप्यते तत्रैकस्यामपि भिक्षाचर्ययां पर्यटद्भिः एवमेव वसतिष्वपि यतना कर्तव्या उक्तमपवादद्वारम्।तदुक्तौच समर्थित “पडिलेहण निक्खमणे' इति द्वारगाथा-द्वयम्॥
सूत्रम्
मू. (७) से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि सबाहिरियसि कप्पइ निग्गंथाणं हेमंत-गिम्हासु दो मासे वत्थए । अंतो इकं मासं, बाहिं इक्कं मासं । अंतो वसमाणाणं अंतो भिक्खायरिया, बाहिं वसमाणाणं बाहिं भिखायरिया ।। __ वृ-अस्य सम्बन्धो व्याख्या च प्राग्वत् । नवरं 'सबाहिरिके' प्राकारबहिर्वतिगृहपद्धतिरूपया बाहिरिकया सहिते कल्पते निर्ग्रन्थानां हेमन्त-ग्रीष्मेषु द्वौ मासौ वस्तुम् । कथम्? इत्याह- 'अन्तः' प्राकाराभ्यन्तरे एकं मासम्, 'बहिः' बाहिरिकायामप्येकं मासम् । अन्तर्वसतामन्तर्भिक्षाचर्या, बहिर्वसतां बहिर्भिक्षाचर्येति ।। अथ भाष्यविस्तर:[भा.२०३४] एसेव कमो नियमा, सपरिखेवे सबाहिरीयम्मि ।
नवरं पुन नाणत्तं, अंतो मासो बहिं मासो।। कृ'एष एव' प्रथमसूत्रोक्तः क्रमः सपरिक्षेपे सबाहिरिकेऽपि ग्रामादौ नियमाद्द्वक्तव्यः । नवरंपुनः 'नानात्वं विशेषोऽयम्-'अन्तः प्राकाराभ्यन्तरेमासोबहिरपिमास इत्येवं मासद्वयंऋतुबद्धे स्थातव्यम्।। [भा.२०३५] पुन्नम्मि मासकप्पे, बहिया संकमण तं पितह चेव ।
नवरंपुन नाणत्तं, तणेसु तह चेव फलएसु॥ वृ-आभ्यन्तरे मासकल्पे पूर्णे 'बहिः' बाहिरिकायां सङ्क्रमणं कर्त्तव्यम् । तदपि सङ्क्रमणं 'तथैव' पूर्वसूत्रवद्रष्टव्यम्। नवरंपुनरत्र नानात्वं तृणेषु तथाफलकेषु । तत्र यदि बाहिरिकायामेव तृण-फलकानि प्राप्यन्ते ततस्तत्रैव ग्रहीतव्यानि | अथ तत्र तानि न लभ्यन्ते ततोऽन्यं ग्राम व्रजन्तु, अथ तत्राशिवादीनि कारणानि तत आभ्यन्तराण्येव तृण-फलकानि बाहिरिकायां नेतव्यानि ।। तत्र विधिमाह[भा.२०३६] अनउवस्सयगमणे, अनपुच्छा नत्थि कंचि नेयव्वं ।
जइ नेइ अनापुच्छा, तत्थ उ दोसा इमे होति ।। वृ-द्वितीये मासकल्पे बाहिरिकायामन्यमुपाश्रयं गच्छद्भिरनापृच्छया नास्त किञ्चित् तृणफलकादि नेतव्यम्। बाहिरिकायामन्यमुपाश्रयं गच्छभिरनापृच्छया नास्ति किञ्चित्तृण-फलकादि नेतव्यम् । यद्यनापृच्छया नयति ततस्तत्रेमे दोषा भवन्ति ।। [भा.२०३७] ताईतण-फलगाई, तेनाहडगाइं अप्पणो वा वि।
निजंतय-गहियाई, सिट्ठाइँ तहा असिट्ठाई। वृतानि तृण-फलकानि येन साधूनां दत्तानि तस्य स्तेनाहृतानि वा भवेयुः आत्मसम्बन्धीनि वा । तानि च प्रतिश्रयान्तरं नीयमानानि-प्राप्यमाणानि गृहीतानि वा-नीतानि सन्ति शिष्टानि अशिष्टानि वा भवेयुः ॥ शिष्टा-ऽशिष्टपदद्वयं व्याख्यानयति[भा.२०३८] कस्सेते तण-फलगा, सिढे अमुकस्स तस्स गहणादी ।
निण्हवइ व सो भीओ, पच्चंगिर लोगमुड्डाहो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org