________________
उद्देश : १, मूलं-७, [भा. २०३८]
५११
वृ- सेतनाहृतानि तृण- फलकान्यनापृच्छया नीयमानानि पूर्वस्वामिना राजपुरुषैर्वा ध्ष्टानि ततः साधुः पृष्टः कस्यैतानि ? साधुः प्राह-अमुकस्य गृहपतेः इति 'शिष्टे' कथिते सति तस्य ग्रहणाऽऽकर्षणादयो दोषा भवन्ति । अथासौ साधुः भीतः सन् 'निह्नुते' अपलपति न कथयतीत्यर्थः ततोऽशिष्टे साधोः प्रत्यङ्गिरादोषो भवति, तृण- फलकदायकस्य गृहपतेः सम्बन्धी यश्चौर्यकरणलक्षणो दोषः स परकीयोऽप्यात्मनि लगतीत्यर्थः ।
लोके चोड्डाहो भवति - अहो ! साधवोऽपि परद्रव्यमपहरन्ति ।। अथात्रैव प्रायश्चित्तमाह[ भा. २०३९] नयने दिट्ठे सिट्टे, गिण्हण कड्डण ववहारमेव ववहरिए । लहुओ लहुगा गुरुगा, छम्मासा छेय मूल दुगं ।।
वृ- स्तेनाहृततृणानामपृच्छया बाहिरिकायां नयनं करोति लघुको मासः । अथ तानि नीयमानानि राजपुरुषैर्धष्टानि ततश्चत्वारो लघुकाः । तैः पृष्टे साधुना 'शिष्टं' कथितं यथा अमुकस्येति ततश्चत्वारो गुरुकाः । अथ स गृही राजपुरुषैर्गृहीतस्ततो ग्रहणेऽपि चत्वारो गुरुकाः । अथासौ तै राजपुरुषै राजकुलाभिमुखमाकर्षितस्ततः षण्मासा लघवः । अथ राजकुलाभिमुखमाकर्षतस्तान् स गृहस्थः प्रतिलोममाकर्षति ततः षड् गुरुकाः । अथ राजकुलं नीत्वा व्यवहारं कारितस्ततः छेदः । व्यवहृते सति यदि स गृहस्थः पश्चात्कृतस्ततो मूलम् । ततो बहुलोकसमक्षमुग्धे हस्त-पादाद्यवयवव्यङ्गिते वा कृतेऽनवस्थाप्यम् । अपद्राविते निर्विषये वाकृते पाराञ्चिकम् । सर्वत्र संयतस्यैतत् प्रायश्चितम् ॥ अथ निह्नवनपदं व्याख्याति
[भा. २०४०] अहवा वि असिम्मी, एसेव उ तेण संकणे लहुगा । संकियम्मि गुरुगा, एगमनेगे य गहणादी ॥
वृ- अथवा मया कथिते सत्येष तृणफलकदाता ग्रहणा - ऽऽकर्षणादिकं प्राप्स्यते इति मत्वा यदि न कथयति ततः ‘अशिष्टे' अकथिते एष एव स्तेनः सम्भाव्यत इत्येवं 'शङ्कने' शङ्कायां राजपुरुषैः किर्यमाणायां चतुर्लघुकाः । निशङ्किते चत्वारो गुरवः । ततश्च तस्यैवैकस्यानेकेषां वा साधूनां ग्रहणादयो दोषा भवन्ति ।। तद्यथा
[ भा. २०४१ ]
नयने दिट्ठे गहिए, कढण चवहारमेव ववहरिए । उड्डुहणे य विरुंगण, उद्दवणे चेव निव्विसए ।
[ भा. २०४२ ] लहुओ लहुया गुरुगा, छल्लहु छग्गुरुग छेय मूलं च । अनवट्टप्पो दोसु अ, दोसु अ पारंचिओ होइ ।।
वृ-तृणानि प्रतिश्रयान्तरमनापृच्छया नयति लघुको मासः । राजपुरुषैर्धष्टेषु चत्वारो लघवः । ततः पृष्टे साधुना च निह्नुते नृपपुमांसस्तस्य साधोर्ग्रहणं कुर्वन्ति चत्वारो गुरवः । राजपुरुषैः 'त्वं चौर:' इत्युक्त्वा राजकुलाभिमुखमाकर्षणे कृते सति षण्मासा लघवः । अथ ते राजकुलाभिमुखमाकर्षन्ति साधुश्च तान् प्रतीपमाकर्षति एवं कर्षणाकर्षणे षण्मासा गुरवः । व्यवहारे प्रारब्धे छेदः । व्यवहृते यदि संयतः पश्चात्कृतस्ततो मूलम् । उड्डुहन-व्यङ्गनयोर्द्वयोरनवस्थाप्यः । अपद्रावण-निर्विषयाज्ञापनयोर्द्वयोः पाराञ्चिक इति ॥
आह कथं पुनस्तृणानि स्तेनाहृतानि सम्भवन्ति ? इत्युच्यते[भा. २०४३ ] दंतपुरे आहरणं, तेनाहड बब्बगादिसु तनेसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org