________________
उद्देशक : १, मूलं-६, [भा. २०२९]
पूर्यते चतुर्भागादिरचनयाऽपि क्रियमाणं परं तत्राप्यवमादीनि समुत्पन्नानि, तत्रावमं ताशमुत्पन्नं यादृशे चतुर्भागादिपरिपाट्या पर्यटन्तो न संस्तरन्ति, अशिवे भागाभागान्तरेषु सङ्क्रामतामशिवं सञ्चरति, राजद्विष्टेऽपरापरभागेषु सञ्चरन्तः प्रकटीभवन्ति, अतस्त्रिष्वप्यवमाऽशिव-राजद्विष्टेषु पूर्वार्द्धप्रत्याचक्षते, ये पूर्वार्द्धप्रत्याख्यातारस्ते एकाशनं प्रत्याख्यान्तीत्यादि । अथ यतनामेव स्पष्टयति[भा. २०३० ] मासे मासे वसही, तण डगलादी य अन्न गिण्हंति । भिक्खायरिय-वियारा, जहिं ठिया तत्थ नऽत्रासु ॥
वृ-मासे मासे वसतिरन्या तृण- डगलादीनि च पूर्वपरिभुक्तानि परित्यज्य अन्यानि गृह्णन्ति । यस्मिश्च भागे मासकल्पं स्थितास्तत्रैव भागे तस्मिन् मासे भिक्षाचर्यां विचारभूमिं च गच्छन्ति 'नान्यासु' भिक्षा- विचारभूमिषु ॥ अथ भागकरणस्यैव विधिमाह
[भा. २०३१]
अट्ठाइ जाव एक्कं करिति भागं असंथरे गामं । अट्ठाइ च्चिय वसही, जयंति जा मूलवसही उ ॥
वृ- कदाचिदष्टौ ऋतुबद्धमासान् ग्लानकार्येण स्थातव्यं भवेद् अतो ग्राममष्टौ भागान् कु र्वन्ति । ततः प्रथमेऽष्टभागे वसतिं तृण- डगलादीनि च गृह्णन्ति, मासं च यावत् प्रथम एवाष्टभागे भिक्षाचर्यां विचारभूमिगमनं च कुर्वन्ति । ततो यदि मध्येमासं पूर्णे वा मासे ग्लानः प्रगुणीभतस्ततस्तदैव निर्गन्तव्यम् । अथ न प्रगुणीभूतस्ततः पूर्णे भासे द्वितीयेऽष्टभागे तिष्ठन्ति, तत्राप्येष एव विधिर्मन्तव्यः । एवं तृतीयमष्टभागमादौ कृत्वा अष्टममष्टभागं यावद् द्रष्टव्यम् । अथाष्टभिर्भागैर्विभक्ते ग्रामे न संस्तरति ततः सप्तभागीकृत्य तथैव यतन्ते । एवमप्यसंस्तरणे षड् भागानादौ कृत्वा यावदेकमपि भागं कुर्वन्ति । एवं वसतीरपि प्रथमतः पृथक् पृथग् मासकल्पप्रायोग्या अष्टौ गृह्णन्ति । तदभावे सप्त-षट् पञ्चादिक्रमेण यतन्ते, यावत् तस्यामेव मूलवसतौ तिष्ठन्ति ॥ अथात्रैव भङ्गकानाह[भा. २०३२]
५०९
इत्थं पुन संजोगा, इक्किक्कस्स उ अलंभे लंभे य । गाविहाणगुणिया, तुला तुल्लेसु ठाणेसु ॥
वृ- अत्र पुनः क्रमे 'एकैकस्य' वसतिभागस्य भिक्षाचर्याभगस्य वा अलाभे लाभे च यानि तुल्यानि समानसङ्ख्याकानि स्थानानि अतुल्यानि - विसध्शसङ्ख्याकानि तेषु विधानेनचारणिकाविधिना गुणिताः सन्तः 'अनेके' बहवः 'संयोगाः ' भङ्गका भव्ति । चारणिकाक्रमश्चायम्अष्टौ वसतोऽष्टौ भिक्षाचर्या १ अष्टौ वसतयः सप्त भिक्षाचर्या २ एवं षड् भिक्षाचर्या ३ पञ्च भिक्षाचर्या ४ चतस्रो भिक्षाचर्या ५ तिस्रो भिक्षाचर्या ६ द्वे भिक्षाचर्ये ७ एका भिक्षाचर्या ८,
एवं सप्त वसतोऽष्टौ भिक्षाचर्या १ सप्त वसतयः सप्त भिक्षाचर्या २ इत्यादिचारणिकया सप्तादिसङ्घयास्वपि वसतिविषयासु प्रत्येकमष्टावष्टौ भङ्गकाः प्राप्यन्ते, सर्वसङ्घयया लब्धा भङ्गकानां चतुःषष्टिरिति ॥ अथैतेष्वेव भङ्गकेषु विधिमाह
[भा. २०३३] एक्काइ वि वसहीए, ठिया उ भिक्खयरियाए पयतंति । वसहीसु विजयणेवं, अवि एक्काए वि चरियाए ।
वृ- येषु भङ्गकेष्वेकैव वसति प्राप्यते तेष्वेकस्यामपि वसतौ स्थिता भिक्षाचर्यायां प्रयतन्ते, प्रथममष्टौ भागान् ग्रामं विभज्य भिक्षां पर्यटन्ति, असंस्तरणे यावदेकमपि भागं कृत्वेति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org