SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ परिभुङ्क्ते । ग्रामस्योपरि ममत्वं करोति, यद्वाऽवकाशादिषु सर्वेष्वपि ममत्वं करोति । तथा ऋतुबद्धेमासाधिकंवर्षावासेचतुर्मासाधिकं वसति । एतेषुस्थानेषु 'इयम्' अनन्तरमेव वक्ष्यमाणा शोधिः ।। ५०८ तामेवाह [भा. २०२६ ] उक्कोसोवहि-फलए, वासातीए अ होंति चउलहुगा । डगलग सरक्ख मल्लग, पनगं सेसेसु लहुओ उ ॥ वृ-उत्कृष्टे उपधौ-वर्षाकल्पादिके फलके च तत्रैव गृह्यमाणे वर्षातीते चत्वारो लघवः । डगलकसरजस्क-मल्लकेषु उपलक्षणत्वात् काष्ठ-किलिञ्चादौ च रात्रिन्दिवपञ्चकम् । 'शेषेषु' परिशाटिसंस्तारकादिषु सर्वेष्वपि अनन्तरगाथाद्वयोक्तेषु स्थानेषु लघुको मासः ।। अथ मासाद्युपरि तिष्ठतो दोषानाह [भा. २०२७] संवासे इत्थिदोसा, उग्गमदोसा व नेहतो कुजा । चमढण गिलाणदुल्लभ, वारत्तिसिभासियाहरणं ॥ वृ- ऋतुबद्धे वर्षावासे वा यथोक्तकालावधेरुपरि 'संवासे' एकत्रावस्थाने क्रियमाणे सन्दर्शनसम्भाषणादिना स्त्रीविषया आत्मपरोभयसमुत्थादोषा भवेयुः । प्रभूतकालावस्थानतश्च साधूनामुपरि भद्रकगृहिणां गाढतरः स्नेह उपजायते, ततश्च ते स्नेहतः 'उद्गमदोषान्' आधाकर्मादीन् कुर्युः । ये तु प्रान्ता गृहपतयस्ते ब्रूयुः-कियचिरमस्माभिरमीषामद्यापि दातव्यं तिष्ठति? इति । अतिचमढणया च क्षेत्रं नीरसं भवति, ततो ग्लानस्य उपलक्षणत्वादाचार्यादीनां च प्रायोग्यं दुर्लभं भवेत् । अत्र च वारत्तकमहर्षे कृतस्वल्पमात्रगृहिसङ्गस्य प्रद्योतनृपेणोपहसितस्याहरणम् । अत एव तेन भगवता ऋषिभाषितेषु यत् सप्तविंशमध्ययनं विरचितं तत्रादावेवेदमुपदेशसूत्रमभाणिन चिरं जनि संवसे मुनी, संवासेण सिनेहि वडई | भिक्खुस्स अनिच्चचारिणो, आयट्टे जम्हा उहायई ॥ इति । गतमुपरि दोषा इति द्वारम् । अथ द्वितीयपदं भावयति [भा. २०२८] बहुदोसे वऽतिरित्तं, जइ लब्भे वेज्ज-ओसहानि बहिं । चउभाग तिभागऽद्धे, जयंतऽनिच्छे अलंभे वा ॥ वृ-ग्लाननिमित्तमतिरिक्मपि कालं वसेत् । अयोद्गमादिभिर्दोषैर्बहुदोषं तत् क्षेत्रं तत उत्पाट्य ग्लानं बहिर्गन्तव्यं यदि वैद्यौषधानि तत्र लभ्यन्ते । अथ ग्लानो बहिर्गन्तुं नेच्छति वैद्योपधानि वा बहिर्न लभ्यन्ते ततोऽनिच्छति अलाभे वा तत्रैव ग्रामे चतुर्भागीकृते ग्राममषटौ भागान् कृत्वा यतन्ते, तथा चेन्न संस्तरति ततः सप्त भागान्, एवं यावदेकभागमपि कृत्वा यतन्ते इति पुरस्ताद् वक्ष्यते, तथापि चतुर्भाग-त्रिभागा ऽर्द्धग्रहणं “तुलादण्डमध्यग्रहण'न्यायेनाष्टभागादीनामपि ग्रहणार्थम् । प्रकारान्तरेण द्वितीयपदमाह [भा. २०२९] ओमा ऽसिव-दुट्ठेसुं, चउभागादि न करिति अच्छंता । पोरुसिमाईवुड्डी, करिति तवसो असंथरणे ॥ वृ- अवमाऽशिव-राजद्विष्टेषु वहि सञ्जातेषु तत्रैव क्षेत्रेऽतिरिक्तमपि कालं तिष्ठन्ति यावद् वहि सुभिक्षादीनि जायन्ते । तच्च क्षेत्रं यदि लघुतरं ततस्तत्र तिष्ठन्तोऽसंस्तरणे सति चतुर्भागादिरचनां न कुर्वन्ति, किन्तु तत्र पौरुष्यादितपसो वक्ष्यमाणनीत्या वृद्धिं कुर्वन्ति । अथ बृहत्तरं तत् क्षेत्रं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy