________________
उद्देशक : १, मूलं-६, [भा.२०१३]
५०५ साधर्मिकवात्सल्यं चानुपालितं भवति । यदा च तदत्यागाद भयमुपशान्तं भवि तदा 'त' ग्लानं 'विमार्गयन्ति' शोधयन्तीत्यर्थः ।।
गतं ग्लानद्वारम् । अथ गच्छप्रतिबद्धयथालन्दिकद्वारमाह[मा.२०१४] पडिब्बे को दोसो, आगमनेगाणियस्स वासासु ।
सुय-संघयणादीओ, सो चेव गमो निरवसेसो । वृ-प्रतिबन्धनं प्रतिबद्धं गच्छप्रतिबन्ध इत्यर्थः तत्रकारणं यथालन्दिकानां वक्तव्यम् । “को दोसो"त्ति को नाम दोषो भवति यत् ते यथालन्दिका आचार्याधिष्ठिते क्षेत्रे न तिष्ठन्ति ? । “आगमनेगाणियस्स" त्ति यद्याचार्या स्वयं क्षेत्रबहिर्गन्तुं न शक्नुवन्ति तत एकाकिनो यथालन्दिकस्यागमनं गुरूणांसमीपे भवति । “वासासु"त्ति वर्षासु उपयोगं दत्त्वा यदि जानाति वर्षं न पतिष्यतिततआगच्छति यथालन्दिको गुरुसमीपे, अन्यथा तुनेति। श्रुत-संहननादिकस्तु गमः स एव निरवशेषो वक्तव्यः यो जिनकल्पिकानाम्, यस्तु विशेषः स प्रागेवोक्तः ।।
अथ प्रतिबद्धपदं व्याख्याति[भा.२०१५] सुत्तत्थ सावसेसे, पडिबंधो तेसिमो भवे कप्पो।
आयरिए किइकम्मं, अंतर बहिया व वसहीए।। वृ- सूत्रस्यार्थस्तैर्गृहीतः परमद्यापि 'सावशेषः' न सम्पूर्ण एष तेषां गच्छविषयः प्रतिबन्धो द्रष्टव्यः । तेषां च 'अयं वक्ष्यमाणः कल्पः, यथा-आचार्यस्यैव 'कृतिकर्म' वन्दनकं तैर्दातव्यं नान्येषां साधूनाम् । तथा यद्याचार्यों न शक्नोति गन्तुं ततोऽन्तरा वा ग्रामस्य बहिर्वा वसती यथालन्दिकस्य वाचनां ददाति । एदुतरत्र भावयिष्यते ।।
अथ कोदोष इति द्वारम् । शिष्यः पृच्छति-यद्याचार्याधिष्ठिते क्षेत्रे ते तिष्ठेयुस्ततः को दोषः स्यात? उच्यते[भा.२०१६] नमनं पुव्वब्भासा, अणमे दुस्सील थप्पगासंका ।
आयट्ट कुक्कुड त्ति य, वातो लोगे ठिई चेव ॥ वृ-यथालन्दिकानांन वर्त्तते आचार्य मुक्त्वा अन्यस्य साधोः प्रणामं कर्तुम्, तथाकल्पत्वात् । ततस्ते क्षेत्रान्तस्तिष्ठन्तः पूर्वाभ्यासाद् ‘नमनं प्रणामंसाधूनांकुर्युः। गच्छवासिनश्च यथालन्दिकान् वन्दन्ते, ते पुनर्यधालन्दिकास्तान भूयो न प्रतिवन्दन्ते, ततस्तेषामनमने लोको ब्रूयातू-'दुःशीलाः' शैलस्तम्भकल्पाअमी, येनान्येषामित्थं वन्दमानानामपि न प्रतिवन्दनं प्रयच्छन्ति, नवा कमप्यालापं कुर्वन्ति ।गच्छवासिषुवालोकस्य स्थाप्यकाशङ्का भवति, अवश्यं स्थाप्याः-दुःशीलत्वादन्दनीयाः कृता अमी, अन्यथा कथं न प्रतिवन्द्यन्ते?, आत्मार्थिका वा अमीयेनाप्रतिवन्दमानानपि वन्दन्ते, 'कौत्कुटिकावा' मातृस्थानकारिणोऽमी लोकपङ्क्रिनिमित्तमित्थं वन्दन्ते।एवं लोकेवाद उपाजायते। एतैः कारणैः क्षेत्रबहिस्ते यथालन्दिकास्तिष्ठन्ति।अपि च स्थितिरेव' कल्प एवायममीषाम्, यत् क्षेत्राभ्यन्तरे न तिष्ठन्ति॥
अथामीषामेव कल्पमाह[भा.२०१७] दोनि विदाउं गमनं, धारणकुसलसस खेत्तबहि देइ ।
किइकम्म चोल'पट्टे, ओवग्गहिया निसिज्जा य ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org