________________
५०४
।
बृहत्कल्प-छेदसूत्रम् -१-१/६ किञ्चिदित्यर्थः ।। [भा.२०१०] तं वयणं हिय मधुरं, आसासंकुरसमुभवं सयणो ।
समणवरगंधहत्थी, बेइ गिलाणं परिवहंतो॥ वृ-'तद् एवंविधं वचनं हितं' परिणामपथ्यं मधुरं' श्रोत्र-मनसां प्रल्हादकं तथाऽऽश्वास एवाङ्कुरः-प्ररोहस्तस्य समुद्भवः-उत्पत्तिर्यस्मात् तद् आश्वासाङ्कुरसमुद्भवम्, ग्लानस्याश्वासप्ररोहबीजमिति भावः, स्वजन इव स्वजनः स आचार्य 'श्रमणवरगन्धहस्ती' यथा हि गन्धहस्ती गजकलभानांयूथाधिपत्यपदमुहमानोगिरिकन्दरादिविषमदुर्गेष्वपि पतितो न तत्परित्यागं करोति, एवमयमपि गणधरपदमनुपालयन् विषमदशायामपि श्रमणवरान परित्यजतीति श्रमणवरगन्धहस्तीत्युच्यते, स ग्लानं परिवहन्' परिवर्तय त्रेवमनन्तरोक्तं ब्रविति॥ ततहत्थं तदीय बचनं श्रुत्वा समीपवर्तिनामगारिणामित्थं स्थिरीकरणमुपजायते[भा.२०११] जइ संजमो जइ तवो, दढमित्तित्तं जहुत्तकारितं ।
जइ बंभंजइ सोयं, एएसुपरं न अन्नेसुं॥ वृ- यदि “संयमः' पञ्चाश्रवविरमणादिरूपो यदि 'तपः' अनशनादिरूपं 'दृढमैत्रीकत्वं' निश्चलसौहृदं 'यथोक्तकारित्वं' भगवदाज्ञाराधकत्वं यदि 'ब्रह्म' अष्टादशभेदभिन्नं सब्रह्मचर्य यदि 'शौचं' निरुपलेपता सद्भावसारता वा, एतानि यदि परमेतेष्वेव साधुषु प्राप्यन्ते 'नान्येषु' शाक्यादिपरतीर्थिकेषु, तेषामेवंविधस्य ग्लानप्रतिचरणविधेरभावात् ।।
इत्थं ताव विषमायामपि दशायां ग्लानो न परित्यक्तव्य इत्युक्तम् ।
अथात्यन्तिके भये तमपरित्यजतां यदि सर्वेषामपि विनाश उपढौकते ततः को विधि ? इत्याह[भा.२०१२] अच्चागाढे व सिया, निक्खित्तो जइ वि होज जयणाए।
तह वि उ दोण्ह वि धम्मो, रिजुभावविचारिणो जेणं ।। वृ-'अत्यागाढे प्रत्यन्तम्लेच्छादिभये, वाशब्दः पातनायाम्, साचप्रागेव कृता, “स्यात् कदाचिद् यतनया निष्प्रत्यपाये प्रदेशे यद्यप्यसौ ग्लानो निक्षिप्तो भवेत् तथापि 'द्वयोरपि' ग्लानप्रतिचरकवर्गयोः 'धर्म' “सर्वं वाक्यं सावधारणं भवति' इति न्यायाद् धर्म एव मन्तव्यः । कुतः? इत्याह-'येन' कारणेन द्वावपितौऋजुः-अकुटिलो मोक्ष प्रतिप्रगुणोयो भावः-परिणामस्तत्र विचरितुं शीलमनयोरिति ऋजुभावविचारिणी, अशठपरिणामयुक्ताविति भावः॥
ततश्च[भा.२०१३] पत्तो जसो य विउलो, मिच्छत्त विराधना य परिहरिया।
साहम्मियवच्छल्लं, उवसंते तं विमग्गंति॥ वृ-तैराचार्य साधुभिश्चताशेऽपि भये सहसैव ग्लानमपरित्यजभि विपुलं' दिग्विदिक्प्रचारि यशःप्राप्तम्। गाथायां पुंस्त्वनिर्देशःप्राकृतत्वात्, एवमन्यत्रापि यथायोगंलिङ्गव्यत्ययो मन्तव्यः। तथा 'मिथ्यात्वं' तत्परित्यागसमुत्थमन्येषां गृहस्थानांग्लानस्य वा मिथ्यादर्शनगमनं तत् परिहृतं भवति । विराधना च ग्लानस्यसहायविरहितस्य संयमा-ऽऽत्मविषया सा च परिहता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org