________________
उद्देशक : १, मूलं-६, [भा. २००४]
५०३
होउ त्ति भणिय गुरुगा, इणमन्ना आवई बिइया ।। वृ-अथवा स ग्लानो भणेत-मां छर्दयित्वा' परित्यज्य यूयं गच्छत । एवमुक्ते यदि कोऽपि साधुः भवत्वेवम्' इति भणति तदा तस्य चत्वारो गुरुकाः । इयं वक्ष्यमाणलक्षणा प्रकारान्तरेण 'अन्या' द्वितीया आपदुच्यते॥
तामेवाह[भा.२००५] पञ्चंतमिलक्खेसुं, बोहियतेणेसु वा वि पडिएसु।
जनवय-देसविनासे, नगरविनासे य धोरम्मि।। [भा.२००६] बंधुजनविप्पओगे, अमायपुत्ते वि वट्टमाणम्मि ।
तह वि गिलाण सुविहिया, वचंति वहंतगा साहू ।। वृ-प्रत्यन्ताः-प्रत्यन्तदेशवासिनो ये म्लेच्छास्तेषु तथा बोधिकस्तेना नाम-ये मानुषाणि हरन्ति तेषु वा पतितेषुसत्सुयो जनपदस्य-मगधादेः देशस्यवा-तदेकदेशभूतस्य विनाशः-विध्वंसस्तस्मिन्, तथा नगरविनाशे च 'घोरे' रौद्रे उपस्थिते, बन्धुजनानां-स्वज्ञातिलोकोनां मरणभयातिरेकात् पलायमानानां यः परस्परं विप्रयोगस्तस्मिन्, कथम्भूते? _ 'अमातापुत्रे' स्वस्वजीवितरक्षणा-क्षणिकतया यत्र माता पुत्रं न स्मरति पुत्रोऽपि मातरं न स्मरति तदमातापुत्रम् “मयूरव्यंसकेत्यादयः" इति समासः तस्मिन्नपि वर्तमाने ये 'सुविहिताः' शोभनविहितानुष्ठानास्ते तथापि ग्लानं वहन्तो व्रजन्ति न पुनः परित्यजन्ति ।।
ततोऽसौ ग्लानः प्राह[भा.२००७] तारेह ताव मंते!, अप्पाणं किं मएल्लयं वहह ।
एगालंबनदोसेण मा हु सव्वे विनस्सिहिह ।।। वृ-तारयत तावद् भदन्त ! यूयमात्मानमस्मादपारादापत्पारावारात्, किं मां मृतमिव मृतम्अद्यश्वीनमृत्युसम्भवतया शबप्रायंवहत? ।अपिच ‘एकालम्बनदोषेण' मदीयमेवयदेकमालम्बनं तदेव बहूनां विनाशकारणतया दोषस्तेन मा यूयं सर्वे विनयथ ।। [भा.२००८] एवं च भणियमेत्ते, आयरिया नाण-चरणसंपन्ना ।
अचबलमणलिय हितयं, संताणकरिं वइमुदासी ।। वृ-एवंच ग्लानेन भणितमात्रे सति आचार्या 'ज्ञान-चरणस्पत्राः' संविग्नगीतार्था इति भावः 'अचपलाम्' अत्रितां त्वराकारमस्य मरणभयस्याभावात् 'अनलीकां' सत्यां सद्भावसारत्वात् 'हिताम्' अनुकूलां परिणामसुन्दरत्वात् “सन्त्राणकरी' आर्त्तजनपरित्राणकारिणीं वाचमुदाहृतवन्तः ॥ कथम् ? इत्याह[भा.२००९] सव्वजगज्जीवहियं, साहुं न जहामो एस धम्मोणे ।
जति य जहामो साहुं, जीवियमित्तेण किं अम्हं ।। कृ.सर्वस्मिन्जगतियेजीवाः-त्रस-स्थावरभेदभिन्नास्तेषामभयदायकतया हितंसर्वजगजीवहितं साधु 'नप्रजहिमः' न परित्यजामः, एषोऽस्माकं 'धर्म' समाचारः । यदि च साधुं प्रजहीमस्ततः किमस्माकं 'जीवितमात्रेण' सदाचारजीवितविकलेन बहिप्राणधारणमात्रेण प्रयोजनम् ? न For Private & Personal Use Only
www.jainelibrary.org
Jain Education International