________________
५०२
बृहत्कल्प-छेदसूत्रम् -१.१६
[भा.१९९९] संवच्छराणि तिन्निय, कुलं पिपरियट्टई पयत्तेणं ।
जाहे न संथरिज्जा, गणस्स उ निवेदणं कुज्जा ।। वृ-त्रीन् संवत्सरान् कुलमपि प्रायोग्यभक्त-पानौषधादिभिप्रयत्नेन परिवर्त्तयति । ततस्त्रिषु वर्षेषु पूर्णेषु यदा न संस्तरेत् तंदा गणस्य निवेदनं कुर्यात् ॥
ततः[भा.२०००] संवच्छरंगणो वी, गिलाण परियट्टई पयत्तेणं ।
जाहे न संथरिजा, संघस्स निवेयणं कुजा ।। वृ-एकं संवत्सरं यावद् गणोऽपि ग्लानं महता प्रयत्नेन परिवर्तयति । ततो यदा न संस्तरेत् ततः सङ्घस्य निवेदनं कुर्यात् । ततः सङ्घो यावजीवंतं सर्वप्रयलेन परिवर्तयति ॥
गाथात्रयोक्तमर्थमेकगाथया संगृह्य प्रतिपादयति[भा.२००१] छम्मासे आयरिओ, कुलं तु संवच्छराइँ तिन्नि भवे ।
संवच्छरंगणो वी, जावजीवाय संघो उ॥ वृ-व्याख्यातार्था ॥
एतच्च यो भक्तविवेकं कर्तुं न शक्नोति तमुटिश्य द्रष्टव्यम् । यस्तु भक्तविवेकं कर्तुं शक्नोति तेनाष्टादशमासान् यावत्प्रथमतश्चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसारे दुरापत्वात् । ततः परं यदि न प्रगुणीभवति ततो भक्तविवेकः कर्त्तव्य इति । आगाढे कारणजाते साते सति ग्लानस्य वैयावृत्त्यं न कुर्यादपि परित्यजेद् वा ग्लानम्।
किं पुनस्तत् कारणजातम् ? इति उच्यते[भा.२००२] असिवे ओमोयरिए, रायडुढे भये व गेलने।
एएहि कारणेहिं, अहवा वि कुले गणे संघे ॥ वृ-अशिवे समुत्पन्ने सतिग्लानं परित्यजेद्नच प्रायश्चित्तमाप्नुयात्। एवम् अवमौदर्येराजद्विष्टे 'भये वा' शरीरस्तेनसमुत्थे “गेलने"त्ति सर्वोवा गच्छो ग्लानीभूत इत्यतः कस्य कः प्रतिचरणं करोतु ? एतैः कारणैः, अथवा कुलस्य गणस्य सङ्घस्य वा समर्पिते ग्लाने स्वयमकुर्वन्नपि शुद्धः । परित्यजने त्वियं यतना-अशिवे समुत्पन्ने देशान्तरं सङ्क्रामन् ग्लानमन्येषां प्रतिबन्धस्थितानां साधूनामर्पयति,तेषामभावेशय्यातरादीनांसमीपेसाधर्मिकस्थलीषुवा देवकुलिकेषुवा निक्षिपन्ति। एवमवमौदर्ये भयेच द्रष्टव्यम्। राजद्विष्टे यद्येकस्य गच्छस्यप्रद्वेषमापनोराजा ततोऽन्येषांसाधूनां समर्पयन्ति, अथ सर्वेषामपि प्रद्विष्टस्ततः श्रावकादिषु निक्षिप्य व्रजन्ति । उत्सर्गतः पुनरेतैरपि कारणैर्न नक्षिपन्ति किन्तु स्कन्धे न्यस्य वहन्तीति ।।
आह च[भा.२००३] एएहि कारणेहि, तह वि वहंती न चेव छड्डुिति।
असहू वा उवगरणं, छडिंति न चेव उ गिलाणं ।। कृ-एतैः कारणैर्यद्यपिग्लानोनिक्षेप्तुंकल्पतेतथापिवहन्ति नैवपरित्यज्यित।अथ असहिष्णवः' वोढुमसमर्था तत उपकरणं पिरत्यजन्ति नैव ग्लानम् ॥ [भा.२००४] अहवा वि सो भणेजा,छड्डेउ ममं तु गच्छहा तुब्मे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org