________________
५०६
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-आचार्यसूत्रार्थपौरुष्यौ द्वे अपि गच्छवासिनां दत्त्वा यथालन्दिकानां समीपे गमनं करोति। गत्वा च तत्र तेषामर्थं कथयति । अथाचार्यो न शक्नोति तत्र गन्तुंततो यस्तेषां यथालन्दिकानां मध्ये धारणाकुशलः-अवधारणाशक्तिमान्स क्षेत्रवहिरन्तरापल्लिकायाःप्रत्यासन्नेभूभागेसमायाति, तत्रच गत्वा आचार्यस्तस्यार्थददाति।सच श्रुतभक्तिहेतोराचार्याणां कृतिकर्म' वन्दनकं दत्त्वा चोलपट्टकद्वितीय औपग्रहिक्यां निषद्यायामुपविष्टश्चार्थं श्रृणोति॥
अथ "दोनि विदाउं गमनं" इत्यपवदन्नाह[भा.२०१८] अत्थं दो व अदाउं,वच्चइ वायावए व अन्नेणं।
एवं ता उडुबद्धे, वासासु य काउमुवओगं ।। कृयद्याचार्यो द्वेअपि पौरुष्यौ दत्त्वा गन्तुंनशक्नोतिततोऽर्थमदत्त्वा, तथाप्यशक्तौ 'द्वावपि' सूत्रार्थावदत्वा व्रजति, अन्येन वा शिष्येणस्वशिष्यान् वाचयति' वाचनांदापयति । अथाचार्यस्तत्र गन्तुमशक्तस्ततो यथालन्दिक एकः सूरिसमीपमायाति । एवं तावद् ऋतुबद्धे द्रष्टव्यम् ।
वर्षासुचशब्दः पुनरर्थे वर्षासुपुनरयं विशेषः- उपयोगं कृत्वा' 'किं वर्षं पतिष्यति न वा?' इति विमृश्य यदि जानातिपतिष्यति ततो नाचार्याणां समीपमायाति, अथ जानातिनपतिष्यति ततः समायाति॥
अथ गुरवस्तत्र गताः कथं समुशिन्ति? इत्याह[भा.२०१९] संघाडो मग्गेणं, भत्तं पानं च नेइ उ गुरूणं।
अच्चुण्हं थेरा वा, तो अंतरपल्लिए एइ।। वृ-'गुरूणां यथालन्दिकसमीपमुपगतानां योग्यं भकतं पानं च गृहीत्वा सङ्घाटकः “मार्गेण' पृष्ठतो गत्वा तत्र नयति । अथ यावता कालेन यथालन्दिकानामुपाश्रयं गुरवो व्रजन्ति तावता 'अत्युष्णम्' अतीवातपश्चटति स्थविरावा' वार्द्धकवयःप्राप्तास्तेआचार्यास्ततोऽन्तरपल्लिकायामेको यथालन्दिकोधारणासम्पन्नः समायाति । तत्र गुरवोऽपिगत्वा तस्य वाचनांदत्वा सङ्घाटकेनानीतं भक्त-पानं समुश्यि सन्ध्यासमये मूलक्षेत्रमायान्ति ॥
अथान्तरपल्लिमपि गन्तुमसमर्थाः गुरवस्ततः किम् ? इत्याह[भा.२०२०] अंतर पडिवसभेवा, बिइयंतर बाहि वसभगामस्स ।
अन्नवसहीए तीए, अपरीभोगम्मि वाएइ। वृ-अन्तपल्लिका-प्रतिवृषभग्रामयोः 'अन्तरा' अपान्तराले गत्वा यथालन्दिकं वाचयति। तत्र गन्तुमशक्तौ प्रतिवृषभग्रामे । अथ तत्रापि गन्तुं न शक्नोति ततः "बिइयंतर"त्ति द्वितीयंप्रतिवृषभ-मूलक्षेत्रयोरपान्तराललक्षणं यदन्तरंयत्र गत्वा वाचनांप्रयच्छति। तत्रापि गमनाशक्ती 'वृषभग्रामस्य मूलक्षेत्रस्य बहिर्विजनेप्रदेशे गत्वा वाचयति । यदि तत्रापि गन्तुंनप्रभविष्णुस्ततो मूलक्षेत्र एवान्यस्यांवसतौ । तत्रापि गन्तुमशक्तौ तस्यामेव मूलवसतावपरिभोग्येऽवकाशेवाचयति।।
तत्र चेयं सामाचारी[भा.२०२१] तस्स जई किइकम्म, करिति सो पुन न तेसि पकरेइ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org